भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८२

विवाहविधिवर्णनम्

।। ।। आदित्य उवाच ।। ।।
उक्तं धर्मस्य रूपं तु साधिकारं सनातनम् ।।
अतः परं प्रवक्ष्यामि धर्ममाश्रमिणां खग ।। १ ।।
ब्रह्मचारी गृहस्थश्च वनस्थो भिक्षुरेव च ।।
चत्वार आश्रमाः प्रोक्ता एक एव चतुर्विधः ।। २ ।।
गायत्रो ब्रह्मचारी तु प्राजापत्यो द्वितीयकः ।।
देवव्रतस्तृतीयस्तु नैष्ठिकस्तु चतुर्थकः ।। ३ ।।
चत्वार आश्रमाः प्रोक्ताः सवेदाः समधर्मकाः ।।
अतः परं प्रवक्ष्यामि संस्कारं धर्मसिद्धये ।। ४ ।।
गर्भाधानमृतौ कार्यं हृष्टयोस्तु समन्त्रकम् ।।
कार्यं पुंसवनं मातुस्तृतीये मासि संयुतैः ।। ५ ।।
सीमन्तः सप्तमे गर्भे षष्ठे वा सप्तमेऽपि वा ।।
पात्रसंस्कारका इष्टा गर्भाधानादयस्त्रयः ।। ६ ।।
जातकर्मादयः सर्वे संस्काराः पुरुषस्य तु ।।
जातस्य प्राशनं यत्र स्वर्णा दीनां समन्त्रकम् ।। ७ ।।
जातकर्मेति तत्प्रोक्तं गुह्यं नाम तदैव तु ।।
प्रकाशो नाम कर्तव्यं दिने त्वेकादशेर्थवत् ।। ८ ।।
धर्मशास्त्रादिसंयुक्तं षष्ठेऽन्नप्राशनं खग ।।
प्रथमेऽब्दे तृतीये वा चूडाकर्म विधीयते ।। ९ ।।
अष्टमे दशमे वापि ब्राह्मणस्योपनायनम् ।।
पुरुषस्य तथा चान्यजातीयानां विशेषतः ।। 1.182.१० ।।
एकादशे द्वादशे वा कार्य क्षत्रियवैश्ययोः ।।
वेदसंस्कारकं वच्मि मन्यन्ते त्वौपनायनम् ।। ११ ।।
पुरुषस्य तथा चान्य उभयोश्च ब्रवीम्यहम् ।।
सावित्रं वैदिकं चैव महानाम्नीमहाव्रतम् ।। १२ ।।
तथौपनिषदं चाब्दं गोदानं च सुवर्णकम् ।।
व्रतानि ग्रहणार्थानि वेदस्येति मनोर्मतम् ।। १३ ।।
वेदैकदेशपाठस्य उक्तं गृह्ये प्रपञ्चकम् ।।
उक्ता गुरोस्तु शुश्रूषा दृष्टादृष्टार्थसाधनम् ।। १४ ।।
उभयोर्वा तथा चान्या यथान्यायं यथाश्रुतम् ।।
गुरोरप्येव तं विद्यात्तद्ध्यानं त्रिविधं स्मृतम् ।। १५ ।।
तोषः परस्परस्येति एतावान्धर्मसंग्रहः ।।
कृत्स्नो वेदोऽधिगंतव्यः स्वधर्ममनुतिष्ठता ।। १६ ।।
ज्ञात्वा वेदं ब्रह्मचारी ग्रंथार्थान्यान्यथाविधि ।।
नैष्ठिकश्च विधानं तु यावत्क्लीबं विधीयते ।।
विद्यान्तेऽभीष्टदानं च अनुज्ञातो गृही भवेत् ।। १७ ।।
निष्कासनं गुरुगृहाद्गृहस्थस्य यथाभवेत् ।।
नैष्ठिकश्च तथा स्नानं कुर्यात्सम्यग्यथाविधि ।। १८ ।।
उद्वहेद्वै ततो भार्यां सवर्णां लक्षणान्विताम् ।।
अविप्लुतब्रह्मचर्यश्चाधिकारी खगोत्तम ।। १९ ।।
स्वतन्त्रमन्ये चेच्छन्ति ह्यधिकारं द्विजोत्तमाः ।।
सप्तमीं पञ्चमीं चैव कन्यकां पितृमातृतः ।। 1.182.२० ।।
