भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १६२
सौरधर्मवर्णनम्
।। सुमंतुरुवाच ।। ।।
भानुं प्रतिष्ठाप्य नरः सर्वदेवमयं विभुम् ।।
प्राप्नोत्यमरतां वीर तेजसा रविसन्निभः ।। १ ।।
यो भानुं द्वेष्टि संमोहात्सर्वदेवनम स्कृतम् ।।
नरो नरकगामी स्यात्तस्यसंभाषणादपि ।। २ ।।
भानुमिष्टं प्रतिष्ठाप्य सर्वयत्नैर्विधानतः ।।
यत्पुण्यफलमाप्नोति तदेकाग्रमनाः शृणु ।। ।। ३ ।।
सर्वयज्ञतपोदानतीर्थदेवेषु यत्फलम् ।।
तत्फलं कोटिगुणितं स्थाप्य भानुं लभेन्नरः ।। ४ ।।
यो भानुं स्थापयेद्भक्त्या विधिपूर्वं नराधिप ।।
सर्वांगमुदितं पुण्यं लभेत्कोटिगुणं नरः ।। ५ ।।
मातृजान्पितृजांश्चैव यत्र चोद्वहते स्त्रियम् ।।
कुलत्रयं समुद्धृत्य शक्रलोके महीयते ।।६।।
भुक्त्वा विपुलान्भोगान्प्रलये समुपस्थिते ।।
ज्ञानयोगं समासाद्य तत्रैव प्रविमुच्यते ।। ७ ।।
अथ वा राज्यमाकांक्षेज्जायते संभवांतरे ।।
सप्तद्वीमसमुद्रायाः क्षितेरधिपतिर्भवेत् ।। ८ ।।
यत्कृत्वा पार्थिवं ब्योम्नि अर्चयेत्सर्वदेवकम् ।।
समूलमखिलं तेन त्रैलोक्यं पूजितं भवेत् ।। ९ ।।
इहैव धनवाञ्च्छ्रीमा न्सोंतेऽर्कत्वमवाप्नुयात् ।।
त्रिसंध्यं कीर्तयेद्व्योम कृत्वा बिंबेन पार्थिवम् ।। 1.162.१० ।।
शतैकादशकं यावत्तस्य पुण्यफलं शृणु ।।
अनेन सह देहेन भानुः संतिष्ठते क्षितौ ।। ११ ।।
पापहा सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ।।
उद्धारयेच्च संस्थाप्य कुलानामेकविंशतिम् ।। १२ ।।
गीर्वाणैः सहितो नित्यं मोदते दिवि सूरवत् ।।
योऽपि पिष्टमयं व्योम सर्वगंधोपशोभितम् ।। १३ ।।
कुसुमैः सुसुगंधैश्च फलैश्च विविधैर्नृप ।।
भक्ष्यलेह्यरसैश्चैव कृतदीपैरलंकृतैः ।। १४ ।।
नानारसमायुक्तं नानागंधसमन्वितम् ।।
तस्य दक्षिणपार्श्वे तु विन्यसेदगुरुं बुधः ।। १५ ।।
दद्याद्वै पश्चिमे भागे श्रीखंडं चंदनं शुभम् ।।
उत्तरे चंदनं दद्याद्रक्तं दद्याच्च पूर्वतः ।। १६ ।।
एवं वित्तानुसारेण कृत्वा विभवविस्तरम् ।।
कृष्णपक्षे तु सप्तम्यां भास्क रस्य निवेदयेत् ।। १७ ।।
सकृदेव तु यः कुर्याद्व्योम भरतसत्तम ।।
यत्फलं हि भवेत्तस्य तन्मे निगदतः शृणु ।। १८ ।।
सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः ।।
निष्कलः सर्वगो भूत्वा प्रविशेत्परमव्ययम् ।।
तेजसा रविसंकाशः प्रभयार्कसमप्रभः ।। १९ ।।
पांसुना क्रीडमानो यः कुर्याद्व्योम ह्यकार्यतः ।।
स राजन्भवते राजा पर्वतेषु समंततः ।। 1.162.२० ।।
सर्वेषामेव पात्राणां परं पात्रं विभावसुः।।
एतत्संतारयेद्यस्मादतीव नरकार्णवात् ।। २१ ।।
तस्य पात्रस्य माहात्म्यं ध्रुवमक्षयमादिशेत् ।।
तस्मात्तस्मै सदा देयमप्रमेयफलार्थिभिः ।। २२ ।।
रवौ दत्तं हुतं जप्तं बलिं पूजां निवेदयेत् ।।
अनंतफलमादिष्टं ब्रह्मादिसुरसत्तमैः ।। २३ ।।
भक्त्या वित्तानुसारेण यः कुर्यादालयं रवेः ।।
सोग्नेयं यानमारुह्य मोदते सह भानुना ।। २४ ।।
महाविभवसारोपि यः कुर्याद्भक्तिवर्जितम्।।
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ।। २५ ।।
वित्तशाठ्येन यः कुर्याद्वित्तवानपि मानवः ।।
न स फलमवाप्नोति प्रलोभाक्रांतमानसः ।। २६ ।।
तस्मात्त्रिभागं वित्तस्य जीवनाय प्रकल्पयेत् ।।
भागद्वयं च धर्मार्थे अनित्यं जीवनं यतः ।। २७ ।।
भक्त्या प्रचोदितं कुर्यादल्पवित्तोऽपि यो नरः ।।
