सौरधर्मवर्णनम्

।। शतानीक उवाच ।। ।।
पुनर्मे ब्रूहि विप्रेन्द्र सौरं धर्ममनुत्तमम् ।।
समासात्कथितं ब्रह्मन्विस्तरेण प्रकीर्तय ।। १ ।।
।। सुमन्तुरुवाच ।। ।।
साधुसाधु महाबाहो साधु पृष्टोऽस्मि भारत ।।
त्वत्समो नास्ति लोकेऽस्मिन्सौरः पार्थिवसत्तम ।। २ ।।
कीर्तयाम्यथ तं पुण्यं संवादं पापनाशनम् ।।
गरुडारुणयो राजन्पुरावृत्तं नराधिप ।। ३ ।।
सुखासीनं पुरा राजन्नरुणं सूर्यसारथिम् ।।
उपगम्य महाबाहो गरुडो वाक्यमव्रवीत् ।। ४ ।।
धर्माणामुत्तमं धर्मं सर्वपापप्रणाशनम् ।।
सौरधर्मं खगश्रेष्ठ ब्रूहि मे कृत्स्नशोनघ ।। ५ ।।
।। अरुण उवाच ।। ।।
साधु वत्स महात्मासि धन्यस्त्वं पापवर्जितः ।।
श्रोतुकामोऽसि यत्पुत्र सौरधर्ममनुत्तमम् ।। ६ ।।
शृणु त्वं कीर्तयाम्येष सुखोपायं महत्फलम् ।।
परमं सर्वधर्माणां सौरधर्ममनुत्तमम् ।। ७ ।।
अज्ञानार्णवमग्नानां सर्वेषां प्राणिनामयम् ।।
सौरधर्मो ह्ययं श्रीमान्परतीरप्रदो यतः ।। ८ ।।
ये स्मरंति रविं भक्त्या कीर्तयंति च ये खग ।।
पूजयन्ति च ये नित्यं ते गताः परमं पदम् ।। ९ ।।
आत्मद्रोहः कृतस्तेन जातेनेह खगाधिप ।।
नार्चितो येन देवेशः सहस्रकिरणो रविः ।। 1.173.१० ।।
सुचिरं संभ्रमत्यस्मिन्दुःखदे च भवार्णवे ।।
जराभूतमहाग्राहे तृष्णावेलाकुलापरे ।। ११ ।।
मानुष्यं दुर्लभं प्राप्य येऽर्चयंति दिवाकरम्।।
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ।। १२ ।।
सूर्यभक्तिपरा ये च ये च तद्गतमानसाः ।।
ये स्मरंति सदा सूर्यं न ते दुःखस्य भागिनः ।। १३ ।।
विविधानि मनोज्ञानि विविधाभरणाः स्त्रियः ।।
धनं वा दृष्टपर्यंतं सूर्यपूजाविधेः फलम् ।। १४ ।।
ये वांछन्ति महाभोगान्राज्यं वा त्रिदशा लये ।।
सौभाग्यं कांतिमतुलां भोगं त्यागं यशः श्रियम् ।। १५ ।।
सौन्दर्यं जगतः ख्यातिः कीर्तिर्धर्मादयः स्मृताः ।।
फलान्येतानि वै पुत्र सूर्य भक्तिविधेर्बुध ।। १६ ।।
 तस्मात्संपूजयेत्सूर्यं सर्वदेवगणार्चितम् ।।
दुर्लभा भास्करे भक्तिर्दुर्लभं च तदर्चनम् ।। १७ ।।
दानं च दुर्लभं तस्मै तद्धोमश्च सुदुर्लभः ।।
दुर्लभं तस्य विज्ञानं तदभ्यासोऽपि दुर्लभः ।। १८ ।।
सुदुर्लभतरं ज्ञेयं तदाराधनमुत्तमम् ।।
लोभस्तेषां मनुष्याणां ये रविं शरणं गताः ।। १९ ।।
येषामिहेश्वरे भानौ नित्यं सूर्ये गतं मनः ।।
नमस्कारादिसंयुक्तं रविरित्यक्षरद्वयम् ।। 1.173.२० ।।
जिह्वाग्रे वर्तते यस्य सकलं तस्य जीवितम् ।।
य एवं पूजयेद्भानुं श्रद्धया परयान्वितः।
मुच्यते सर्वपापेभ्यः स नरो नात्र संशयः ।। २१ ।।
डाकिन्यो विविधाकारा राक्षसाः सपिशाचकाः ।।
न तस्य पीडां कुर्वंति तथान्याश्च विभीषणाः ।। २२ ।।
शत्रवो नाशमायांति संग्रामे जयमाप्नुयात् ।।
न रोगैः पीड्यते वीर आपदो न स्पृशंति तम् ।। २३ ।।
धनमायुर्यशो विद्या प्रभावो ह्यतुलं तथा ।।
शुभेनोपचयं यांति नित्यं पूर्णमनोरथाः ।।।२४ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गरुडारुणसंवादे सौरधर्मवर्णनं नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ।। १७३।