भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८०

शान्तिकवर्णनम्

गंगा पुण्या महादेवी यमुना नर्मदा नदी ।।
गौतमी चापि कावेरी वरुणा देविका तथा ।।१।।
सर्वग्रहपतिं देवं लोकेशं लोकनायकम् ।।
पूजयंति सदा नद्यः सूर्यसद्भावभाविताः ।।
शांतिं कुर्वंतु ते नित्यं सूर्यध्यानैकमानसाः ।।२।।
निरंजना नाम नदी शोणश्चापि महानदः ।।
मंदाकिनी च परमा तथा सन्निहिता शुभा।।३।।
एताश्चान्याश्च बहवो भुवि दिव्यंतरिक्षके।।
सूर्यार्चनरता नद्यः कुर्वंतु तव शांतिकम् ।।४।।
महावैश्रवणो देवो यक्षराजो महर्षिकः ।।
यक्षकोटिपरीवारो यक्षसंख्येयसंयुतः ।।५।।
महाविभवसंपन्नः सूर्यपादार्चने रतः ।।
सूर्यध्यानैकपरमः सूर्यभावेन भावितः।।६।।
शांतिं करोतु ते प्रीतः पद्मपत्रायतेक्षणः ।।
माणिभद्रो महायक्षो मणिरत्नविभूषितः ।।७।।
मनोहरेण हारेण कंठलग्नेन राजते ।।
यक्षिणीयक्षकन्याभिः परिवारितविग्रहः ।।
सूर्यार्चनसमासक्तः करोतु तव शांतिकम्।।८।।
सुचिरो नाम यक्षेंद्रो मणिकुडल भूषितः ।।
ललाटे हेमपटलप्रबद्धेन विराजते ।। ९ ।।
बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः ।।
सूर्यपूजापरो युक्तः करोतु तव शांतिकम् ।। 1.180.१०।।।
पांचिको नाम यक्षेंद्रः कंठाभरणभूषितः ।।
कुक्कुटेन विचित्रेण बहुरत्नान्वितेन तु ।। ११ ।।
यक्षवृन्दसमाकीर्णो यक्षकोटिसमन्वितः ।।
सूर्यार्चनकरः श्रीमान्करोतु तव शांतिकम् ।। १२ ।।
धृतराष्ट्रो महातेजा नानायक्षाधिपः खग ।।
दिव्यपट्टः शुक्लच्छत्रो मणिकांचनभूषितः ।। १३ ।।
सूर्यभक्तः सूर्यरतः सूर्यपूजापरायणः ।।
सूर्यप्रसादसंपन्नः करोतु तव शांतिकम् ।। १४ ।।
विरूपाक्षश्च यक्षेंद्रः श्वेतवासा महाद्युतिः ।।
नानाकांचनमालाभिरुपशोभितकंधरः ।। १५ ।।
सूर्यपूजापरो भक्तः कंजाक्षः कंजसन्निभः ।।
तेजसादित्यसंकाशः करोतु तव शांतिकम् ।। १६ ।।
अंतीरक्षगता यक्षा ये यक्षाः स्वर्गगामिनः ।।
नानारूपधरा यक्षाः सूर्यभक्ता दृढव्रताः ।। १७ ।।
तद्भक्तास्तद्गमनसः सूर्यपूजासमुत्सुकाः ।।
शांतिं कुर्वंतु ते हृष्टाः शांताः शांतिपरायणाः ।। १८ ।।
यक्षिण्यो विविधाकारास्तथा यक्षकुमारकाः ।।
यक्षकन्या महाभागाः सूर्याराधनतत्पराः ।। १९ ।।
शांतिं स्वस्त्ययनं क्षेमं बलं कल्याणमुत्तमम् ।।
सिद्धिं चाशु प्रयच्छंतु नित्यं च सुसमाहिताः ।। 1.180.२० ।।
पर्वताः सर्वतः सर्वे वृक्षाश्चैव महर्द्धिकाः ।।
सूर्यभक्ताः सदा सर्वे शांतिं कुर्वंतु ते सदा ।। २१ ।।
