भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७१

भोजकभोजनानुष्ठानवर्णनम्

।। शतानीक उवाच ।। ।।
मगानां ब्रूहि मे धर्मं समासव्यासयोगतः ।।
फलं च किं भवेद्ब्रह्मन्मगधर्मनिषेवणात् ।। १ ।।
।। सुमंतुरुवाच ।। ।।
य एष धर्मः सूर्येति तवाख्यातो मयानघ ।।
मगधर्मः स एवोक्तः सर्वपापभयापहः ।। २ ।।
सर्वेषामेव वर्णानां मगधर्मनिषेवणम्।।
मगधर्मश्च संप्रोक्त एतेषां भवमुक्तये ।।३।।
ब्राह्मणाः क्षत्रिया वैश्याः स्त्री शूद्रो वा मगाश्रमी ।।
यः पूजयति मार्तंडं स याति परमां गतिम् ।। ४ ।।
त्रिसंध्यमर्चयेद्भानुमग्निकार्यं च शक्तितः ।।
कुर्यान्मगो महाबाहो मुखमावृत्य यत्नतः ।।५।।
त्रिसंध्यमेककालं वा पूजयेच्छद्धया रविम् ।।
असंपूज्य रविं मोहान्न भुंजीत कदाचन ।। ६ ।।
एष धर्मः परो ज्ञेयः शेषो भवति मानवः ।।
अपूजयित्वा भुंजानो विष्ठां भुङ्क्ते च वै मगः ।। ७ ।।
देवं समाश्रितैः पूजा कर्तव्येयं त्रिभिः सदा ।।
मनसा पूजयेद्योगी पुष्पैश्चारण्यसंभवैः ।। ८ ।।
देवार्थपुष्पहिंसायां न भवेत्तस्य हिंसकः ।।
यद्यल्पमपि चात्मार्थं निहन्याद्धिंसकस्तदा ।। ९ ।।
मगश्चाग्निपरो नित्यं तद्भक्तोऽतिथिपूजकः ।।
मगी मैथुनवर्ज्यः स्याच्छ्रीमान्गृहमगाश्रमी ।। 1.171.१० ।।
देवाग्निस्वतिथौ भक्तं पचते चात्मकारणात् ।।
आत्मार्थे यः पचेन्मोहात्स मगो नरकं व्रजेत् ।। ११ ।।
देवार्थे पचनं येषां संतानार्थं तु मैथुनम् ।।
अर्थो दानार्थं उद्दिष्टो नरकं हि विपर्ययात्।। ।। १२ ।।
जीवतृतीयभागेपि न प्रकुर्वीत वार्चनम् ।।
वित्तार्जने तदर्धेन यतो नित्यं हि जीवितम् ।। १३ ।।
न्यायोपार्जितवित्तः स्यादन्यायं परि वर्जयेत् ।।
अन्यायार्जितवित्तैस्तु कुर्वन्नरकमाप्नुयात् ।। १४ ।।
वाचोर्थे ब्रह्मचारी यः सूर्यपूजाग्नितत्परः ।।
भवेज्जितेंद्रियः शांतो नैष्ठिको भौति कोऽपि वा ।। १५ ।।
सर्वगंधविनिर्मुक्तः कंदमूलफलाशनः ।।
मम वैखानसो ज्ञेयः सूर्यपूजाग्नितत्परः ।। १६ ।।
निवृत्तः संगमेभ्यस्तु सूर्यध्यान रतः सदा ।।
ज्ञेयः सौरयतींद्राय पूजानिष्ठो जितेंद्रियः ।। १७ ।।
मुंडोपनयनो व्यंगी शुक्लवासः समन्वितः ।।
ज्ञेयं तदर्चनस्थानमेतत्कार्यं प्रयत्नतः ।। १८ ।।
अथाव्यंगो महाराज धारयेद्यस्तु भोजकः ।।
अगम्यं सर्वसत्त्वानां सूर्यलोकं स गच्छति ।। १९ ।।
ध्वंसनं सर्वदुष्टानां सर्वपाप भयापहम् ।।
भावशुद्धेन सततमर्चनीयो दिवाकरः ।। 1.171.२० ।।
गंधलेपविहीनोऽपि भावशुद्धो न दुष्यति ।।
भावेषु च चरेच्छौचं वस्त्रपूतं जलं पिबेत् ।। २१ ।।
दृष्टिपूतं न्यसेत्पादं सत्यपूतं वचो वदेत् ।।
सौरध्यानरताः शांताः सौरधर्मपरायणाः ।। २२ ।।
सर्व एवाश्रमा ज्ञेया भास्करांगसमुद्भवाः ।।
भोजकाष्टव्रतं धार्यं रविणोक्तमनौपमम् ।।२३।।
सर्वव्रतानां परमं धर्मालयमनुत्तमम् ।।
सौरभक्ते सदा क्षांतिरहिंसा सर्वदा शमः ।।२४।।
संतोषः सत्यमस्तेयं ब्रह्मचर्यं तथाष्टमम् ।।
यथासंभवपूजाभिः कर्मणा मनसा गिरा ।। २५ ।।
सौरभक्तिः सदा कार्या भोजकेषु विशेषतः ।।
