भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८३

श्राद्धविधिकथावर्णनम्

भास्कर उवाच।।
कुर्यात्पंचमहायज्ञानधिकारो द्विजस्य सः।।
भूतपित्रमरब्रह्ममनुष्याणां यथाविधि।।१।।
सदा सदान कृत्यानां फलार्थमपरे स्थिताः।।
नित्यानित्य मिति प्राहुरनुषंगात्फलं परे ।।२।।
अतिथेः परितोषाय परिचर्या विधीयते ।।
अदृष्टनियमादृष्टमारोग्यान्तं च वर्जनम् ।।३।।
तिस्रोष्टकास्तु कर्तव्या मध्यावर्ती चतुर्थिका।।
शाकपायसपूपैस्तु मांसेन तु चतुर्थिका।।४।।
प्रतिपदि क्रियते यत्तु चतुष्पार्वणमुच्यते ।।
स्वगृह्योक्तविधानेन तत्तु पक्षादि कीर्त्यते।।५।।
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिंडनम्।।
पार्वणं चेति विज्ञेयं गोष्ठशुद्ध्यर्थमुत्तमम्।।
कर्मांगं नवमं प्रोक्तं वैदिकं दशमं स्मृतम् ।।६।। ।।
।। अनूरुरुवाच ।। ।।
यदेतद्भवता प्रोक्तं श्राद्धं द्वादशधा विभो ।।
तस्य सर्वस्य मा ब्रूहि लक्षणं वै पृथक्पृथक् ।। ७ ।।
नित्यं किमुच्यते श्राद्धं किं वा नैमित्तिकं भवेत् ।।
काम्यादि देवदेवेश एतेषां लक्षणं वद ।। ८ ।।
।। आदित्य उवाच ।। ।।
अहन्यहनि यच्छ्राद्धं तन्नित्यं खग कीर्तितम् ।।
वैश्वदेवविहीनं तु अशक्तावुदकेन तु ।। ९ ।।
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ।।
तत्सदैव प्रकर्तव्यमयुग्मान्भोजयेद्द्विजान् ।। 1.183.१० ।।
कामयुक्तं हि तत्काम्यमभिप्रेतार्थसिद्धये ।।
पार्वणेन विधानेन तदप्युक्तं खगाधिप ।। ११ ।।
वृद्धौ यत्क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते ।।
सर्वं प्रदक्षिणं कार्यं पूर्वाह्णे तूपवीतिना ।।१२।।
गंधोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्।।
अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रमोचयेत् ।।१३।।
ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिंडनम् ।।
नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि।।१४।।
दर्शे वै क्रियते यत्तु तत्पार्वणमुदाहृतम् ।।
पर्वणि क्रियते यच्च तत्पार्वणमिति स्थितिः ।।
गोभ्यश्च क्रियते श्राद्धं तद्गोष्ठश्राद्धमुच्यते ।। १५ ।।
बहूनां विदुषां संपत्सुखार्थं पितृतृप्तये ।।
क्रियते शुद्धये यद्वै ब्राह्मणानां च भोजनम् ।।
शुद्यर्थमिति तत्प्रोक्तं वैनतेय मनीषिभिः ।। १६ ।।
निषेककाले सोमे च सीमतोन्नयने तथा ।।
ज्ञेयं पुंसवनं श्राद्धं तच्च कर्मांगमेव च ।। ।। १७ ।।
क्रियते देवमुद्दिश्य सप्तम्यादिषु यत्नतः ।।
गच्छेद्देशांतरे यस्तु श्राद्धं कुर्यात्तु सर्पिषा ।।
तद्यत्नार्थमिति प्रोक्तं प्रदिशेच्च न संशयः ।।१८।।
शरीरोपचये श्राद्धमश्ववृद्ध्यर्थमेव च ।।
पुष्ट्यर्थमेतद्विज्ञेयमौपचारिकमुच्यते ।। १९ ।।
सर्वेषामेव श्राद्धानां श्रेष्ठं सांवत्सरं मतम् ।।
कियते यत्खगश्रेष्ठ मृतेहनि बुधैः सह ।। 1.183.२० ।।
मृतेऽहनि पुनर्यस्तु न कुर्याच्छ्राद्धमादरात् ।।
मातुश्च खगशार्दूल वत्सरांते मृतेऽहनि ।। २१ ।।
नाहं तस्य खगश्रेष्ठ पूजां गृह्णामि नो हरिः ।।
न ब्रह्मा न च वै रुद्रो न चान्ये देवतागणाः ।। २२ ।।
तस्माद्यत्नेन कर्तव्यं वर्षेवर्षे मृतेऽहनि ।।
नरेण खगशार्दूल भोजकेन विशेषतः ।। २३ ।।
भोजको यस्तु वै श्राद्धं न करोति खगाधिप ।।
मातापितृभ्यां सततं वर्षेवर्षे मृतेऽहनि ।।।२७।
स याति नरकं घोरं तामिस्रं नाम नामतः ।।
ततो भवति दुष्टात्मा नगरे सूकरः खग ।। २५ ।।
अनूरुरुवाच ।। ।।
न जानाति दिनं यस्तु न मासं विबुधाधिप ।।
मृतौ यत्र महाप्राज्ञ पितरौ स कथं नरः ।।
श्राद्धं करोतु वै ताभ्यां विधिवद्वत्सरात्मकम् ।। २६ ।।
।। आदित्य उवाच ।। ।।
न जानाति नरो यस्तु मृतानां विनतात्मज ।।
मासं दिनं मृतानां तु पितॄणां खगसत्तम ।। २७ ।।
यथा कुर्यात्खगश्रेष्ठ शृणु कृत्स्नं समासतः ।।
मृताहं यो न जानाति मानवो विनतात्मज ।। २८ ।।
तेन कार्यममायां च श्राद्धं सांवत्सरं खग ।।
मासे मार्गशिरे वीर माघे वा विधिवत्खग ।। ।। २९ ।।
विशेषतो भोजनेन यो मां पूज्यते सदा ।।
प्रीतये मम वै तेन संपूज्याः पितरः सदा ।। 1.183.३० ।।
ममेष्टाः पितरो नित्यं गावो विप्राश्च सुव्रत ।।
तस्माच्च ते सदा पूज्या मद्भक्तेन विशेषतः ।। ३१ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे श्राद्धविधिकथनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः ।।१८३।। ।।