सागराः सर्वतः सर्वे गृहारण्यानि कृत्स्नशः ।।
सूर्यस्याराधनपराः कुर्वंतु तव शांतिकम् ।। २२ ।।
राक्षसाः सर्वतः सर्वे घोररूपा महाबलाः ।।
स्थलजा राक्षसा ये तु अंतरिक्षगताश्च ये ।।२३।।
पाताले राक्षसा ये तु नित्यं सूर्यार्चने रताः ।।
शांतिं कुर्वंतु ते सर्वे तेजसा नित्यदीपिताः ।। २४ ।।
प्रेताः प्रेतगणाः सर्वे ये प्रेताः सर्वतोमुखाः ।।
अतिदीप्ताश्च ये प्रेता ये प्रेता रुधिराशनाः ।।२५।।।
अंतरिक्षे च ये प्रेतास्तथा ये स्वर्गवासिनः ।।
पाताले भूतले वापि ये प्रेताः कामरूपिणः ।। २६ ।।
एकचक्रो रथो यस्य यस्तु देवो वृषध्वजः ।।
तेजसा तस्य देवस्य शांतिं कुर्वंतु ते सदा ।।२७।।
ये पिशाचा महावीर्या वृद्धिमंतो महाबलाः ।।
नानारूपधराः सर्वे सर्वे च गुणवत्तराः ।।२८।।।
अंतरिक्षे पिशाचा ये स्वर्गे ये च महाबलाः ।।
पाताले भूतले ये च बहुरूपा मनोजवाः ।। २९ ।।
यस्याहं सारथिर्वीर यस्य त्वं तुरगः सदा ।।
तेजसा तस्य देवस्य शांतिं कुर्वंतु तेऽञ्जसा ।। 1.180.३० ।।
अपस्मारग्रहाः सर्वे सर्वे चापि ज्वरग्रहाः ।।
ये च स्वर्गस्थिताः सर्वे भूमिगा ये ग्रहोत्तमाः ।। ।। ३१ ।।
पाताले तु ग्रहा ये च ये ग्रहाः सर्वतो गताः ।।
दक्षिणे किरणे यस्य सूर्यस्य च स्थितो हरिः ।। ३२ ।।
हरो यस्य सदा वामे ललाटे कंजजः स्थितः ।।
तेजसा तस्य देवस्य शांतिं कुर्वंतु ते सदा ।। ३३ ।।
इति देवादयः सर्वे सूर्ययज्ञविधायिनः ।।
कुर्वंतु जगतः शांतिं सूर्यभक्तेषु सर्वदा ।। ३४ ।।
जयः सूर्याय देवाय तमोहंत्रे विवस्वते ।।
जयप्रदाय सूर्याय भास्कराय नमोस्तु ते ।। ३५ ।।
ग्रहोत्तमाय देवाय जयः कल्याणकारिणे ।।
जयः पद्मविकाशाय बुधरूपाय ते नमः ।। ३६ ।।
जयः दीप्तिविधानाय जयः शांतिविधायिने ।।
तमोघ्नाय जयायैव अजिताय नमोनमः ।।३७।।
जयार्क जयदीप्तीश सहस्रकिरणोज्ज्वल ।।
जय निर्मितलोकस्त्वमजिताय नमोनमः ।। ३८ ।।
गायत्रीदेहरूपाय सावित्रीदयिताय च ।।
धराधराय सूर्याय मार्तंडाय नमोनमः ।। ३९ ।।
सुमंतुरुवाच ।।
एवं हि कुर्वतः शांतिमरुणस्य महीपते ।।
श्रेयसे वैनतेयस्य गरुडस्य महात्मनः ।। 1.180.४० ।।
एतस्मिन्नेव काले तु सुपर्णः पत्रवानभूत् ।।
तेजसा बुधसंकाशो वलेन हरिणा समः ।। ४१ ।।
संपूर्णावयवो राजन्यथापूर्वं तथाभवत् ।।
प्रसादाद्देवदेवस्य भास्करस्य महात्मनः ।। ४२ ।।
एवमन्येऽपि राजेंद्र मानवा ये च रोगिणः ।।
अस्मित्कृतेऽग्निकार्ये तु विरुजास्ते भवंति हि ।।