उद्वहेत द्विजो भार्यामसमानार्षगोत्रजाम् ।।
संख्याविधिविवाहेषु गोत्रार्थं विधिवर्जितम् ।। २१ ।।।
विकल्पेनैव मन्तव्यमृषीणां विविधा श्रुतिः ।।
अष्टौ विवाहा वर्णानां संस्काराख्या इति श्रुतिः ।। २२ ।।
यस्तु दोषवतीं कन्यामनाख्याय प्रय च्छति ।।
तस्य कुर्यान्नृपो दंडं स्वयं षण्णवतिं पणान् ।।२३।।
पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता ।।
पतंति पितरस्तस्य कन्या च वृषली भवेत् ।। २४ ।।
यस्तु तां वरयेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः ।।
अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिम् ।। २५ ।।
सर्वदोषान्हि विख्याप्य स्त्रिया वा पुरुषस्य वा ।।
उभयोरपि विख्याप्य ततः संबन्धमाचरेत् ।। २६ ।।
गौरी कन्या प्रधाना वै मध्यमा कन्यका स्मृता ।।
रोहिणी तत्समा ज्ञेया अधमा तु रजस्वला ।। २७ ।।
।। अनूरुरुवाच ।। ।।
गौरी तु का मता कन्या रोहिणी च जगत्पते ।।
रजस्वला नग्निका च देवकन्या च का भवेत् ।। २८ ।।
।। भास्कर उवाच ।। ।।
असंप्राप्तरजा गौरी प्राप्ते रजसि रोहिणी ।।
अव्यञ्जनयुता कन्या कुचहीना च नग्निका ।। २९ ।।
सप्तवर्षा भवेद्गौरी दशवर्षा तु नग्निका ।।
द्वादशे तु भवेत्कन्या अत ऊर्ध्वं रजस्वला ।। 1.182.३० ।।
व्यञ्जनेन समोपेतां सोमो भुङ्क्ते हि कन्यकाम् ।। तु. - ऋग्वेद १०.८५.४०
पयोधरेषु गंधर्वा रजस्यग्निः प्रकीर्तितः ।। ३१ ।।
हिनस्ति व्यञ्जनैः पुत्रान्कुलं हन्यात्पयोधरैः ।।
गतिमिष्टां तथा लोकान्हन्यात्तु रजसा पितुः ।। ३२ ।।
तस्मादव्यञ्जनोपेतामरजस्कपयोधराम् ।।
नान्योपभुक्तां सोमाद्यैर्दद्याद्दुहितरं पिता ।। ३३ ।।
अन्नं तस्य न भोक्तव्यं वृथा पाको हि स स्मृतः ।।
वृथा पाकस्य भुक्त्वान्नं प्रायश्चित्तं समाचरेत् ।।३४।।
प्राणायामं त्रिरभ्यस्य घृतं प्राश्य विशुद्ध्यति ।।
विवाहयेदेकगोत्रां समानप्रवरां खग ।।
कृत्वा तस्यां समुत्सर्गमतिकृच्छ्रो विशोधनम् ।। ३५ ।।
उद्वाहयेत्सगोत्रां च तनयां मातुलस्य च ।।
ऋषिभिश्चैव तुल्यो यो द्विजश्चांद्रायणं चरेत् ।। ३६ ।।
असपिण्डा तु या मातुरसगोत्रा च या पितुः ।।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ।। ३७ ।। ।।
।। अरुण उवाच ।। ।।
दारकर्म किमुक्तं वै यदुक्तं भवता इदम् ।।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ।। ३८ ।।
।। आदित्य उवाच ।। ।।
अग्निहोत्रादि यत्कर्म वैदिकं विनतात्मज ।।
तदुक्तं दारकर्मेति द्वाभ्यां योगात्तु मैथुने ।।३९।।
