सूर्यषष्ठीव्रतवर्णनम्

शतानीक उवाच ।। ।।
पुनस्त्वं देवदेवस्य भास्करस्य महौजसः ।।
पूजने यत्फलं प्रोक्तं तन्मे ब्रूहि द्विजोत्तम ।। १
।। सुमंतुरुवाच ।। ।।
शृणु त्वं हि महाराज सर्वदं लोकपूजितम् ।।
ब्रह्मेशोपेंद्रदेवानां त्रयाणामपि भारत ।। २ ।।
सुखासीनं सुरज्येष्ठं मनोवत्यां चतुर्मुखम्।।
प्रणम्य शिरसा भूमौ विष्ण्वीशौ वाक्यमूचतुः ।। ३ ।।
य एष भगवान्देवः सहस्रकिरणो रविः ।।
अस्य यत्पूजने पुण्यं प्राप्यते तद्वदस्व नौ ।। ४ ।।
।। ब्रह्मोवाच ।। ।।
साधु साधु जगन्नाथ साधु पृष्टोऽस्मि वामिह ।।
तस्माच्छृणुतमेकाग्रौ गदतो निखिलं मम ।। ५ ।।
स्वयमुत्पाद्य पुष्णाणि यः सूर्यं पूजयेत्स्वयम् ।।
तानि साक्षात्प्रगृह्णाति तद्भक्त्या सततं रविः ।। ६ ।।
यस्त्वारामं रवेः कुर्यादाम्रबिल्वादिशोभितम्।।
जातीविजयराजार्ककरवीरैः सकुंकुमैः ।।७।।
पुन्नागनागबकुलैरशोकतिलचंपकैः ।।
अगस्तिकदलीखंडैस्तस्य पुण्यफलं शृणु ।। ८ ।।
यावद्धि पत्रं कुसुमं बीजं सूतफलानि च ।।
तावद्वर्षसहस्राणि सूरलोके महीयते ।। ९ ।।
सघृतं गुग्गुलं दद्याद्राजन्वा कंदुरुं तथा ।।
चतुर्वेदिगृहे जन्म प्राप्नोति सततं सुखी ।। 1.164.१० ।।
कृष्णागुरुं च कर्पूरधूपं दद्याद्दिवाकरे ।।
नैरंतर्येण यस्तस्य राजन्पुण्यफलं शृणु ।। ११ ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
भुक्त्वा सूर्यपुरे भोगांस्तस्यांते क्ष्माधिपो भवेत् ।। १२ ।।
गुग्गुलुं घृतसंयु्क्तं यक्षो गृह्णाति शब्दकृत् ।।
यक्षाह्वयस्य दानेन तस्य लोके महीयते ।। १३ ।।
कृष्णांशौ कृष्ण सप्तम्यां यः साज्यं गुग्गुलुं दहेत् ।।
स चासौ सौरमासाद्य वर्षाणां च दशार्बुदम् ।। १४ ।।
देवदारुं नमेरुं च श्रीवासं कुंदुरुं तथा ।।
श्रीफलं चाज्यसंयुक्तं दग्ध्वाश्रयमवाप्नुयात् ।। १५ ।।
एवं सौगधिकं रूपं षट्सहस्रगुणोत्तरम्।।
अगुरुं दशसाहस्रं सघृतं द्विगुणं भवेत् ।।१६।।
अनंतफलदं देवं सदा कुंदुरुकामुकम्।।
द्विसहस्रपलानां तु महिषाक्षस्य गुग्गुलोः ।।१७।।
दग्ध्वार्धमविमिश्रस्य सूर्यतुल्यः प्रजायते ।।
शोधयेत्पापसंयुक्तं पुरुषं नात्र संशयः ।। १८ ।।
कृष्णागुरुभवं धूपं तुषाग्निरिव कांचनम् ।।
योंतःपुरगृहं गन्धैः सुगन्धैः प्रविलेपयेत् ।। १९ ।।
कपाटद्वारकुड्यादितिर्यगूर्ध्वं सवेदिकम् ।।
वासयेत्पुष्पमालाभिर्धूपैश्चापि सुगंधिभिः ।। 1.164.२० ।।
तस्य पुण्यं यथावत्तु युवयोर्वच्मि कृत्स्नशः ।।