महाविभवसारोऽपि न कुर्याद्भक्तिवर्जितः ।। २८ ।।
सर्वस्वमपि यो दद्यादर्के भक्तिविवर्जितः ।।
न तेन धर्मभागी स्याद्भक्तिरेवात्र कारणम् ।। २९ ।।
न तपोभिर्विभोरुग्रैर्न च सर्वैर्महामखैः ।।
गच्छेदेकं पुरं दिव्यमर्के भक्तियुतो नृप ।। 1.162.३० ।।
रुचिरं शुभशैलोत्थं कुर्यायस्तु रवेर्गृहम् ।।
त्रिसप्तकुलसंयुक्तः सूर्यलोकमवाप्नुयात् ।। ३१ ।।
यन्मया कोटिगुणितं कृतं स्यादिष्टकाम्यया ।।
द्विपरार्धगुणं पुण्यं शैलजेऽपि विदुर्बुधाः ।। ३२ ।।
मृच्छैलेन समं ज्ञेयं पुण्यमाढ्यदरिद्रयोः ।।
यत्र तत्र गतः कुर्याद्भक्त्या पुण्यं भगालयम् ।। ३३ ।।
शैलोत्थमिष्टकाभिर्वा दृढं दारुमयं शुभम्।।
स गच्छेत्परमं स्थानं भानोरमिततेजसः ।।
गैरिकं यानमारुह्य यः कुर्याद्धृतभूषणः ।। ३४ ।।
क्रीडमानोऽपि यः कुर्याद्बालभावेऽर्कमंदिरम्।।
सोऽर्कलोकमवाप्नोति विमानवरमास्थितः ।। ३५ ।।
पुष्पमालाकुलं दिव्यं धूपगंधादिवासितम् ।।
अप्सरोगणसंकीर्णं सर्वकाममुखप्रदम् ।। ३६ ।।
तत्र रूढो महाराज वत्सरं वृन्दमुत्तमम् ।।
उषित्वा भास्करपुरे पूज्यमानस्तु दैवतैः ।। ३७ ।।
क्रमादागत्य लोकेऽस्मिन्राजा भवति धार्मिकः ।।
धर्मार्थकामसंपन्नो यशसा च नराधिप ।।३८।।
पश्यन्परिहरञ्जंतून्मार्जन्या मृदुसूक्ष्मया ।।
शनैः संमार्जनं कुर्याच्चांद्रायणफलं भवेत् ।।३९।।
पुत्रार्थं देहजीर्णाया वन्ध्यायाश्च विशेषतः ।।
रोगार्तानां च भूतानामारोग्यार्थं प्रपूजयेत् ।। 1.162.४० ।।
गृहीत्वा गोमयं स्वच्छं स्थाने च पतितं शुभे ।।
उपर्युपरि संत्यज्य प्रत्यग्रं जन्तुवर्जितम् ।। ४१ ।।
वस्त्रपूतगोमयेन यः कुर्यादुपलेपनम् ।।
पश्येत्तु सुखिताञ्जंतूंश्चांद्रायणशतं लभेत् ।। ४२ ।।
यः कुर्यात्सर्वकार्याणि वस्त्रपूतेन वारिणा ।।
स मुनिः स महासाधुः स गच्छेत्परमां गतिम् ।। ४३ ।।
क्षरंति सर्वदानानि यज्ञहोमबलिक्रियाः ।।
अक्षरं तु महादानं सुखदं सर्वदेहिनाम् ।। ४४ ।।
नैरंतर्येण यः कुर्यात्पक्षं संमार्जनार्चनम् ।।
वर्षमेकं शतं दिव्यं सुरलोके महीयते ।। ४५ ।।
तस्यांते च चतुर्वेद सुरूपः प्रियदर्शनः ।।
आद्यः सर्वगुणोपेतो राजा भवति धार्मिकः ।। ४६ ।।
संपर्केणापि यः कुर्यान्नरः कर्म भगालये ।।
सोपि सौमनसं गत्वा पुरं क्रीडति नित्यशः ।।४७।।
तावद्भ्रमंति संसारे दुःखशोकपरिप्लुताः ।।
न भजंति रविं भक्त्या यावत्सर्वेऽपि देहिनः ।। ४८ ।।
समासक्तं तथा चित्तं जन्तोर्विषयगोचरे ।।
यद्यर्को न भवद्देवः को मुञ्चेदेव बन्धनात् ।। ४९ ।।
यः कुर्यात्कुट्टिमां भूमिं दर्पणोदरसन्निभाम् ।।
नानावर्णविचित्रां च विचित्र कुसुमोज्ज्वलाम्।। 1.162.५० ।।
क्वचित्कलशविन्यस्तां पंकजैरुपशोभिताम्।।
रम्यां मनोरमां सौम्यामर्कायतनसंसदि ।। ५१ ।।
यावद्दंडा भवेद्भूमिः समंताच्च सुशोभना ।।
तावद्युगसहस्राणि सूरलोके महीयते ।। ५२ ।।
कारयेच्चित्रशास्त्रज्ञैश्चित्रकर्मार्कमंदिरे ।।
विचित्रं यानमारुह्य चित्रभानोर्गृहं व्रजेत्।।५३।।
यावत्स देवरूपाणि ग्रहरूपाणि लेखयेत् ।।
तावद्युगसहस्राणि स्वर्गलोके महीयते ।। ५४ ।।
भवेद्भूमिः समंताच्च यः कुर्यादर्कमंदि रम् ।।
आरामावसथादीनां लभेदामूल्यकं फलम् ।। ५५ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मवर्णनंनाम द्विषष्ट्यु त्तरशततमोऽध्यायः ।। १६२ ।।