भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७२

सौरधर्मवर्णनम्

।। सुमंतुरुवाच ।। ।।
पुनः शृणु महाराज धर्ममादित्यसंमतम् ।।
सौरप्रियं सदा सौरं पवित्रं पापनाशनम् ।। १ ।।
क्वचिद्गच्छन्यदा पश्येत्सूर्यार्चासंप्रपूजनम् ।।
यत्र पूजा ततो गच्छन्त्स सूर्यो नात्र संशयः ।।२ ।।
स्नाननैवेद्यवस्त्रैश्च नानालंकारभूषणैः ।।
यथाविभवमाश्रित्य नमस्कारादिसंस्तवैः ।। ३ ।।
दृष्ट्वायतनमाक्रम्य नमस्कृत्य रविं व्रजेत् ।।
क्वचित्पथि नदीं शैलं गच्छमानं च भोजकम् ।। ४ ।।
उपश्रुत्यावनिं गत्वा भोजकं पूजयेद्बुधः ।।
रथाश्वगजयानेभ्यो ह्यवतीर्य मगान्नृप ।।
मगानां भोजनं भक्त्या शक्त्या दानं प्रकल्पयेत् ।। ५ ।।
दशपूर्वान्दश परानात्मना सह भारत ।।
समादाय व्रजेत्स्थानं रवेरमिततेजसः ।। ६ ।।
दैवपर्वोत्सवे श्राद्धे पुण्येषु दिवसेषु च ।।
भानुं संपूज्य विधिवद्भोजकान्भोजयेत्ततः ।। ७ ।।
पितरः सर्वदेवानां सूर्यमाश्रित्य संस्थिताः ।।
प्रीते सूर्ये तु ते सर्वे प्रीताः स्युर्नात्र संशयः ।। ८ ।।
यदा च श्रद्धया युक्तं प्रसक्तं रविपूजनम् ।।
भोजयेद्भोजकं भक्त्या श्राद्धेषु विधिवन्नृप ।। ९ ।।
भोजकस्य महाराज दिवसेनापि यत्फलम् ।।
न तच्छक्यमिदं तेन प्राप्तुं वर्षशतैरपि ।। 1.172.१० ।।
यः पश्यति प्रसन्नात्मा यो न द्वेष्टि न कांक्षति ।।
शब्दादीनां तु संभोगं स विज्ञेयो जितेंद्रियः ।। ११ ।।
ज्ञानविज्ञानसम्पन्नः सूर्यभक्त्या समन्वितः ।।
पाषंडयोगमुक्तश्च स वै भोजक उच्यते।। १२ ।।
सूर्यधर्माद्भवेज्ज्ञानं ज्ञानाद्वैराग्यसंभवः ।।
ज्ञानवैराग्ययुक्तस्य सूर्ययोगः प्रवर्तते ।। १३ ।।
सूर्ययोगाच्च सर्वज्ञः परिपूर्णः सुनिर्वृतः ।।
आत्मन्यवस्थितः शुद्धः सूर्यवद्दि वि मोदते ।।१४।।
सर्वेषामेव भूतानामुत्तमः पुरुषः स्मृतः ।।
पुरुषेभ्यो द्विजः श्रेष्ठो द्विजेभ्यो ग्रंथपारगः ।। १५ ।।
ग्रन्थिभ्यो वेदविद्वांसस्तेभ्यस्त त्त्वार्थचिंतकाः ।।
अर्थविद्भ्यश्च ज्ञानार्थप्रतिबुद्धो विशिष्यते ।। १६ ।।
ज्ञानार्थकोटिकोटिभ्यो वरिष्ठा योगिनो मताः ।।
योगिनां कोटिकोटिभ्यो भोजकश्चोत्तमो भवेत् ।। १७ ।।
योगज्ञा योगनिष्ठाश्च पितरो योगसंभवाः ।।
भोजिते भोजके सर्वे प्रीताः स्युस्ते न संशयः ।। १८ ।।