नोद्वहेत्कपिलां कन्यां नाधिकांगीं न रोगिणीम् ।।
नालोमिकां नातिलोमां न चाकूटां न पिङ्गलाम् ।।1.182.४०।।
ऋक्षवृक्षनदीनाम्नीं नान्यपर्वतनामिकाम् ।।
न यक्षाहिप्रेष्यनाम्नीं चातिभीषणनामिकाम्।।४१।।
यस्यास्तु न भवेद्भ्राता न विज्ञायेत वै पिता ।।
नोपगच्छेद्धि तां प्राज्ञः पुत्रिकाधर्मशंकया ।।४२।।
हंसस्वरामेकवर्णां मधुपिंगललोचनाम् ।।
तादृशीं वरयेत्कन्यां गृहार्थी खगसत्तम ।। ४३ ।।
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ।।४४ ।।
परिवित्तिः परिवेत्ता च यया स परिविद्यते ।।
सर्वे ते नरकं यांति दातृयाजकपंचमाः ।। ४५ ।।
क्लीबे देशांतरस्थे वा पतिते व्रजिते तथा ।।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ।।४६।।
खंजवामनकुब्जेषु गद्गदेषु जडेषु च ।।
जात्यंधे बधिरे मूके न दोषः परिवेदने ।। ४७ ।।
न श्राद्धं तु कनिष्ठस्य विकुलाय च कन्यका ।।
वरश्च कुलशीलाभ्यां न शुद्ध्येत कदाचन ।।
न मंत्राः कारणं तत्र न च कन्या वृता भवेत् ।। ४८ ।।
उद्वाहिता तु याकन्या न च प्राप्ता तु मैथुनम् ।।
पुनरभ्येति भर्तारं यथा कन्या तथैव सा ।। ४९ ।।
समाक्षिप्य मतां कन्यां पिता त्वक्षतयोनिकाम् ।।
कुलशीलवते दद्यान्न स्याद्दोषः खगाधिप ।। 1.182.५० ।।
।। अनूरुरुवाच ।। ।।
एतेऽष्टौ प्रभवाः प्रोक्ता विवाहा ये जगत्पते ।।
लक्षणं ब्रूहि चैतेषां समासात्तिमिरापह ।। ५१ ।।
।। आदित्य उवाच ।। ।।
शुभां लक्षणसंपन्नां कुलशीलगुणान्विताम् ।।
अलंकृत्यार्हते दानं विवाहो ब्राह्म उच्यते ।। ५२ ।।
सह धर्मक्रियाहेतोर्दानं समयबंधनात् ।।
अलंकृत्यैव कन्यायाः प्राजापत्यः स उच्यते ।। ५३ ।।
प्रदानं यत्र कन्यायाः सहगोमिथुनेन तु ।।
सवर्णायाः सगोत्रायास्तमार्षमृषयो विदुः।। ५४ ।।
अंतर्वेद्यां समानीय कन्यां कनकमंडिताम् ।।
ऋत्विजे चैव यद्दानं विवाहो दैवसंज्ञकः ।। ५५ ।।
एते विवाहाश्चत्वारो धर्मकामार्थदायकाः ।।
अशुल्का ब्रह्मणा प्रोक्तास्तारयंति कुलद्वयम् ।। ५६ ।।
चतुर्ष्वेतेषु दत्तायामुत्पन्नो यः सुतः स्त्रियाम् ।।
दातुः प्रतिग्रहीतुश्च पुनात्यासप्तमान्पितॄन् ।। ५७ ।।
विविक्ते स्वयमन्योऽन्यं स्त्रीपुंसोर्यः समागमः ।।
प्रीतिहेतुः स गांधर्वो विवाहः पंचमो मतः ।।५८।।
हत्वा च्छित्त्वा च भित्त्वा च क्रोशंतीं रुदतीं गृहात्।।
प्रसह्य कन्याहरणं राक्षसोद्वाह उच्यते।।५९।।
शुल्कं प्रदाय कन्याया हरणं व्यसनादपि।।
प्रसाद हेतुरुक्तोयमासुरः सप्तमस्तथा ।। 1.182.६० ।।
