भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १६३
सौरधर्मेषु पुष्पपूजावर्णनम्
।। सुमन्तुरुवाच ।। ।।
भास्करस्य महाबाहो भानोरमिततेजसः ।।
स्नानकाले प्रकुर्वीत जयशब्दादिमंग लम् ।। १ ।।
पद्मस्वस्तिकशंखं तु श्रीवत्सं द्विजसत्तम ।।
हेमरूपादिपात्रेषु कल्पितं गोमयादिभिः ।। २ ।।
नानावर्णकसंयुक्तैरक्षतैस्तिलतंदुलैः ।।
स्वच्छैश्च दधिसंमिश्रैर्यथाशोभं प्रपूरितैः ।। ३ ।।
द्रव्यपीठप्रदीपाश्च भूताश्वत्थादिपल्लवैः ।।
औषधीभिश्च मेध्याभिः सर्वबीजैर्यवादिभिः ।। ।। ४ ।।
सप्तम्यादिषु सर्वेषु षष्ठ्यादिषु विशेषतः ।।
शंखभेर्यादिभिः कुर्याद्वाद्यघोषं सुशोभनम् ।। ५ ।।
त्रिसन्ध्यं वेदनिर्घोषं कुर्वीत फलमुत्तमम् ।।
कुर्यान्नीराजनं चैव शंखवादित्रमंगलैः ।। ६ ।।
यावन्नीराजनं कुर्यात्पर्वाणि विधिवद्रवौ ।।
तावद्युगसहस्राणि सूरलोके महीयते ।। ७ ।।
कपिलापञ्चगव्येन कुशवारियुतेन वै ।।
स्नापयेन्मन्त्रपूतेन ब्रह्मस्नानं हि तत्स्मृतम् ।। ८ ।।
यस्त्वेकमपि सर्वेब्दे ब्रह्मस्नानं प्रयच्छति ।।
स मुक्तः सर्वपापैस्तु सूर्यलोके महीयते ।। ९ ।।
कपिलापञ्चगव्येन दधिक्षीरयुतेन च ।।
स्नानं दशगुणं ज्ञेयं महत्पुण्यं नराधिप ।। 1.163.१० ।।
ऋभवो वीरमुद्दिश्य देहशुद्धिं च शाश्वतीम् ।।
कपिलामाहरेन्नित्यं मुनिदेवाग्निनिर्मिताम् ।। ११ ।।
कापिलं यः पिबेच्छूद्रो देवकार्यार्थनिर्मितम् ।।
स पच्यते महाघोरे सुचिरं नरकार्णवे ।। १२ ।।
वर्षकोटिसहस्रेण यत्पापं समुपार्जितम् ।।
घृताभ्यंगेन सूर्यस्य दहेत्सर्वं न संशयः ।। १३ ।।
कल्पकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।।
वज्रस्नानेन तत्सर्वं दहत्यग्निरिवेंधनम् ।। १४ ।।
सप्तम्यां च कृतस्नानो यजेत्सूर्यं सकृन्नरः ।।
कुलान्युद्धृत्य सप्तेह सूर्यलोके महीयते ।।
वसुहेमादियुक्तं च क्षीरस्नानस्य तत्समम् ।। १५ ।।
सकृदाढकेन पयसा यो भानुं स्नाप येन्नरः ।।
राजतेन विमानेन सोऽर्कलोके महीयते ।। १६ ।।
स्नाप्य दध्ना सकृद्भानुं स त्रिलोके महीयते ।।
मधुना स्नपयित्वा तं शुक्रलोके मही यते ।। १७ ।।
उद्धृत्य शालिपिष्टेन वायुलोकेषु पूज्यते ।।
स्नानमिक्षुरसेनेह यः सूर्ये सकृदाचरेत् ।।
स गोपतिपुरं गच्छेत्सर्वकामसमन्वितः ।। ।। १८ ।।
फलोदकेन यो भानुं सकृत्स्नापयते नरः ।।
उत्सृज्य पापकलिलं पितृलोके महीयते ।। १९ ।।
श्रीखंडवारिणा स्नाप्य सकृद्भानुं नरा धिप ।।
चंद्रांशुनिर्मलः श्रीमांश्चरेदात्रेयमंदिरे ।। 1.163.२० ।।
वस्त्रपूतेन तोयेन यद्यर्कं स्नापयेत्सकृत् ।।
स सर्वकामतृप्तात्मा राकाधिपपुरं व्रजेत् ।।२१।।
आपो हिष्ठेति जप्येन गंगातोयेन भारत ।।