सर्वज्ञानतपोदानैः कृतैर्दत्तैश्च यत्फलम् ।।
तत्फलं लभते सर्वं विधिवद्भोज्यभोजकम् ।। १९ ।।
यश्च द्रव्यकलापात्मा दक्षिणा हविर्ऋत्विजः ।।
ऋग्यजुःसाम योगैश्च देवयज्ञः प्रकीर्तितः ।।1.172.२०।।
ब्रह्मचर्यं तपो मौनं क्षांतिराहारलाघवम् ।।
इत्येतत्तपसां रूपं सुधीरं पंचलक्षणम् ।।२१।।
यच्च दिष्टं विशिष्टं च न्यायप्राप्तं च यद्भवेत।।
तत्तद्गुणवते देयमित्येतद्दानलक्षणम्।।२२।।
विवर्धनीं सहस्राणां सर्वसस्यप्ररोहिणीम्।।
दद्याद्भूमिं जलोपेतां भूमिदानं तदुच्यते ।।२३।।
एकच्छत्रां महीं कृत्वा द्विजेभ्यः प्रतिपादयेत् ।।
संपूर्णां पर्वतारण्यैर्भूमिदानं तदुच्यते।।२४।।
कन्यामलंकृतां दद्यादधनाय नराधिपा।
द्विजाय वेदविदुषे कन्यादानं तदुच्यते ।।२५।।
सर्वदोषविनिर्मुक्तां कुलयोग्यामलंकृताम् ।।
मध्यमोत्तमवस्त्राणां यो दद्यादहतानि च ।।२६।।
एतत्समासतो ज्ञेयं वस्त्रदानस्य लक्षणम्।।
ब्रह्मविष्णुसमाधिक्यकांतिशीलपरायणः।।
अहोरात्रं न भुञ्जीत ह्युपवासस्य लक्षणम् ।।२७।।
चत्वारिंशत्समायुक्तं पिंडानां हि शतद्वयम् ।।
मासे ह्यद्यायथाकाममिदं चाद्रायणं स्मृतम्।।२८।।
ऋषिभिः सर्वशास्त्रज्ञैस्तपोनिष्ठैर्जितेंद्रियैः ।।
देवैश्च सेवितं तोयं क्षितौ तत्तीर्थमु च्यते ।। २९ ।।
सूर्यावांतरस्थानानि पुण्यक्षेत्राणि निर्दिशेत्।।
मृतानां तेषु सूर्यत्वं सौरक्षेत्रेषु देहिनाम् ।। 1.172.३० ।।
दानान्यावसथं कुर्यादुद्यानं देव तागृहम् ।। आवसथ
तीर्थेष्वेतानि यः कुर्यात्सोऽक्षयं लभते फलम् ।। ३१ ।।
क्षान्तिः स्पृहा तथा सत्यं दानं शीलं तपः श्रुतम्।।
एतदष्टांगमुद्दिष्टं परं पात्रस्य लक्षणम् ।। ३२ ।।
यज्ञोपवासदानानि तपस्तीर्थर्फलानि च ।।
संपूर्णं लभते भक्त्या भोजयित्वा तु भोजकान् ।। ३३ ।।
सूरे भक्तिः क्षमा सत्यं दशेंद्रियविनिग्रहः ।।
सुखितेषु च मैत्री च सूर्यधर्मस्य लक्षणम् ।। ३४ ।।
सूर्यभक्तं द्विजं भक्त्या यः श्राद्धेषु च भोजयेत् ।।
कुलसप्तकमुद्धृत्य सूर्यलोके महीयते ।। ३५ ।।
बहुनात्र किमुक्तेन सूर्यभक्तं तु भोजयेत् ।।
सूर्यभक्तेन यद्भुक्तं भानुनामाश्रयं नृप ।। ३६ ।।
न वेदविदुषां कोट्या लभ्यते चेह तत्फलम् ।।
तत्फलं लभते राजन्भोजं भाज्य विधानतः ।। ३७ ।।
तस्माच्छ्राद्धे विशेषेण पुण्येषु दिवसेषु च ।।