आपूरयन्दिशः सर्वा नानागंध समन्वितैः ।। २१ ।।
कल्पकोटिशतं दिव्यं तेजसा वह्निसन्निभः ।।
शक्रवत्प्रज्वलन्देवः सूर्यलोके महीयते ।। २२ ।।
तस्यांते धर्मशेषेण त्रैलोक्या धिपतिर्भवेत्।।
शतावृतं तु यः कुर्यादेवं गन्धैर्भगालयम्।। २३ ।।
स सर्वशर्मसंयुक्तः सूर्यतुल्यपराक्रमः ।।
सूर्यलोके वसेद्देवो युवाभ्यां संप्रपू जितः ।। २४ ।।
तद्वच्छुक्लैश्च संवीतं पट्टसूत्रैर्विनिर्मितम् ।।
दत्त्वोपवीतं सूर्याय भवेद्वेदांगपारगः ।। २५ ।।
वासांसि सुविचित्राणि सूरलोके महीयते ।।
त्रुटिमात्रं तु यो दद्यादूर्णावस्त्रं सपंकजम्।। २६ ।।
भास्करस्योत्तमांगेषु तस्य पुण्यं ब्रवीम्यहम् ।।
इन्द्रस्यार्धासने तिष्ठेद्यावद्रिन्द्राश्चतुर्दश ।। २७ ।।
एवं वित्तानुसारेण सर्वं ज्ञेयं समासतः ।।
सर्वेषां हेमपात्राणां मुकुटानां च सर्वशः ।। २८ ।।
अर्कपत्रपुटं चूर्णं मधुपर्णसमन्वितम्।।
यो निवेदयतेऽर्काय सोऽश्वमेधफलं लभेत् ।।२९।।
शालितंडुलप्रस्थस्य कुर्यादन्नं सुसंस्कतम् ।।
सूर्याय च चरुं दत्त्वा सप्तम्यां तु विशेषतः ।।1.164.३०।।
संयावं कृशरं पूपं पायसं यावकं तथा ।।
दध्योदनरसालान्नमोदकान्गुडपूपकान् ।। ३१ ।।
यावंतस्तण्डुलास्तस्मिन्नैवेद्ये परिसंख्यया ।।
तावद्वर्ष सहस्राणि सूरलोके महीयते ।। ३२।।
गुडखंडकृतानां च भक्ष्याणां विनिवेदने ।।
घृतेन प्लावितानां च फलं शतगुणं लभेत् ।। ३३ ।।
रसाल खाद्यकाद्यानां भक्ष्याणां फलमिष्यते ।।
तदर्धं सलिलस्यापि वासितस्य निवेदयेत् ।। ३४ ।।
यथाकालोपलब्धानि भक्ष्याणि विविधानि च ।।
निवेद्यार्काय परमं स्थानं प्राप्नोति पूजनात् ।। ३५ ।।
प्रज्वाल्य घृतदीपं तु भास्करस्यालये शुभम् ।।
आग्नेयं यानमारुह्य गच्छेत्सौमनसं पुरम्।। ३६ ।।
यः कुर्यात्कार्तिके मासि शोभनां दीपमालिकाम्।।
सप्तम्यामथ षष्ठ्यां वामावास्यायामथापि वा ।। ३७ ।।
भास्करायुतसंकाशस्तेजसा भासयन्दिशः ।।
दिव्याभरणसंपन्नः कुलमुद्धृत्य सर्वशः ।। ३८ ।।
यावत्प्रदीपसंख्यानं घृतेनापूर्य बोधितम्।।
तावद्वर्षसहस्राणि सूर्यलोके महीयते ।। ३९ ।।
दीपवृक्षमथोद्बोध्य पर्वस्वायतनेषु वै ।।
पूर्वस्माद्द्विगुणं पुण्यं लभते नात्र संशयः ।। 1.164.४० ।।
दीपवृक्षं समुद्बोध्य भास्करायतनेषु भोः ।।
सर्वलोहमयं वीर रविलोके महीयते ।। ४१ ।।
शिरसा धारयेद्दीपं भास्करस्याग्रतो निशि ।।