गैरिकेण विमानेन ब्रह्मलोके महीयते ।। २२ ।।
कर्पूरागुरुतोयेन योऽर्कं स्नापयते सकृत् ।।
स्नाप्य भानुं सकृन्मन्त्रैः सप्तम्यां समुपोषितः ।।
स कुलानेकविंशतिमुत्तार्य रविमाव्रजेत् ।। २३ ।।
पितृनुद्दिश्य यो भानुं स्नापयेच्छीतवारिणा ।।
तृप्ताः स्वर्ग व्रजंत्याशु पितरो नरकादपि ।। २४ ।।
भानुं शीतांबुना स्नाप्य धारोष्णपयसा सह ।।
स्नाप्य पश्चाद्व्रतेनेशमग्निलोके महीयते ।। २५ ।।
एतत्स्नानत्रयं कृत्वा पूजयित्वा तु भारत ।।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।। २६ ।।
मृत्कुम्भात्ताम्रकुम्भैस्तु स्नानं शतगुणं मतम् ।।
रौप्यैः पादोत्तरं पुण्यं दर्शनात्स्पर्शनं परम् ।।
स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम् ।। २७ ।।
इहामुत्र कृतं पापं घृतस्नानेन नश्यति ।।
सप्तजन्म कृतं पापं पुराणश्रवणेन तु ।।२८।।
दशापराधांस्तोयेन क्षीरेण तु शतं क्षमेत् ।।
सहस्रं क्षमते दध्ना घृतेनाप्ययुतं क्षमेत् ।।२९।।
नैरन्तर्येण यो मासं घृतस्नानं समाचरेत् ।।
दशैकादश कुलानीह नयेत्सूर्यस्य मंदिरम् ।। 1.163.३० ।।
स्नानं पलशतं ज्ञेयमभ्यंगः पञ्चविंशतिः ।।
पलानां द्विसहस्रेण महास्नानमति श्रुतिः।।३१।।
घृताभ्यंगं घृतस्नान भानोः कुर्य्याद्द्विजोत्तम।।
यश्च गोधूमचूर्णैस्तु कषायैर्दर्भसंमितैः।।३२ ।।
दशधेनुसहस्राणि यद्दत्त्वा लभते फलम्।।
तत्फलं लभते सर्वमर्कस्योद्वर्तने कृते।।३३।।
अर्घ्यं पुष्पफलोपेतं यस्त्वर्काय निवेदयेत्।।
स पूज्यः सर्वलोकेषु अर्कवन्मोदते दिवि।।३४।।
गंधतोयेन संमिश्रमुदकाद्द्वादशोत्तरम् ।।
पञ्चगव्यसमायुक्तमर्घ्यं शतगुणं नृप ।। ३५ ।।
योष्टांगगर्भमापूर्य भानोर्मूर्ध्नि निवेदयेत् ।।
दशवर्षसहस्राणि रमते चार्कमंदिरे ।। ३६ ।।
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु ।।
रक्तानि करवीराणि तथा रक्तं च चन्द नम् ।। ३७ ।।
अष्टांग एष अर्घो वै ब्रह्मणा परिकीर्तितः ।।
सततं प्रीतिजननो भास्करस्य नराधिप ।। ३८ ।।
दातुर्वैणवपात्रेण दत्तेऽर्घ्ये यत्फलं भवेत् ।।
तस्माच्छतगुणं पुण्यं मृत्पात्रेण नराधिप ।। ३९ ।।
ताम्रार्घ्यपात्रदानेन पुण्यं शतगुणं मतम् ।।
पालाशपद्मपत्राभ्यां ताम्रपात्रे फलं लभेत् ।। 1.163.४० ।।
रौप्यपात्रेण विज्ञेयं लक्षार्घ्यं नात्र संशयः ।।
सुवर्णपात्रविन्यस्तमर्घ्यं कोटिगुणं भवेत् ।। ४१ ।।
एवं स्नानार्घ्यनैवेद्यबलिधूपादिषु क्रमात् ।।
पात्रांतरविशेषेण तत्फलं तूत्तरोत्तरम् ।। ४२ ।।
रौप्यपात्रप्रदानेन यत्पुण्यं वेदपारगे ।।
ताम्रपात्रप्रदानेन तस्माच्छतगुणं रवौ ।। ।। ४३ ।।
फलं कोटिसुवर्णस्य यो दद्याद्वेदपारगे ।।