सूर्यमुद्दिश्य विप्रेंद्र भोजं संभोजयेन्नृप ।। ३८ ।।
असंयतः संयतो वा सर्वावस्थां गतोपि वा ।।
यश्चासौ रविभक्तः स्यात्सूर्यवत्पूज्य एव हि ।। ३९ ।।
संसर्गाद्वापि वा लोभाद्भोजकं यस्तु भोजयेत् ।।
सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि ।। 1.172.४० ।।
तस्मान्मान्यश्च पूज्यश्च रक्षणीयश्च सर्वदा ।।
भोजकः कुरुशार्दूल सौरेण गतिमिच्छता ।। ४१ ।।
नाममात्रप्रयत्नोऽपि यदि स्याद्भोजको रवेः ।।
सूर्यवत्स हि द्रष्टव्यः पूजनीयश्च भारत ।। ४२ ।।
गृहे श्राद्धस्य यत्पुण्यमरण्ये तच्छताधिकम् ।।
सौराश्रमेषु विज्ञेयं तत्पुण्यमयुताधिकम् ।। ४३ ।।
दत्त्वा तु भोजके सौम्यं ह्यासनं सपरिच्छदम् ।।
धातुदंतमयं चापि राजा भवति भूतले ।। ४४ ।।
 विमले वाससी दत्त्वा भोजकाय महीपते ।।
उद्धृत्य शतसाहस्रं सूर्यलोके महीयते ।। ४५ ।।
दत्त्वा तु लोमशां राजन्भोजकाय शुभां बृहत् ।।
रोम्णिरोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् ।। ४६ ।।
शंखं ददाति यो भक्त्या तथा दिव्ये च पादुके ।।
सूर्यलोकमवाप्नोति तेजसा रविसन्निभः ।। ४७ ।।
लिखापयति यो भक्त्या पुराणेन तु पुस्तकम् ।।
युगकोटिशतं दिव्यं सूर्यलोके महीयते ।। ४८ ।।
भवेदिहागतः श्रीमान्सुखाढ्यो वेदपारगः।।
यः करोति गृहं भानोस्तत्स्थानं चोत्तमं भवेत् ।। ४९ ।।
तत्सूर्यो भोजकः सोत्र भोजकः सूर्य एव हि ।।
तेन भोजकविप्रेषु दानमक्षय्यमित्यपि ।। 1.172.५० ।।
यद्यद्यस्योपयुज्येत देयं तत्तस्य यत्नतः ।।
उपयोगपरो नित्यं सूर्यस्तदुभयोरपि ।।५१।।
व्याख्याने सौरधर्मस्य कृत्वा आमलकं महत् ।।
शोभितं पुष्पपत्राद्यैर्न्यसेत्तत्रासने सुराः ।। ५२ ।।
शोभितं माल्यगन्धैस्तु सूर्यस्य साधनं महत् ।।
पुरस्तात्तस्य संस्थाप्य आचार्यं पूजयेत्सदा ।।
सूर्यवत्सौरधर्मे च तुल्यमेतद्द्वयं वचः ।। ५३ ।।
य एवं न्यायतो वक्ति सौरधर्मं शृणोति च ।।
आयुर्विद्यां यशः कीर्तिमुपलभ्य रविं जपेत् ।।
वदंत्यन्ये पिबंत्यन्ये सर्वे ते फलभागिनः ।। ५४ ।।
तस्मादेवंविधो धर्मो वाचकैश्च विदुर्बुधाः ।।
तस्यान्ते पूजयेद्भक्त्या य इच्छेद्विपुलं यशः ।। ५५ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे द्विसप्तत्युत्तरशततमोऽध्यायः ।। १७२ ।।