ललाटे चैव हस्ताभ्यां समुद्युक्तस्तथो रसि ।। ४२ ।।
भास्करायुतसंकाशो विमानैरर्कसन्निभैः ।।
कल्पायुतशतं चैव सूर्यलोके महीयते ।। ४३ ।।
अन्नदाता तु यो वीर वीरलोके मही यते ।।
भास्करस्याग्रतो दत्त्वा दर्पणं निर्मलं शुभम् ।। ४४ ।।
पर्यंके शोभितं कृत्वा श्वेतमाल्यैः सचन्दनैः ।।
वृकार्कनिर्मलः श्रीमान्दिव्याभरण रूपधृक् ।।
कल्पायुतसहस्राणि सूरलोके महीयते ।। ४५ ।।
कृत्वा प्रदक्षिणं भक्त्या श्रद्दधानो रवेर्नरः ।।
अश्वमेधसहस्रस्य सुखेन लभते फलम्।। ।। ४६ ।।
कृत्वा प्रदक्षिणं यस्तु नमस्कारं प्रयोजयेत् ।।
राजसूयाश्वमेधाभ्यां सकलं विन्दते फलम् ।। ४७ ।।
नमस्कारः स्मृतो यज्ञः सर्वयज्ञो त्तमोत्तमः ।।
नमस्कृत्वा सहस्रांशुमश्वमेधफलं लभेत् ।। ४८ ।।
प्रणम्य दंडवद्भूमौ नमस्कारेण योऽर्चयेत् ।।
स यां गतिमवाप्नोति न तां क्रतु शतैरपि ।। ४९ ।।
सर्वयज्ञोपवासेपु सर्वतीर्थेषु यत्फलम् ।।
अभिज्ञाप्योपहारेण पूजया फलमश्नुते ।। 1.164.५० ।।
श्वेतं महाध्वजं कृत्वा कृत्वा चापं च रंगकम् ।।
किंकिणीजालनिर्घोषं मयूरच्छत्रभूषितम् ।।
यस्त्वर्यम्णे नरो दद्याच्छ्रद्धया परयान्वितः ।। ५१ ।।
स शतेन विमानानां सर्वदेव नमस्कृतः ।।
मन्वन्तरशतं देव मोदते दिवि देववत् ।। ५२ ।।
ध्वजमालाकुलं कुर्याद्यः प्रांतेषु भगालयम्।।
महाध्वजाष्टकं चापि दिग्विदिक्षु निवेदयेत् ।। ५३ ।।
स विमानसहस्रेण ध्वजमालाकुलेन तु ।।
कल्पायुतशतं दिव्यं मोदेते दिवि सूरवत् ।। ५४ ।।
शतचन्द्रांशुविमलं मुक्तादामोपशोभितम् ।।
मणिदंडमयं छत्रं दद्याद्वा कांचनादिकम् ।। ५५ ।।
स धार्यमाणच्छत्रेण हेमदंडोपशोभिना ।।
मोदते सूर्यलोके तु विमानवरमा स्थितः ।। ५६ ।।
ततस्तस्माच्च्युतो लोकान्निसर्गाद्भुवमागतः ।।
भुङ्क्ते समुद्रपर्यंतामेकच्छत्रां वसुन्धराम् ।। ५७ ।।
यः शृंखलासमायुक्तां महाघण्टां महास्वनाम् ।।
कांस्यलोहमयीं वापि निबध्नीयाद्भगालये ।। ५८ ।।
शोभनः स्यान्नरः श्रीमान्भगस्यातीव वल्लभः ।।
सूर्यतुल्यबलो भूत्वा सूर्यलोके महीयते ।। ५९ ।।
भेरीमृदंगपटहझर्झरीमर्दलादिकम् ।।
दशकांस्यादिवादित्रं यो भगाय निवेदयेत् ।। 1.164.६० ।।
स विमानैर्महाभागेर्वंशवीणायुतस्वनैः ।।
युगान्तकशतं दिव्यं भगलोके महीयते ।। ६१ ।।
सुसंगीतकदानेन सवाद्येन विशेषतः ।।
यथेष्टं भास्करे लोके मोदते कालमक्षयम् ।। ६२ ।।
महामहास्वनं दत्त्वा शंखयुग्मं भगालये ।।
युगकोटिशतं दिव्यं भगलोके महीयते ।। ६३ ।।
