भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७४

सूर्यस्तुतिवर्णनम्

।। ।। अरुण उवाच ।। ।।
पूजयित्वा रविं भक्त्या ब्रह्मा बह्मत्वमागतः ।।
विष्णुत्वं चापि देवेशो विष्षुराप तदर्चनात् ।। १ ।।
शंकरोऽपि जगन्नाथः पूजयित्वा दिवाकरम् ।।
महादेवत्वमगमत्तत्प्रसादात्खगाधिप ।। २ ।।
सहस्राक्षोपि देवेश इन्द्रो भानुं तमोपहम् ।।
इन्द्रत्वमगमद्देवं पूजयित्वा दिवाकरम् ।। ३ ।।
मातरो देवगंधर्वाः पिशाचोरगराक्षसाः ।।
पूजयंति सदा भानुमीशानं सुरनायकम् ।। ४ ।।
सर्वमेतज्जगन्नित्यं भानौ देवे प्रतिष्ठितम् ।।
तस्मात्संपूजयेद्भानुं य इच्छेत्स्वर्गमक्षयम् ।। ५ ।।
यो न पूजयते सूर्यं भास्करं तमसूदनम् ।।
धर्मार्थकाममोक्षाणां न नरो भाजनं भवेत् ।। ६ ।।
तस्मात्कार्यं हि तद्ध्यानं यावज्जीवं प्रतिज्ञया ।।
अर्चयेत सदा भानुमापन्नोऽपि सदा खग ।। ।। ७ ।।
यस्तु संतिष्ठते नित्यं विना सूर्यस्य पूजनात् ।।
वरं प्राणपरित्यागः शिरसो वाथ च्छेदनम् ।। ८ ।।
सूर्यं संपूज्य भुञ्जीत त्रिदशेशं दिवाकरम् ।।
इत्थं निर्वहते यस्य यावज्जीवं तदर्चनम् ।।
मनुष्यचर्मणा नद्धः स रविर्नात्र संशयः ।। ९ ।।
न हि अर्कार्चनादन्यत्पुण्यमप्यधिकं भवेत् ।।
इति विज्ञाय यत्नेन पूजयस्व दिवाकरम् ।। 1.174.१० ।।
सूर्यभक्तागमाश्चैव सूर्यार्चनपरायणाः ।।
संयता धर्मसंपन्ना धर्मादीन्साधयन्ति ते ।। ११ ।।
सर्वद्वन्द्वसहा वीरा नीतिविध्युक्तचेतसः ।।
परोपकारनिरता गुरुशुश्रूषणे रताः ।। १२ ।।
अमानिनो बुद्धिमन्तोऽव्यक्तस्पर्धा गतस्पृहाः ।।
शांता स्वांतगता भद्रा नित्यं स्वागतवादिनः ।। १३ ।।
स्वल्पवाचः सुमनसः शूराः शास्त्रविशारदाः ।।
शौचाचारसुसंपन्ना दयादाक्षिण्यगोचराः ।। १४ ।। दंभमत्सरनिर्मुक्तास्तृष्णालोभविवर्जिताः ।।
संविभागपराः प्रोक्ता न शठाश्चाप्यकुत्सिताः ।। १५ ।।
विषयेष्वपि निर्लेपाः पद्मपत्रमिवांभसा ।।
न दीना मानिनश्चैव न च रोगवशानुगाः ।। १६ ।।
भवंति भावितात्मानः सुस्निग्धाः साधुसेविताः ।।
न पाणिपादवाक्चक्षुःश्रोत्रशिश्नोदरे रताः ।। १७ ।।
चपलानि न कुर्वंति सर्वव्यासंगवर्जिताः ।।
सूर्यासनरताः शांताः षडक्षरमनोगताः ।। १८ ।।
इत्याचारसमायुक्ता भवंति भुवि मानवाः ।।
एकांतभक्तिमास्थाय धर्मकामार्थसिद्धये ।। १९ ।।
पूजनीयो रविर्नित्यं गुणेष्वेतेषु वर्तते ।।
सर्वेषामेव पात्राणामतिपात्रं दिवाकरः ।।
पतन्तं त्रायते यस्मादतीव नरकार्णवात् ।। 1.174.२० ।।
तस्य पात्रातिपात्रस्य माहात्म्यं दानमण्वपि ।।
