भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १६६

सौरधर्मे निक्षुभाव्रतवर्णनम्

।।सुमंतुरुवाच ।।
सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत्।।
स्त्री पुत्रमुत्तमं सा चेत्कांक्षते शृणु तद्व्रतम्।। १ ।।
निक्षुभार्काख्यमाख्यातं सदा प्रीतिविवर्धनम् ।।
अवियोगकरं वीर धर्मकामार्थसाधकम् ।। २ ।।
सप्तम्यामथ षष्ठ्यां वा संक्रांतौ च रवेर्दिने ।।
हविषा हविर्होमं तु सोपवासः समाचरेत् ।। ३ ।।
निक्षुभां कांस्यनिष्पन्नां कृत्वा स्वर्णमयीं शुभाम् ।।
राजतीं वाथ वा वर्षं स्नापयेच्च घृतादिभिः ।।४।।
गंधमाल्यैरलंकृत्य वस्त्रयु ग्मैश्च शोभनैः ।।
भक्ष्यभोज्यैरशेषैश्च वितानध्वजचामरैः ।। ५ ।।
भोजयेत्सूर्यभक्तांश्च शुक्लवस्त्रावगुण्ठितान् ।।
कृत्वायतनमध्ये तु प्रतिमामुपकल्पयेत् ।। ६ ।।
कृत्वा शिरसि तत्पात्रं वितानच्छत्रशोभितम् ।।
ध्वजशंखादिविभवैर्भगस्यायतनं नयेत् ।। ७ ।।
निक्षुभार्कदिनेशस्य व्रतमेतन्निवेदयेत् ।।
तत्पिंड्यां स्थापयेत्पात्रमुपशोभासमन्वितम् ।। ८ ।।
प्रदक्षिणीकृत्य रविं प्रणिपत्य क्षमापयेत् ।।
समाप्य तद्व्रतं पुण्यं शृणुयात्फ लमश्नुते ।। ९ ।।
द्वादशादित्यसंकाशैर्महायानैर्नगोपमैः ।।
यथेष्टं भानवे लोके सौरैः सार्धं प्रमोदते ।। 1.166.१० ।।
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ।।
नंदतेऽसौ महाभाग विष्णुलोके महीयते ।। ११ ।।
ततः कर्मविशेषेण सर्वकामसमन्वितम् ।।
ब्रह्मलोकं समासाद्य परं सुखमवाप्नुयात्।। १२ ।।
ब्रह्मलोकात्परिभ्रष्टः श्रीमान्त्सुरसुपूजितः ।।
प्रजापतिमवाप्नोति सुरासुरनमस्कृतः ।। १३ ।।
लोकानिह चिरं भुक्त्वा सोमलोके महीयते ।।
सोमादेंद्रं पुनर्लोकमासाद्येंद्रपतिर्भवेत् ।। १४ ।।
इंद्रलोकाच्च गंधर्वलोकं प्राप्य स मोदते ।।
 ततस्तद्धर्मशेषेण भवत्यादित्यभावितः ।। १५ ।।
स्वकर्मभावनोद्योगात्पुनः प्रारभते शुभम् ।।
शुभाच्च पुनरेत्येह स यात्यतिसहस्रशः ।। १६ ।।
यावन्नाप्नोति मरणं तावद्भ्रमति कर्मणा ।।
सुनिर्वेदात्सवैराग्यं वैराग्याज्ज्ञानसंभवः ।। १७ ।।
ज्ञानात्प्रवर्तते योगो योगाद्दुःखांतमाप्नुयात् ।। १८ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे निक्षुभाव्रतवर्णनं नाम षट्षष्ट्युत्तरशततमोऽध्यायः ।। १६६ ।।