विमानं बहुवर्णाभं मध्ये पंकजभूषितम् ।।
विचित्रमेकवर्णं वासनवस्त्रोपकल्पितम् ।। ६४ ।।
किंकिणीजालसंपन्नं वर्णकैश्चोपशोभितम् ।।
पुष्पमालाप्रभं वापि घंटाचामरभूषितम् ।। ६५ ।।
भगस्योपरि यो दद्यात्सर्वरत्नोपशोभितम् ।।
दुकूलपट्टदेवांगैर्वस्त्रैर्वा वर्णकान्वितैः ।। ६६ ।।
पट्टादिवस्त्रतंतूनां परिसंख्या तु या भवेत् ।।
तावद्युगसहस्राणि सूरलोके महीयते ।। ६७ ।।
भगाहुत्या जगत्सर्वं सृष्टिद्वारेण धार्यते ।।
अग्निवर्त्मा वचस्युक्तो ह्यग्निरस्यात्मजः सदा ।। ६८ ।।
यस्त्वग्निकार्यं(य?) विधिवत्कुर्यान्नित्यं भगालये ।।
भगमुद्दिश्य राजेंद्र स याति परमां गतिम् ।। ६९ ।।
सर्वान्नं यावकोपेतं यस्तु नित्यविधिं हरेत् ।।
पुष्पधूपजलोपेतं कालेकाले विशेषतः ।। 1.164.७० ।।
महाश्वेतादिमातॄणां त्रिकल्पानां च सर्वशः ।।
यः कृत्वा सकृदप्येवं सर्वदिक्षु बलिं हरेत् ।।
स नरश्च सहस्राणि शांडिलेयपुरे वसेत् ।। ७१ ।।
सौरसंध्याबलिं कृत्वा दिनांते सततं रवेः ।।
वर्षायुतशतं साग्रं भगलोके महीयते ।। ७२ ।।
दध्योदनपयोभिर्यः पूरितं पात्रमावृतम् ।।
पुष्पधूपार्चितं चैव वितानोपरि शोभितम् ।। ७३ ।।
शिरसा धारयेत्पात्रं शनैर्गच्छेत्प्रदक्षिणम् ।।
रव्यायतनपर्यंते शंखवीणादिनिस्वनैः ।। ७४ ।।
दर्पणैर्धूपमालाभिर्गेयनृत्यादिशोभितम् ।।
भानोर्हि स्मृतिशीलश्च तस्य पुण्यफलं शृणु ।। ७५ ।।
दिव्यं वर्षसहस्रं तु दिव्यं वर्षशतं तथा ।।
तपस्तप्तं महत्तेन भवेदेवं न संशयः ।। ७६ ।।
भगभक्तिप्रसन्नात्मा यद्यपि स्यात्स पापकृत् ।।
भगलोके वसेन्नित्यं भगानुचरतां गतः ।। ७७ ।।
कृष्णां तु षष्ठीं नक्तेन यश्च कृष्णां च सप्तमीम् ।।
इह भोगानवाप्नोति परत्र च शुभां गतिम् ।। ७८ ।।
योब्दमेकं तु कुर्वीत नक्तं भगदिने नरः ।।
ब्रह्मचारी जितक्रोधो भगार्चनपरो नरः ।।
अयाचितात्परं नक्तं तस्मन्नाक्तेन वर्तयेत् ।। ७९।।
देवैस्तु भुक्तं मध्याह्ने पूर्वाह्णे ऋषिभिस्तथा ।।
अपराह्णे तु पितृभिः संध्यायां गुह्यकादिभिः ।। 1.164.८० ।।
सर्वा वेला ह्यतिक्रम्य सौराणां भोजनं परम् ।।
भुंजानो नक्तकाले तु सूर्यभक्तिपरायणः ।। ८१ ।।
भगलोकमवाप्नोति सुमनाः सुमनोव्रतः ।।
भुक्त्वा सौमनसाँल्लोकान्रा जा भवति भूतले ।।८२।।
हविष्यभोजनं स्नानमाहारस्य च लाघवम् ।।
अग्निकार्यमधःशय्यां नक्तभोजी समाचरेत्।। ८३ ।।
कृष्णषष्ठ्यां प्रयत्नेन कृत्वा नक्तं विधानतः ।।