तस्माद्यत्नेन कर्तव्यमग्निकार्यं विधानतः ।। ४३ ।।
करणीयं च राजेंद्र मानवैश्च प्ररोगिभिः ।।
अस्मिन्कृते अग्निकाये विरुजास्ते भवंति हि।। ४४ ।।
ग्रहो पघाते दुर्भिक्ष उत्पातेषु च कृत्स्नशः ।।
अवर्षमाणे पर्जन्ये लक्षहोमसमन्वितः ।। ४५ ।।
पूजयित्वा प्रसूक्तं तु ध्यात्वा वीरं प्रयत्नतः ।।
वारुणैश्च तथा सूक्तैर्होमं कुर्याद्विचक्षणः ।। ४६ ।।
चेतसा सुप्रसन्नेन सर्पिषा मधुना सह ।।
तिलैर्यवैश्च सहितैः पायसं मधुना तथा ।। ४७ ।।
इदं च शांतिकं कुर्याद्बलिं दयात्प्रयत्नतः ।।
एवं कृते श्रियं देवा वर्षंते कामना नृणाम् ।। ४८ ।।
इत्येवं शांतिकाध्यायं यः पठेच्छृणुयादपि ।।
विधिना सर्वलोकस्तु ध्यायमानो दिवाकरम्।। ४९ ।।
स विजित्य रणे शत्रुं मानं च परमं लभेत् ।।
अक्षयं मोदते कालमतिरस्कृतशासनः ।। 1.180.५० ।।
व्याधिभिर्नाभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः ।।
भवेदादित्यसदृशस्तेजसा प्रभया तथा ।। ५१ ।।
यानुद्दिश्य पठेद्वीर वाचको मानवो भुवि।।
न पीड्यते च तै रोगैर्वातपित्तकफात्मकैः ।। ५२ ।।
नाकाले मरणं तस्य न सर्पैश्चापि दश्यते ।।
न विषं क्रमते देहे न जडांध्यं न मूकता ।। ५३ ।।
न चोत्पत्ति भयं तस्य नाभिचारकजं भवेत् ।।
ये रोगा ये महोत्पाता येऽहयश्च महाविषाः ।।
ते सर्वे प्रशमं यांति श्रवणादस्य भारत।।।५४ ।।
यत्पुण्यं सर्व तीर्थानां गंगादीनां विशेषतः ।।
तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिभिः ।। ५५ ।।
दशानां राजसूयानामन्येषां च विशेषतः ।।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ।। ५६ ।।
गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः ।।
शरणागतदीनार्तमित्रविश्रभघातकः ।। ५७ ।।।
दुष्टः पापसमाचारः पितृहा मातृहा तथा ।।
श्रवणादस्य पापेभ्यो मुच्यते नात्र संशयः ।। ५८ ।।
इतिहासमिमं पुण्यमग्निकार्यमनुत्तमम् ।।
न दद्यात्कस्यचिद्वीर मूर्खस्य कलुषात्मनः ।। ५९ ।।
सूर्यभक्ते सदा देयं सूर्येण कथितं पुरा ।।
अरुणस्य महाबाहो गरुडस्यारुणेन च ।। 1.180.६० ।।
गरुडेन पुरा प्रोक्तं भोजकानां महात्मनाम् ।।
सूर्यशर्मसुखादीनां शाकद्वीपे महीपते ।। ६१ ।।
तैश्चापि कथितं पुण्यं मुनेर्व्यासस्य धीमतः ।।
तेनापि कथितं पुण्यं सर्वपापभयापहम् ।। ६२ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गरुडारुणसंवादे शांतिकं वर्णनं नामाशीत्युत्तरशततमोऽध्यायः ।। १८० ।।