सूर्यावतारकथाप्रस्ताववर्णनम्

।। शतानीक उवाच ।। ।।
एतन्मे कौतुकं ब्रह्मन्यद्वरं ब्रह्मणे रविः ।।
दत्तवांस्तव पुत्रत्वमन्वये कश्यपस्य तु ।। ।। १।।
यास्यामि द्विजशार्दूल प्रपन्नतिमिरापहः ।।
एतन्मे महदाश्चर्यं शंस भूमिं कथं व्रजेत् ।। २ ।।
देवादीनां प्रणेता यो यो भुवि प्रसवो विभुः ।।
स कथं भूतले व्योम जन्मभावं गमिष्यति ।। ३ ।।
किमर्थं दिव्यमात्मानं जन्मने स नियोक्ष्यति ।।
यश्चक्रं वर्तयत्येको ब्रह्मादीनां मनोरमम्।।४।।।
स जन्मनि कथं पुण्यां बुद्धिं चक्रे विदांवर ।।
गोपायनं यत्कुरुते जगतः सर्वलौकिकम् ।।५ ।।
गोभिः पालयते कृत्स्नमात्मनो यः स्वयं रविः ।।।
महाभूतानि भूतात्मा यश्चकार दधार च ।। ६ ।।
अगर्भः स कथं गर्भमुदरे याचते विभुः ।।
येन गोभिः समाक्रांता विप्र लोकाश्चतुर्दश ।। ७ ।।।
स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ।।
योऽन्तकाले जगत्पीत्वा कृत्वा वज्रमयं वपुः ।। ८ ।।
लोकमेकार्णवं चक्रे दृश्यते स्वेन कर्मणा ।।
यः पुराणे पुराणात्मा तेजसां रूपमास्थितः ।। ९ ।।
अपि सृष्ट्वा द्विजश्रेष्ठ यः ससर्ज वसुंधराम्।।
चकार च पुरा यश्च त्रैलोक्यमिदमव्ययः ।। 1.157.१० ।।
ददौ कृत्वा वसुमतीं सुराणां सुरसत्तमः ।।
यः स्थितो ह्यनलं पीत्वा संवत्सरमयश्च यः ।।
पातालस्थोर्णवरसं मध्यतोयमयं हविः ।। ११ ।।।
सहस्रशिरसं देवं सहस्राक्षं सहस्रशः ।।
सहस्रचरणं ब्रह्मन्यमाहुर्वै युगे युगे ।। १२ ।।
मुखाद्यस्य समुत्पन्नो वेधा लोकपितामहः ।।
हरिश्च वक्षसो यस्य ललाटाद्यस्य शंकरः ।। १३ ।।
येन ते निहता दैत्या मंदेहा नाम नामतः ।।
ब्रह्मादीनां दुराधर्षो यः सदा विघ्ननाशनः ।।१४।।
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः ।।
एकचक्ररथारूढो गरुडाग्रजसारथिः ।। १५ ।।
करांते यो जगत्सर्वं सह दानवराक्षसम् ।।
प्रकाशतममस्पृष्टं वपुर्यस्य सदा द्विज ।। १६ ।।
पूर्वा दिशं गतो नित्यमुदयाचलमक्रमम् ।।
नाशयेद्यस्तु सततं तमो लोकस्य शांतये ।। १७ ।।
नाशयित्वा तमो यस्तु क्रियाः सर्वाः प्रवर्तयेत् ।।
योक्त्राणि दक्षिणादीक्ष्य मुसलोलूखलानि च ।। १८ ।।
गार्हपत्येन विधिना तद्वद्धार्येण कर्मणा ।।
अग्निमाहवनीं चैव वेदिं चैव कुशं स्रुचम् ।।
प्रोक्षणीयव्रतं चैव अवभृथं तथैव च ।। १९ ।।
सर्वानिमांश्च यश्चक्रे हव्यभागप्रदान्मुखे ।।
हव्यादांश्च सुरान्यज्ञे कव्यादांश्च पितॄनपि ।। 1.157.२० ।।
भागार्थे मधुधानाय चक्रे यो यज्ञकर्मणि ।।
पूषणं च सुतं सोमं पवित्रामरणीमपि ।। २१ ।।
यज्ञानि च द्रव्याणि यज्ञांश्चापि सऋत्विजः ।।
सदस्यान्यजमानांश्च मेधाविनस्तथोत्तमान्।। २२ ।।
विबभाज पुरा सर्वं पारमेष्ठयेन कर्मणा ।।
युगानुरूपो यः कृत्वा लोकाननुवरं क्रमात् ।। २३ ।।
क्षणान्कलाश्च काष्ठाश्च कालवैकल्यमेव च ।।
मुहूर्तास्तिथयो मासाः पक्षाः संवत्सरास्तथा ।।२४।।
ऋतवः कालयोगाश्च प्रमाणं विविधं नृषु ।।
आयुः क्षेत्राण्यपचयोपचयांश्चैव योऽकरोत् ।। २५ ।।
सृष्टा लोकास्त्रयोनंता येन ज्ञानेन वर्त्मना ।।
सर्व ,भूतगणाः सृष्टाः सर्वभूतात्मना सदा ।। २६ ।।
प्रणामत्रयपूर्वेण योगेन रमते च यः ।।
यो गतागतिपोतेन त्रातास्ति जगदीश्वरः ।। २७।।
यो गतिर्वृषयुक्तानां गतिर्योऽपापकर्मणाम् ।।