सूर्याय रूप्यपात्रे तु भवेत्पुण्यं ततोऽधिकम् ।।४४।।
सुवर्णपात्रं यो दद्याद्भास्कराय महीपते ।।
न शक्यं तस्य तद्वक्तुं पुण्यं पात्रविशेषतः ।। ४५ ।।
तुल्यमेव फलं प्रोक्तं सर्वमाढ्यदरिद्रयोः ।।
तयोरभ्यधिकं तस्य यस्त्वर्के भावनाधिकः ।। ।। ४६ ।।
विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम् ।।
नैव तत्फलमाप्नोति प्रलोभाक्रांतमानसः ।। ४७ ।।
तस्मान्मन्त्रैः फलैस्तोयैश्चन्दनाद्यैश्च यत्नतः ।।
तदनंतफलं ज्ञेयं भक्तिरेवात्र कारणम् ।। ४८ ।।
वर्षकोटिशतं दिव्यं सूर्यलोके महीयते ।।
गंधानुलेपनं पुण्यं द्विगुणं चन्दनस्य तु ।। ।। ४९ ।।
गंधाच्चतुर्गुणं ज्ञेयं पुष्पमष्टगुणं नृप ।।
कृष्णागुरु विशेषेण द्विगुणं फलमादिशेत ।।
तस्माच्छतगुणं पुण्यं कुंकुमस्य विधीयते ।। 1.163.५० ।।।
चंदनागुरुकर्पूरैः श्लक्ष्णपिष्टैः सकुंकुमैः ।।
भानुं पर्याप्तमालिप्य कल्पकोटिं वसेद्दिवि ।। ५१ ।।
स दीव्येत्सुरवृन्देन पुण्यगंधैः प्रलेपितः ।।
दशवर्षसहस्राणि वीर मित्रपुरे वसेत् ।। ५२ ।।
भक्त्या निवेद्य अर्काय तालवृंतं नराधिप ।।
दशवर्षसहस्राणि वीरलोकं महीयते ।। ५३ ।।
मायूरं व्यजनं दत्त्वा सूर्यायातीव शोभनम् ।।
वर्षकोटिशतं पूर्णं प्रभंजनपुरे वसेत् ।। ५४ ।।
पुष्पैररण्यसंभूतैः पत्रैर्वा गिरिसम्भवैः ।।
अपर्युषितनिश्छिद्रैः प्रोषितैर्जंतुवर्जितैः ।। ५५ ।।
आत्मारामभवैश्चैव पुष्पैः संपूजयेद्रविम् ।।
पुष्पजातिविशेषेण भवेत्पुण्यं ततोऽधिकम् ।। ५६ ।।
तपःशीलगुणोपेत इति हासविदि द्विजे ।।
दत्त्वा दश सुवर्णस्य निष्कान्यल्लभते फलम् ।। ५७ ।।
करवीरस्य कुसुममर्काय विनिवेदयेत् ।।
लभते तत्फलं वीर यथाह भगवान्रविः ।।
एवं पुष्पविशेषेण फलं तदधिकं भवेत् ।।
ज्ञेयं पुण्यं रसज्ञेन यथा स्यात्तन्निबोध मे ।। ५८ ।।
सदा पुष्पसहस्रेभ्यः करवीरं विशिष्यते ।।
बिल्वपत्रसहस्रेभ्यः पद्ममेकं नराधिप।। ५९ ।।
पद्मपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ।।
बकपुष्पसहस्रेभ्यो मुद्गरं परमुच्यते।।1.163.६०।।
कुशपुष्पसहस्रेभ्यः शमीपत्रं विशिष्यते ।।
शमीपुष्पसहस्रेभ्यो नृप नीलोत्पलं परम् ।।
सर्वासां पुष्पजातीनां प्रवरं नीलमुत्पलम् ।। ६१ ।।
रक्तोत्पलसहस्रेण नीलोत्पलशतेन च ।।
रक्तैश्च करवीरैश्च यस्तु पूजयते रविम् ।। ६२ ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
वसेदर्कपुरे श्रीमान्सूर्यतुल्यपराक्रमः ।। ६३ ।।
शेषाणां पुष्पजातीनां यत्फलं परिकीर्तितम् ।।
तत्फलस्यानुसारेण सूर्यलोके महीयते ।। ६४ ।।
शमीपुष्पं बृहत्याश्च कुसुमं तुल्यमुच्यते ।।
करवीरसमा ज्ञेया जातीविजयपाटलाः।। ६५ ।।
