उभयसप्तमीवर्णनम्

।। सुमंतुरुवाच ।। ।।
अहं ते संप्रवक्ष्यामि सूर्यस्यव्रत्तमुत्तमम्।।
धर्मकामार्थमोक्षाणां प्रतिपादनमुत्तमम्।।१।।
पौषमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम्।।
जितेंद्रियः सत्यवादी शालिगोधूमगोरसैः ।।२।।
पक्षयोः सप्तमीं यत्नादुपवासेन यापयेत् ।।
त्रिसंध्यमर्चयेद्भानुं शांडिलेयं च सुव्रत।।३।।
अधःशायी भवेन्नित्यं सर्वभोगविव र्जितः ।।
मासि पूर्णे तु सप्तम्यां घृतादिभिररिंदम ।। ४ ।।
कृत्वा स्नानं महापूजां सूर्यदेवस्य भास्त।।
नैवेद्यं मोदकप्रस्थं क्षीरं सिद्धं निवेदयेत् ।।५।।
भोजयेच्च द्विजानष्टौ भगार्चा शुभलक्षणाम् ।।
गां च दत्त्वा महाराज कपिलां भास्कराय तु ।।६।।
य एवं कुरुते पुण्यं सूर्यस्य व्रतमुत्तमम्।।
तस्य पुण्य फलं वच्मि सर्वकामसमन्वितम्।।७।।
सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकैः ।।
अप्सरोगणसंकीर्णैर्महाविभवसंयुतैः ।।८।।
संगीतनृत्यवाद्याद्यैर्गंधर्वगणशोभितैः ।।
दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः ।।९।।
सहस्रकिरणाभासः सौरैः सूर्यसमन्वितैः ।।
स याति परमं स्थानं यत्रास्ते रविरंशुमान्।।1.165.१०।।
रोमसंख्या तु या तस्यास्तत्प्रसूतिः कुलेषु च ।।
तावद्युगसहस्राणि सूरलोके महीयते ।।११।।
त्रिःसप्तकुलजैः सार्धं भोगान्भुक्त्वा यथेप्सितान् ।।
ज्ञानयोगं समासाद्य पुनरेव प्रमुच्यते ।। १२ ।।
योगाद्दुःखांतमाप्नोति ज्ञानयोगं प्रवर्तते ।।
सौरधर्माद्भवेज्ज्ञानं सौरधर्मो भगार्चनात्।। ।। १३ ।।
इत्येवं ते समाख्यातं भवार्णवव्यपोहनम्।।
सौरमोक्षक्रमोपायं सूराश्रयनिषेवणम् ।। १४ ।।
माघमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् ।।
पिण्याकं घृतसंयुक्तं भुंजानः स जितेन्द्रियः ।। १५ ।।
सोपवासश्च सप्तम्यां भवेदुभयपक्षयोः ।।
घृताभिषेकमष्टम्यां कुर्याद्भानोर्नराधिप ।।
गां च दयाद्दिनेशाय तरुणीं नीलसंनिभाम्।। १६ ।।
इन्द्रनीलप्रतीकाशैर्विमानैः शिखिसंयुतैः ।।
गत्वादित्यपुरं रम्यं भोगान्भुंक्ते यथेप्सितान् ।। १७ ।।
राजेंद्र फाल्गुने मासि यः कुर्यान्नक्तभोजनम् ।।
श्यामाकक्षीरनीवारैर्जितक्रोधो जितेन्द्रियः ।। १८ ।।
षष्ठ्यां वाप्यथ सप्तम्यामुपवासपरो नरः ।।
अष्टम्यां तु महास्नानं पञ्चगव्यघृतादिभिः ।।१९।।
वल्मीकजादिमृद्भिश्च गोमूत्रशकृदादिभिः।।
त्वग्भिश्च क्षीरवृक्षाणां स्नापयित्वा प्रमार्जयेत् ।।1.165.२०।।
सौरभेयीं ततो दद्याद्रक्ताभां रक्तमालिने ।।
पद्मरागप्रतीकाशैर्विमानैर्हस्तिसंयुतैः ।।
गत्वादित्यपुरं रम्यं मोदते शाश्वतीः समाः ।। २१ ।।
मासि चैत्रे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् ।।
शाल्यन्नं पायसैर्युक्तं भुञ्जानश्च जितेन्द्रियः ।।
भानवे पाटलां दद्याद्वैष्णवीं तरुणीं नृप ।। २२ ।।
