भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १५४

त्रयी-उपाख्यानवर्णनम्

सुमन्तुरुवाच
श्रुत्वा तु वचनं भानुर्विष्णोरमिततेजसः ।
उवाच कुरुशार्दूल आदित्यः कृपयान्वितः । । १
आदित्य उवाच
कृष्ण कृष्ण महाबाहो शृणु मे परमं वचः ।
यदर्थं प्रार्थितः कृष्ण तत्सर्वं ते भविष्यति । । २
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
अजेयस्त्वं महाबाहो भविष्यसि न संशयः । । ३
जगत्पालयितुं सर्वं समर्थश्च भविष्यसि ।
अचला तव भक्तिश्च भविष्यति ममोपरि । ।४
ब्रह्मापि सततं शक्तो जगत्स्रष्टुं भविष्यति ।
संहर्तुं शङ्करश्चापि मत्प्रसादाद्भविष्यति । ।५
भवन्तो मत्प्रसादेन ज्ञानिनामुत्तमं पदम् ।
गमिष्यन्ति न सन्देहो मत्पूजाप्रसादतः । ।६
रवेर्वचनमाकर्ण्य गोश्रुताभरणो विभो ।
उवाच गोपतिर्गोगो गोपतिं गोवृषध्वजः । ।७
त्वामाराध्य भविष्यामो वयं सर्वे सुरोत्तमाः ।
कथमाराधयामो हि भवन्तं श्रद्धयान्विताः । ।
श्रेयसे सततं देव ब्रूहि नस्तत्त्वमात्मनः । ।८
भवतो हि न पश्यामो मूर्तिं परमपूजिताम् ।
पश्यामः केवलं तेजो ह्यब्धेस्तोयमिवोज्झितम् । । ९
ज्वालामालाकुलं सर्वमनेकाकृति चाद्भुतम् ।
न चाकारविहीनं तु चेतसो लम्बनं भवेत् । । 1.154.१०
आलम्बनादृते देव न चित्तरमणं क्वचित् ।
चेतसोऽरमणे भक्तिर्न पुंसां जायते क्वचित् । । ११
भक्तिं विना पूजयितुं न शक्यन्ते दिवौकसः ।
त्वत्पूजने हि प्राप्यन्ते देव धर्मादयो नरैः । । १२
तस्माद्दर्शय तां मूर्तिमात्मनो या परा मता ।
येन त्वां पूजयित्वा तु वयं सिद्धा भवामहे । । १३
सूर्य उवाच
साधु साधु महादेव साधु पृष्टोऽस्मि सुव्रत ।
शृणु चैकमनाः कृत्स्नं गदतो मम मानद । । १४
चतुर्मूर्तिरहं देव जगद्व्याप्य व्यवस्थितः ।
श्रेयसे सर्वलोकानामादिमध्यान्तकृत्सदा । । १५
एका मे राजसी मूर्तिर्ब्रह्मेति परिकीर्तिता ।
सृष्टिं करोति सा नित्यं कल्पादौ जगतां विभो । । १६
द्वितीया सात्त्विकी प्रोक्ता या परा परिकीर्तिता ।
जगत्सा पालयेन्नित्यं दुष्टदैत्यविनाशिनी । । १७
तृतीया तामसी ज्ञेया ईशेति षरिकीर्तिता ।
त्रैलोक्यं संहरेत्सा तु कल्पान्ते शूलपाणिनी । । १८
चतुर्थी तु गुणैर्हीना सत्यादिभिरनुत्तमा ।
सा चाशक्या क्वचिद्द्रष्टुं स्थिता सा चाभवत्सदा । । १९
तया ततमिदं सर्वं यच्चोद्गीथं तु मे गतिः ।
निष्कला सकला सा तु सुरूपा रूपवर्जिता । । 1.154.२०
अन्तर्गता च लोकानां न च कर्मफलं गता ।
तिष्ठमानाप्यलिप्ता सा पद्मपत्रमिवाम्भसा । । २१