श्वेतमंदारकुसुमं सितपुष्पं च तत्समम् ।।
नलचंपकपुन्नागमुद्गराणां समाः स्मृताः ।। ६६ ।।
गंधवंत्यपवित्राणि कुसुमानि विवर्जयेत् ।।
गंधहीनमपि ग्राह्यं पवित्रं यत्कुशादिकम् ।। ६७ ।।
सात्त्विकं तद्धि कुसुममपवित्रं च तामसम् ।।
मुद्गराणि कदंबानि रात्रौ देयानि सूरये ।। ६८ ।।
दिवाशेषाणि पुष्पाणि त्यजेदुपहतानि च ।।
मुकुलैर्मार्चयेद्भानुमपक्वं न निवेदयेत् ।। ६९ ।।
फलं क्वथितविद्धं च यत्नात्पक्वमपि त्यजेत् ।।
अलाभे बत पुष्पाणां पत्राण्यपि निवेदयेत् ।। 1.163.७० ।।
पत्राणामप्यलाभे तु फलान्यपि निवेदयेत् ।।
फलानामप्यलाभेन तृणगुल्मौषधीरपि ।। ७१।।
ओषधीनामभावे तु भक्त्या भवति पूजितः ।।
प्रत्येकं मुक्तपुष्पेण दशसौवर्णिकं फलम् ।। ७२ ।।
यः सुगन्धैर्मुक्तपुष्पैः सम्यग्भानुं प्रपूजयेत् ।।
माघासितेऽपि सुमनाः सोऽनंतफलमश्नुते ।। ७३।।
करवीरैर्महाराज संयतो भानुमर्चयेत् ।।
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ।। ७४ ।।
अगस्त्यकुसुमैर्भक्त्या यः सकृद्भानुमर्चयेत्।।
गवां प्रयुतदानस्य फलं प्राप्य दिवं व्रजेत् ।। ७५ ।।
मल्लिकोत्पलपद्मैश्च जातीपुन्नागचंपकैः ।।
अशोकश्वेतमंदारकर्णिकारांधुकैस्तथा ।। ७६ ।।
करवीरार्ककह्लारशमीतगरकेशरैः ।।
अगस्तिबकपुष्पैस्तु शतपत्रैर्नराधिप ।। ७७ ।।
पुष्पैरेतैर्यथालाभं यो नरः पूजयेद्रविम् ।।
स तत्फलमवाप्नोति तदेकाग्रमनाः शृणु ।। ।। ७८ ।।
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिभिः ।।
पुष्पमालापरिक्षिप्तैर्गीतवादित्रनादितैः ।। ७९ ।।
तंत्रीमधुरवाद्यैश्च स्वच्छंदगमनैर्नृप ।।
सूर्यकन्यासमाकीर्णैर्देवानां च सुदुर्लभैः ।। 1.163.८० ।।
दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः ।।
गच्छेदर्कपुरीं दिव्यां तत्र संपूजितो भवेत् ।। ८१।।
यैस्तैश्च वापिकुसुमैर्जलजैः स्थलजैर्नृप ।।
संपूज्य श्रद्धया भानुमर्कलोके महीयते ।।८२ ।।
सूर्यस्योपरि यः कुर्याच्छोभनं पुष्पमंडलम्।।
शोभितं पुष्पस्रग्दामैरापीठांतं प्रलंबितैः ।। ८३ ।।
अत्याश्चर्यमहायानैर्दिव्यपुष्पोपशोभितः ।।
सर्वेषामुपरिष्टाच्च वसेदर्कपुरे सुखी ।। ८४ ।।
अनेकरागविन्यस्तैः सुगन्धैः कुसुमैर्गृहम् ।।
यः कुर्यात्पर्वकाले तु विचित्रकुसुमोज्ज्वलम् ।। ८५ ।।
स पुष्पकविमानेन पुष्पमालाकुलेन तु ।।
पुष्पेतरपुरं दिव्यं श्रयते नात्र संशयः ।। ८६ ।।
अक्षयं मोदते कालमतिरस्कृतशासनः ।।
सौरादिसर्वलोकेषु यत्रेष्टं तत्र याति सः ।। ८७ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु पुष्पपूजावर्णनं नाम त्रिषष्ट्युत्तरशततमोऽध्यायः ।। १६३ ।।