पुष्पराग प्रभैर्यानैर्नानाहंसादियायिभिः ।।
गच्छेत्सूर्यपुरं रम्यं मोदते शाश्वतीः समाः ।।२३।।
वैशाखे वीरमासे तु यः कुर्यान्नक्तभोजनम् ।।
सूर्ये खंडाज्य संमिश्रं सकृद्दद्यान्निवेदनम् ।। २४ ।।
गां च दद्यान्महाराज भास्कराय शुभानन ।।
सामान्यं च विधिं कुर्यात्प्रयुक्तो यो मया तव ।। २५ ।।
शुद्धस्फटिकसंकाशैर्यानैर्बर्हिणवाहनैः ।।
अणिमादिगुणैर्युक्तः सूर्यवद्विचरेद्दिवि ।। २६ ।।
संप्राप्ते श्रावणे मासि यः कुर्यान्नक्तभोजनम् ।।
क्षीरषष्टिकभक्तेन सर्वसत्त्वहिते रतः ।। २७ ।।
पीतवर्णां च गां दद्याद्भास्कराय महात्मने ।।
सामान्यमखिलं कुर्याद्विधानं यत्प्रकीर्तितम् ।।२८।।
स विचित्रैर्महायानैर्हंससारसगामिभिः ।।
गत्वादित्यपुरं श्रीमान्पूर्वोक्तं लभते फलम् ।। २९ ।।
वीर भाद्रपदे मासि यः कुर्यान्नक्तभोजनम् ।।
हुतशेषहविष्याशी वृक्षमूलमुपाश्रितः ।। 1.165.३० ।।
स्वप्यादायतने रात्रौ सर्वभूतानुकम्पकः ।।
दद्याद्गां रोहिणीं श्रेष्ठां भास्कराय महात्मने ।। ३१ ।।
निशाकरकरप्रख्यैर्वज्रवैदूर्यसन्निभैः ।।
चक्रवाकसमायुक्तैर्विमानैः सार्वकामिकैः ।। ३२ ।।
गत्वादित्यपुरं रम्यं सुरासुरसुवन्दितम्।।
मोदते स महाभागो यावदा भूतसंप्लवम् ।। ३३ ।।
श्रीमानाश्वयुजे मासि यः कुर्यान्नक्तभोजनम् ।।
मिताशनं प्रभुञ्जानो जितक्रोधो जितेन्द्रियः ।। ३४ ।।
दद्याद्गां पद्मवर्णाभां ,भानवेऽमिततेजसे ।।
दिव्याभरणसंपन्नां तरुणीं च पयस्विनीम् ।।३५।।
स्वस्तिमौक्तिकसंकाशैरिंद्रनीलोपशोभितैः ।।
जीवो जीवकसंयुक्तविमानैः सार्वकामिकैः ।।
गच्छेद्भानुसलोकत्वं भुञ्जानः स जितेन्द्रियः ।। ३६ ।।
दिवाकराय गां दद्याज्वलनार्कसमप्रभाम् ।।
पूर्वोक्तं च विधिं कुर्यात्सूर्य तुल्यो भवेन्नरः ।। ३७ ।।
कालानलशिखप्रख्यैर्महायानैर्नगोपमैः ।।
महासिंहकृतारोपैः सूर्यवन्मोदते सुखी ।। ३८ ।।
मार्गशीर्षे शुभे मासि यः कुर्यान्नक्तभोजनम् ।।
यच्चान्नं पयसा युक्तं भुञ्जानः स जितेन्द्रियः ।।३९।।
प्रयच्छेद्गां तथा रक्तां नानालंकारभूषिताम् ।।
सूर्याय कुरुशार्दूल विधिं चापि समाचरेत् ।। 1.165.४० ।।
सितपद्मनिभैर्यानैः श्वेताश्वरथसंयुतैः ।।
गत्वा तत्र पुरे रम्ये प्रभया परयान्वितः ।। ४१ ।।
अहिंसासत्यवचनमस्तेयं क्षांतिरार्जवम् ।।
त्रिषवणाग्निहवनं भूशय्या नक्तभोजनम् ।। ४२ ।।
पक्षयोरुभयोर्मार्गे सप्तम्यां कुरुनंदन ।।
एतान्गुणान्समाश्रित्य कुर्वाणो व्रतमुत्त मम् ।। ४३ ।।
सप्तम्योभयविख्यातं सर्वपापभयापहम् ।।
सर्वरोगप्रशमनं सर्वकामफलप्रदम् ।।४४।।
इत्येवमादीन्नियमांश्चरेत्सूर्यव्रती सदा।।
य इच्छेद्विपुलं स्थानं भानोरमिततेजसः ।।४५।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्प उभयसप्तमीवर्णनं नाम पंचषष्ट्युत्तरशततमोऽध्यायः ।। १६५ ।। छ