अनष्टा च सदा षड्भिः सप्तातीत्य व्यवस्थिता ।
चतुस्तना च सा षड्भ्यस्तुरीयाख्या सुपूजिता । । २२
न सा स्प्रष्टुं त्वया शक्या हरिणा ब्रह्मणा न च ।
मामनाराध्य भूतेश व्योमरूपं कदाचन । । २३
यदेतद्भवतां देव प्रबोधार्थमुपस्थितम् ।
अहंकारविमूढानां तमसा च त्रिलोचन । । २४
प्रकाशाय च लोकानां ज्वालामालासमाकुलम् ।
कर्णिकेव स्थितं देव भूपद्मस्याखिलस्य च । । २५
यस्य संदर्शनादेव यूयं सर्वे प्रबोधिताः ।
प्रकाशमभवद्वापि जगत्सर्वमथार्चिभिः । । २६
तस्मादाराधयस्वैनमस्पृष्टं गमनोपमम् ।
मन्मूर्तिं येन तां दिव्यां द्रक्ष्यसि त्वं त्रिलोचन । । २७
यत्त्वाद्यमीश्वरं जज्ञे तद्व्योम परिकीर्तितम् ।
कल्पान्ते ह्यत्र वै व्योम्नि लीयन्ते सर्वदेवताः । । २८
दक्षिणे लीयते ब्रह्मा वामे तस्य जनार्दनः ।
त्वं सदा कचदेशे तु लीयसे त्रिपुरान्तक । । २९
गायत्री लीयते तस्य हृदये लोकमातरः ।
लीयन्ते मूर्द्ध्नि वै वेदः सषडङ्गपदक्रमः । । 1.154.३०
जठरे लीयते सर्वं जगत्स्थावरजङ्गमम् ।
पुनरुत्पद्यते ह्यस्माद्ब्रह्माद्यं सचराचरम् । । ३१
आकाशं व्योम इत्याहुः पृथिवी निक्षुभा मता ।
भूतश्रेयोहऽमाकाशो निक्षुभा दयिता मम । । ३२
मया निक्षुभया सर्वं जगद्व्याप्तं त्रिलोचन ।
तस्मादाराधय व्योम त्वं ब्रह्मा केशवस्तथा । । ३३
तन्मे रूपं महद्व्योम पूजयित्वा त्रिलोचन ।
दिव्यं वर्षसहस्रं हि गिरौ त्वं गन्धमादने । ।
ततो यास्यसि संसिद्धिं षडङ्गां परमां शुभाम् । । ३४
कलापग्राममाश्रित्य शङ्खचक्रगदाधरः ।
आराधयतु मां भक्त्या व्योमरूपं जनार्दनः । । ३५
अन्तरिक्षगतं तीर्थं पुष्करं लोकपावनम् ।
तत्र गत्वा विरिञ्चो मे व्योमरूपं सदार्चतु । । ३६
एवं मां सततं यूयं समाराध्य जगत्पतिम् ।
समानां च सुदिव्यानां सहस्रत्रयमादरात् । । ३७
ततो द्रक्ष्यथ मे मूर्तिं परमां यां विदुर्बुधाः ।
कदम्बगोलकाकारां रश्मिमालाकुलां पराम् । । ३८
अथ नारायणो देवः प्रणम्य शिरसा रविम् ।
कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् । । ३९
विष्णुरुवाच
यदि ते परमं रूपं मतं व्योम ह्यनौपमम् ।
तमाराध्य वयं सर्वे यास्यामः सिद्धिमुत्तमाम् । ।1.154.४ ०
कीदृग्व्योम त्वहं ब्रह्मा हरश्च त्रिपुरान्तकः ।
आराधयामहे देव भक्त्या श्रेयोऽर्थमात्मनः । ।४ १
येन सिद्धिं गमिष्यामस्तमाराध्य दिवाकरम् ।
तस्मान्नो लक्षणं ब्रूहि व्योम्नः परमपूजित । ।४२

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे त्रय्युपाख्याने चतुःपञ्चाशदधिकशततमोऽध्यायः । १ ५४।