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।।
स पापिष्ठो विवाहानां पैशाचश्चाष्टमोधमः ।। ६१ ।।
एतान्सशुल्कान्सामान्यान्विवाहांश्चतुरो विदुः ।।
केवलं क्षत्रियस्यैव वीर्यं छित्त्वा हि राक्षसः ।। ६२ ।।
प्राप्ते पूर्वविवाहे तु विधिर्वैवाहिकः शिवः ।।
कर्तव्यस्तु त्रिभिर्वर्णैः समयेनाग्निसाक्षिकः ।। ६३ ।।
दोषवत्याः प्रदाने तु दातुः षण्णवतिर्दमः ।।
स्यात्तु शुल्कप्रदाने च कन्यायाश्चापवर्जने ।।६४।।
मोक्षोपवर्तनं द्वेषः स्त्रीधनस्य निवर्तनम् ।।
आकांक्षा तीर्थसंरोधस्त्यागहेतुश्च वक्ष्यते ।। ६५ ।।
परस्परस्य संबंधान्मोक्षः स्त्रीपुंसयोः स्मृतः ।।
न स्यादन्यतरः प्रीतो रोषात्सांप्रतिकादपि ।। ६६ ।।
बाधते चेत्पतिर्भार्यां स तु द्वेष इति स्मृतः ।।
वृत्तिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत्।।६७।।
भोक्तृस्तु स्वयमेवेदं प्रतिज्ञाहननं भवेत् ।।
वृथा मोक्षेण भोगेन स्त्रियै दद्यात्सवृद्धिकम् ।।६८।।
आपत्तिसमये जाते स्त्रीधनं भोक्तुमर्हति ।।
आकांक्षेताष्टवर्षाणि भर्तापि प्रसवं स्त्रियाः ।। ६९ ।।
जायन्ते यदि नो पुत्रास्तस्यां यत्ने महत्यपि ।।
ततो विंदेत पुत्रार्थी धर्मतः कुलजां स्त्रियम्।। 1.182.७० ।।
पुत्रलाभात्परं लोके नास्ति हि प्रसवार्थिनः ।।
एतां शुल्कस्य तां भुक्त्वा अन्यां लब्धुं यदीच्छति ।।
समस्तास्तोषयित्वार्थैः सूर्योढां परमां वरेत्।।७१।।
एका शूद्रस्य वैश्यस्य द्वे तिस्रः क्षत्रियस्य तु।।
चतस्रो ब्राह्मणस्य स्युर्भार्या राज्ञो यथेष्टतः ।। ७२ ।।
अतीर्थगमनात्पुंसस्तीर्थे संगाहनात्स्त्रियाः ।।
उभयोर्धर्मलोपः स्यात्स्वेष्वेव तु विशेषतः ।। ७३ ।।
यौगपद्ये तु तीर्थानां विवाहक्रमशो व्रजेत् ।।
तत्साम्यं जीवपुत्रा वा ग्रहणक्रमशोपि वा।।७४।।
ब्राह्मादिभिर्विवाहैस्तु संस्कृतौ तौ खगाधिप ।।
अष्टौ विवाहा वर्णानां वैनतेय उशंति वै ।। ७५।।
ब्राह्मो दैवस्तथार्षश्च प्राजापत्यः खगा धिप ।।
गांधर्वश्चासुरो रक्षः पैशाचस्त्वष्टमोऽधमः ।। ७६ ।।
प्रशस्ताः क्षत्रियादीनां विप्रादीनां तु मानतः ।।
प्रतिग्रहादयो बद्धा विवाहा ब्राह्मणस्य तु ।।७७।।
क्षत्रियस्यापि देया तु प्रतिग्रहविवर्जिता ।।
प्रवृत्तिं केचिदिच्छंति दानमित्यपरे स्त्रियाः ।।
पावनं पुरुषाणां तु विवाहं परिचक्षते ।।७८।।

इति श्रीभविष्ये महापुराणे सप्तमीकल्पे ब्राह्मे पर्वणि सूर्यारुणसंवादे विवाहविधिवर्णनं नाम द्व्यशीत्युत्तरशततमोऽध्यायः ।। १८२ ।।