चातुर्वर्ण्यप्रभावश्च वपुर्होत्रस्य रक्षिता ।। २८ ।।
धातुवैद्यस्य यो वेत्ता चतुराश्रमसंश्रयः ।।
दिगंबरानुभूतश्च वायुर्वायुविभावनः ।। २९ ।।
अग्नीषोमात्मकं ज्योतिर्योगीशः क्षणदांतकः ।।
यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः ।। 1.157.३० ।।
यं परं परमं प्राहुः परमात्मानमच्युतम् ।।
ब्रह्मादिभिः स्तुतो देवो यश्च दैत्यांतकृद्विभुः ।।३१।।
युगांतेष्वतंको यस्तु यश्च लोकांतकोत्तमः ।।
सेतुर्यो लोकसेतूनां मध्ये यो मध्यकर्मणाम् ।।३२।।
वेत्ता यो वेदविदुषां प्रभुर्यः प्रभविष्णुनाम् ।।
सौम्यभूतस्तु सौम्यानामग्निभूतोग्निवर्चसाम् ।। ३३ ।।
मानुषाणां मनोभूतस्तपोभूतस्तपस्विनाम् ।।
विनयो नयवृत्तीनां तेजस्तेजस्विनामपि ।। ३४ ।।
विग्रहो विग्रहाणां च गतिर्गतिमतामपि ।।
आकाशप्रसवो वायुर्वायुः प्राणो हुताशनः ।।
देवाहुतिप्रदानोद्यत्प्राणाग्निस्तमनाशनः ।। ३५ ।।
रसाद्धि शोणितं भवति शोणितान्मांसमुच्यते ।।
मांसान्मज्जावसोर्जन्म मज्जनोस्थीनि जन्मतः ।। ३६ ।।
अस्थिमज्ज्ञः समभवत्ततो वै शुक्रमादिशेत् ।।
शुक्राद्गर्भः समभवद्रसमूलेन कर्मणा ।।
तत्रापः प्रथमो भागः स सौम्यो राशिरुच्यते ।। ३७ ।।
ततः क्ष्मासंभवो ज्ञेयो द्वितीयो राशिरुच्यते ।।
शुक्रं सोमात्मकं विद्यादात्मरूपं यदात्मकम् ।। ३८ ।।
भवो रसात्मकस्तेषां वीर्यं च शशिपावकम् ।।
कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम् ।। ३९ ।।
कफस्य पृथिवी स्थानं पित्तं नाभौ प्रतिष्ठितम् ।।
देवस्य मध्यहृदयं स्थानं तु मनसः स्मृतम् ।।
नाभिकोष्ठांतरस्थं तु तत्र देवो दिवाकरः ।।1.157.४०।।
मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ।।
पित्तमग्निः स्मृतो यस्मादग्नीषोमात्मकं जगत् ।। ४१ ।।
एवं प्रवर्तिते गर्भे वर्धितेंऽबुदसन्निभे ।।
वायुः प्रवेशं संचक्रे संगतः परमात्मना ।। ४२ ।।
ततोंऽगानि विसृजते बिभर्ति परिवर्तयन् ।।
प्राणोऽपानः समानश्च उदानो व्यान एव च ।। ४३ ।।
प्राणोस्य प्रथमं स्थानं वर्धयन्परिवर्तते ।।
अपानं पश्चिमे काय उदानोर्ध्वं शरीरगः ।।
व्यानोऽथ व्यापको देहे समानः सन्निवर्तते ।। ४४ ।।
भूतावाप्तिस्ततस्तस्य जायतींद्रियगोचरा ।।
पृथिवी वायुराकाश आपो ज्योतिश्च पंचमः ।। ४५ ।।
तस्येंद्रियाणि पिष्टानि स्वंस्वं योगं प्रचक्रमुः ।।
पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम् ।। ४६ ।।
निद्रा ह्याकाशयोनिश्च जलाश्रये प्रवर्तते ।।
ज्योतिश्चक्षुषि तज्जन्म तदंशस्तामसः स्मृतः ।। ४७ ।।
ग्रामाश्च विषयाश्चैव यस्य वीर्यं प्रवर्तितम्।।
एवं यः सृजते लोकान्सदेवासुरमानवान् ।। ४८ ।।
स कथं देवदेवेशो गर्भमेष्यति चांशुमान् ।।
यथोदरमदित्यास्तु यः स्वयं चाविशत्पुरा ।।४९।।
एवं मे संशयो ब्रह्मन्नेष मे विस्मयो महान् ।।
कथं रविर्ययौ गर्भभावं द्विजवरेति मे ।। 1.157.५० ।।
आश्चर्यं परमं पृच्छे त्वामहं भास्करस्य वै ।।
भानोरुत्पत्तिमाश्चर्यं हृदि मे परिवर्तते ।। ५१ ।।
एतदाश्चर्यमाख्यानं कथयस्व महामुने ।।
समाख्याहि बलं वीर्य भानोरमिततेजसः ।। ५२ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यावतारकथाप्रस्ताववर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः ।। १५७ ।।