भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १६१

सूर्यपूजाफलप्रश्नवर्णनम्

।। शतानीक उवाच ।। ।।
एवमेतद्यथात्थ त्वं भास्करो दैवतं परम् ।।
नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः ।। १ ।।
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ।।
भवत्यस्माज्जगत्सर्वं सदेवासुरमानुषम् ।। २ ।।
रुद्रेंद्रोपेंद्रकेंद्राणां विप्रेंद्र त्रिदिवौकसाम् ।।
द्युतिर्द्युतिमतां कृत्स्ना तेजो यत्सार्वलौकिकम्।। ३ ।।
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ।।
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ।। ४ ।।
ततः संजायते सर्वं तत्रैव प्रविलीयते ।।
भावाभावौ हि लोकनामादित्यान्निःसृतौ पुरा ।। ५ ।।
जगज्ज्येष्ठो ग्रहो विप्र प्रदीप्तः प्रभवो रविः ।।
तत्र गच्छंति निधनं जायंते च पुनः पुनः ।। ६ ।।
क्षणा मुहूर्ता दिवसा रात्रिपक्षाश्च कृत्स्नशः ।।
मासाः संवत्सराश्चैव ऋतवश्च युगानि च ।। ७ ।।
स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः ।।
प्रभासयति विप्रेंद्र त्रैलोक्यं सचराचरम् ।। ८ ।।
तस्मादस्य द्विजश्रेष्ठ पूजने यत्फलं भवेत् ।।
तन्मे ब्रूहि प्रयत्नेन प्रसादप्रवणो भव ।। ९ ।। ।।

इति श्रीभविष्ये महापुराणे सप्तमीकल्पे ब्राह्मे पर्वणि सौरधर्मे सूर्यपूजाफलप्रश्नवर्णनं नामैकषष्ट्युतरशततमोऽध्यायः ।।१६१।।