नरो मार्गशिरे मासि अंशुमानिति पूजयेत ।।८४।।
विधिवत्प्राश्य गोमूत्रमनाहारो निशि स्वपेत्।।
अतिरात्रस्य यज्ञस्य फलमाप्नोति मानवः ।। ८५ ।।
पुष्येप्येवं सहस्रांशुं भानुमंतमुशंति च ।।
वाजपेयफलं प्राप्य घृतं प्राश्य लभेन्नरः ।। ८६ ।।
माघे दिवाकरं नाम कृष्णषष्ठ्यां नरोत्तम ।।
निशि पीत्वा तु गोक्षीरं गोमेधफलमाप्नुयात् ।। ८७ ।।
मार्तंडं फाल्गुने मासि पूजयित्वा गवां पयः ।।
पिबेत्ततः सूर्यलोके मोदते सोऽयुतायुतम् ।।८८।।
चैत्रे मासि विवस्वंतं पूजयित्वा सुभक्तिमान् ।।
हविष्याशी सूर्यलोकेऽप्सरोभिः सह मोदते।।८९।।
वैशाखे चण्डकिरणं पूजयेच्च पयोव्रतः।।
वर्षाणामयुतं साग्रं मोदते सूर्यसंनिधौ।।1.164.९०।।
ज्येष्ठे दिवस्पतिं पूज्य गवां शृंगोदकं पिबेत्।।
गवां कोटिप्रदानस्य निखिलं फलमा प्नुयात् ।।९१।।
आषाढे त्वर्कनामानमिष्ट्वा प्राश्य च गोमयम् ।।
प्रयात्यर्कसलोकं तु वर्षाणां च शतंशतम्।।९२।।
श्रावणेऽर्यमनामानं पूजयित्वा पयः पिबेत् ।।
वर्षाणामयुतं साग्रं मोदते भास्करालये ।। ९३ ।।
मासि भाद्रपदे षष्ठ्यां भास्करं नाम पूजयेत् ।।
भास्करं पंचगव्यस्य सर्वमेधफलं लभेत्।।९४।।
मासि चाश्वयुजे षष्ठ्यां भगाख्यं नाम पूजयेत् ।।
पलगोमूत्रभुक्चैव अश्वमेधफलं लभेत् ।।९५।।
मासे तु कार्तिके षष्ठ्यां शक्राख्यं नाम पूजयेत् ।।
दूर्वांकुरं सकृत्प्राश्य राजसूयफलं लभेत्।।९६।।
वर्षांते भोजयेद्विप्रान्सूर्यभक्तिपरायणान्।।
पायसं मधुसंयुक्तं वज्रेण च परिप्लुतम्।।९७।।
शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत् ।।
निवेदयेच्च सूर्याय कृष्णां गां च पयस्विनीम् ।। ९८ ।।
वर्षमेकं च देवे वै नैरंतर्येण यो नयेत् ।।
कृष्णषष्ठीव्रतं भक्त्या तस्य पुण्यफलं शृणु ।।९९।।
सर्वपापविनिर्मुक्तः सर्वकामसमन्वितः ।।
मोदते सूर्यलोके तु स नरः शाश्वतीः समाः।।1.164.१००।।
पुण्येष्वहःसु सर्वेषु विषुवद्ग्रहणादिषु ।।
दानोपवासहोमाद्यैरक्षयं खग जायते ।।१०१।।
।। सुमंतुरुवाच ।। ।।
इत्युक्तवान्पुरा भानुररुणाय विशांपते।।
कृष्णषष्ठीव्रतं पुण्यं सर्वपापभयापहम् ।। १०२ ।।
कृत्वेदं पुरुषो भक्त्या भास्करस्य महात्मनः ।।
प्रयाति परमं स्थानं भानोरमिततेजसः ।।१०३।।

इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि सप्तमीकल्पे सूर्यषष्ठीव्रतवर्णनं नाम चतुःषष्ट्युत्तरशततमोध्यायः।।१६४।।।।