स्वदेहान्निर्विशेषं हि भोजकान्पालयेद्बुधः ।। २६ ।।
भयदारिद्र्यरोगेभ्यस्तेषां कुर्यात्प्रियाणि वै ।।
सूर्यस्य परिपूर्णस्य किं नाम क्रियते नरैः ।। २७ ।।
यत्कृतं भोजकानां वै तत्कृतं स्याद्रवेर्नृप ।।
सुदूरमपि गंतव्यं मगानां यत्र वै गणः ।। २८ ।।
स च प्रयत्नाद्द्रष्टव्यस्तत्र संनिहितो रविः ।।
भोजकस्य तु भक्तस्य सूर्यपूजारतस्य च ।। २९ ।।
आज्ञां कृत्वा यथान्यायमश्वमेधफलं लभेत् ।।
देवाश्रमगतो भक्त्या देवार्चां पूजयेन्नृप ।। 1.171.३० ।।
स्वागतासनपाद्यार्घ्यमधुपर्काद्यनुक्रमात् ।।
भोजयित्वा यथान्यायं सूर्यलोके महीयते ।।३१।।
प्रतिश्रयप्रदानेन राजा भवति भारत ।।
दत्त्वा स्थानं तथा शौचं वारुणं लोकमाप्नुयात् ।। ३२ ।।
श्वेतबिंदुपरीतांगं ध्यानश्रमविकर्शितम् ।।
संवीज्य तालवृंत्तेन वायुलोके महीयते ।। ३३ ।।
क्षुत्पिपासातुरं श्रांतं मलिनं रोगिणं तथा ।।
पालयित्वा यथा शक्त्या सर्वान्कामानवाप्नुयात् ।। ३४ ।।
पतिताशस्तसंकीर्णचंडालादीनां पक्षिणाम् ।।
कारुण्यात्सर्वभूतानां देयमन्नं स्वशक्तितः ।। ३५ ।।
अत्यल्पमपि कारुण्याद्दत्तं भवति चाक्षयम् ।।
तस्मात्सर्वेषु भूतेषु देवकारुण्यमुच्यते ।।३६।।
अभावे तृणभूम्यन्नं पत्रं धनफलानि च ।।
दत्त्वाऽऽगताय प्रणतः स्वर्गं याति प्रियेण वा ।।३७।।
न हीदृक्स्वर्गयानाय यथा लोके प्रियं वचः ।।
इहामुत्र सुखं तेषां वाग्येषां मधुरा भवेत् ।।३८।।
अमृतस्यंदिनी वाचं चंदनस्पर्शशीतलाम् ।।
धर्माविरोधिनीमुक्त्वा सुखमक्षय्यमाप्नुयात् ।। ३९ ।।
अलं दानेन राजेंद्र पूजयाध्यापनेन वा ।।
इदं स्वर्गस्य सोपानमचलं यत्प्रियं वचः ।। 1.171.४० ।।
पूजाभिभाषणं दृष्टिः प्रत्येकं स्वर्गहेतवः ।।
संपृच्छेदा(पा)गतं भक्त्या कुशलं प्रश्नमादरात् ।। ४१ ।।
गमने तस्य वक्तव्यं पंथानः संतु ते शिवाः ।।
सुखं भवतु ते नित्यं सर्वकार्यकरं भृशम् ।। ४२ ।।
आशीर्वादमिदं वाक्यं सर्वकालेषु सर्वदा ।।
नमस्कारादिवाक्येषु स्वस्ति मंगलवादने ।। ४३ ।।
शिवं भवतु ते नित्यं तं ब्रूयात्सर्वकर्मसु ।।
एवमादि च वाचारमनुष्ठाय सदाश्रमी ।। ४४ ।।
अशेषपाप निर्मुक्तः सूर्यलोके महीयते ।।
सूर्यभक्ते तु या भक्तिः सद्भक्तैः क्रियते नरैः ।।
सूर्ये भक्तिसमा नित्यं भक्ते भक्तिरनुष्ठिता ।। ४५ ।।
आक्रुष्टे ताडिते वापि यो नाक्रोशेन्न ताडयेत् ।।
वाक्यादधिकृतः स्वस्थः स दुःखात्परिमुच्यते ।। ४६ ।।
सर्वेषामेव तीर्थानां क्षांतिः परमपूजिता ।।
तस्मात्पूर्व प्रयत्नेन क्षांतिः कार्या क्रियासु वै ।। ४७ ।।
ज्ञानयोगतपो यस्य यज्ञदानानि सत्क्रिया ।।
क्रोधनस्य वृथा यस्मात्तस्मात्क्रोधं विवर्जयेत् ।। ।। ४८ ।।
मर्मास्थिप्राणहृदयं निर्दहेदप्रियंवचः ।।
न वचो ह्यप्रियं तस्माद्भोजकेषु विशेषतः ।। ४९ ।।
क्षमा दानं त्विषः सत्यं क्षमाहिंसार्कसंभवाः ।।
न शक्या विस्तराद्वक्तुमपि वर्षशतैरपि ।। 1.171.५० ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे भोजकभोजनानु ष्ठानवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ।। १७१ ।।