अनेन फलमादिष्टमिहलोके परत्र च ।। २१ ।।
द्रव्येणापि हि यः कुर्यान्नरः कर्म तदालये ।।
सोऽपि देहक्षये ज्ञानं प्राप्य शांतिमवाप्नुयात् ।।२२।।
सर्वद्विजकदंबेषु कश्चिज्ज्ञानमवाप्नुयात् ।।
कश्चिदेतत्तु मे दिव्यं लब्ध्वा ज्ञानं विमुञ्चति ।। २३ ।।
तावद्भ्रमंति संसारे दुःखशोकपरिप्लुताः ।।
न भवंति रवेर्भक्ता यावत्सर्वेपि देहिनः ।। २४ ।।
सूर्यस्यालेपनं पुण्यं द्विगुणं चन्दनस्य तु ।।
चन्दनादगुरौ ज्ञेयं पुण्यमष्टगुणोत्तरम् ।। २५ ।।
कृष्णागुरौ विशेषेण द्विगुणं फलमिष्यते ।।
तस्माच्छतगुण पुण्यं कुंकुमस्य विधीयते ।। २६ ।।
सूर्ययज्ञोपकरणं कृत्वाल्पं यदि वा बहु ।।
भावाद्वित्तानुसारेण सूर्यलोके महीयते ।। २७ ।।
यदपीष्टमनिष्टं च न्यायेनोभयमागतम् ।।
तत्सूर्याय निवेद्यं सद्भक्त्यानन्तफलार्थिना ।। २८ ।।
कर्मशाठ्येन यः कुर्याद्दुःखेनापि तदर्चनम् ।।
सोऽपि द्विजो दिवं याति कर्मणा पापवर्जितः ।। २९ ।।
सर्वमन्यत्परित्यज्य सूर्ये चैकमना सदा ।।
सूर्यपूजाविधिं कुर्याद्य इच्छेच्छ्रेय आत्मनः ।। 1.174.३० ।।
त्वरितं जीवितं याति त्वरितं यौवनं तथा ।।
त्वरितं व्याधिरप्येति तस्मान्नित्यं रविं व्रजेत् ।। ३१ ।।
यावन्नाभ्येति मरणं यावन्नाक्रमते जरा !।।
यावन्नेंद्रिय वैकल्यं तावदर्चेद्दिवाकरम् ।। ३२ ।।
न सूर्यार्चनतुल्योपि न धर्मोन्यो जगत्त्रये ।।
इत्थं विज्ञाय देवेशं पूजयस्व दिवाकरम् ।। ३३ ।।
ये भक्त्या देवदेवेशं सूर्यं शांतमजं प्रभुम्।।
इह लोके सुखं प्राप्य ते गताः परमं पदम् ।। ३४ ।।
गोपतिं पूजयित्वा तु प्रहृष्टेनांतरात्मना ।।
कृतांजलिपुटो भूत्वा पुरा ब्रह्माब्रवीदिदम् ।। ३५ ।।
।। ब्रह्मोवाच ।। ।।
भगवन्तं भगकरं शांतचित्तमनुत्तमम् ।।
देवमार्गप्रणेतारं प्रणतोऽस्मि रविं सदा ।। ।। ३६ ।।
शाश्वतं शोभनं शुद्धं चित्रभानुं दिवस्पतिम् ।।
देवदेवेशमीशेशं प्रणतोऽस्मि दिवाकरम् ।। ३७ ।।
सर्वदुःखहरं देवं सर्वदुःखहरं रविम् ।।
वराननं वरांगं च वरस्थानं वरप्रदम्।। ३८ ।।
वरेण्यं वरदं नित्यं प्रणतोऽस्मि विभावसुम् ।।
अर्कमर्यमणं चेन्द्रं विष्णुमीशं दिवाकरम् ।। ३९ ।।
देवेश्वरं देवरतं प्रणतोऽस्मि विभावसुम् ।।
य इदं शृणुयान्नित्यं ब्रह्मणोक्तं स्तवं परम् ।।
स हि कीर्तिं परां प्राप्य पुनः सूर्यपुरं व्रजेत् ।। 1.174.४० ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गरुडारुणसंवादे सूर्यस्तुतिर्नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ।।१७४।।