भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८४

ब्राह्मणधर्मविधिवर्णनम्

प्रख्याते प्रत्ययेनैव प्रश्नपूर्वं प्रतिग्रहः ।।
यजनेऽध्यापने वादे षड्विधो वेदविक्रयः ।। १ ।।
वेद विक्रयनिर्दिष्टं स्त्रिया चावर्जितं धनम् ।।
न देयं पितृदेवेभ्यो यच्च क्लीबात्खगाधिप ।। २ ।।
अनुयोगेन यो दद्याद्ब्राह्मणाय प्रतिग्रहम् ।।
स पूर्वं नरकं याति ब्राह्मणास्तदनंतरम् ।। ३ ।।
वेदाक्षराणि यावंति नियुज्यन्तेर्थकारणात् ।।
तावत्यो भ्रूणहत्या वै वेदविक्रयमाप्नुयात् ।। ४ ।।
वैश्वदेवेन यो हीन आदित्यस्य च कर्मणः ।।
सर्वे ते वृषला ज्ञेयाः प्राप्तवेदाश्च ब्राह्मणाः ।।५।।
येषामध्ययनं नास्ति ये च केचिदनग्नयः।।
कुलं वाऽश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ।। ६ ।।
अकृत्वा वैश्वदेवं तु यो भुङ्क्ते सोऽबुधः खग ।।
वृथा तेनान्नपाकेन यमयोनिं व्रजेत्तु सः ।। ७ ।।
प्रियो वा यदि वा द्वेष्यो मूर्खः पंडित एव च ।।
वैश्वदेवे तु संप्राप्ते सोऽतिथिः स्वर्गसंक्रमः ।। ८ ।।
नैकग्रामीणमतिथिं विप्रसांगतिकं तथा ।।
अचिंत्योभ्यागतो यस्मात्तस्मादतिथिरुच्यते ।। ९ ।।
अचिंत्यः स तु वै नाम्ना वैश्वदेव उपागतः ।।
अतिथिं तं विजानीयान्न पुनः पूर्वमागतः ।। 1.184.१० ।।
यावच्च प्राप्नुयादन्नं कृताशीः स्नातको द्विजः ।।
तस्यान्नस्य चतुर्भागं हंतकारं विदुः खग।।११।।
ग्रासमात्रा भवेद्भिक्षा चतुष्कालं चतुर्गुणम् ।।
पुष्कलानि च चत्वारि हंतकारो विधीयते ।। १२ ।।
आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः ।।
चांद्रायणं चरेन्मासमिति विद्धि खगाधिप ।। १३ ।।
आरूढपतितापत्या ब्राह्मणो वृषलेन च ।।
द्वावेतौ विद्धि चांडालौ वेदित्राद्यश्च जायते ।। १४ ।।
ब्राह्मणी कुलटा नित्यं स्वकं त्यक्त्वा पतिं खग ।।
अन्यस्य विशते गेहे ब्राह्मणस्य खगाधिप।।१५।।
उत्पद्यते तु यस्तस्या ब्राह्मणेन महामते ।।
स चांडालो महान्प्रोक्तो महाचांडाल इत्युत।।१६।।
यस्तु प्रव्रजितो भूत्वा पुनः सेवति मैथुनम्।।
षष्टिवर्षसहस्राणि विष्ठायां जायते क्रिमिः ।।
पंचगव्येन शुद्धिः स्यादित्याह मम देहकृत्।।१७।।
अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमंत्रितम् ।।
तथैव वृषलस्यान्नं ब्राह्मणेन निमंत्रितम् ।।१८।।
ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् ।।
उभावेतावभोज्यान्नौ भुक्त्वा चांद्रायणं चरेत् ।।१९।।
उपनिक्षेपधर्मेण शूद्रान्नं च पचेद्द्विजः ।।
अभोज्यं तद्भवेदन्नं स च विप्रः पुरोहितः ।।1.184.२०।।
शूद्रान्नं शूद्रसंपर्कं शूद्रेण सह वासनम् ।।
शूद्राज्ज्ञानागमः कश्चिज्वलंतमपि पातयेत् ।।२१।।
शूद्रान्नोपहता विप्रा विह्वला रतिलालसाः ।।
कुपिताः किं करिष्यंति निर्विषा इव पन्नगाः ।। २२ ।।
हस्तदत्तास्तु ये स्नेहाल्लवणव्यंजनादयः ।।
दातारं नाधितिष्ठंति भोक्ता भुंक्ते तु किल्बिषम् ।। २३ ।।
आयसेन तु पात्रेण यदन्नमुपदीयते ।।
भोक्ता विष्ठाशनं भुंक्ते दाता तु नरकं व्रजेत् ।। २४ ।।
अंगुल्या दंतकाष्ठं यत्प्रत्यक्षलवणं च यत् ।।
मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणैः ।। २५ ।।
मुखे पर्युषिते नित्यं भवत्यप्रयतो द्विजः ।।
तस्माच्छुष्कमथार्द्रं वा भक्षयेद्दंतधावनम् ।। २६ ।।
पुष्पालंकारवस्त्राणि गंध माल्यानुलेपनम्।।
उपवासे न दुष्यंति दंतधावनमंजनम् ।।२७।।
गृहांते वसते मूर्खो दूरे चास्य गुणान्वितः ।।
गुणन्विते च दातव्यं नास्ति मूर्खव्य तिक्रमः ।। २८ ।।
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ।।
ज्वलंतमग्निमुत्सृज्य न हि भस्मनि हूयते ।। २९ ।।
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत्।।
भोजनेनैव दानेन दहत्यासप्तमं कुलम् ।। 1.184.३० ।।
।। अनूरुरुवाच ।। ।।
एवमेव जगन्नाथ देवदेव जगत्पते ।।
किं तु यत्ते पुरा देव श्रुतं वाक्यं महात्मनः ।। ३१ ।।
गदतो नारदस्यैव शृणु त्वं विबुधाधिप ।।
गदतो मे सुरश्रेष्ठ धर्म्यमर्थं सुखावहम् ।। ३२ ।।
सत्यनिष्ठं द्विजं यस्तु शुक्लजातिं प्रियंवदम् ।।
मूर्खं पाखंडिनं वापि वृत्तिहीनमथापि वा ।। ३३ ।।
अतिक्रम्य नरो घोरं नरकं पातयेत्खग।।
सप्त परान्सप्त पूर्वान्पुरुषानात्मना सह ।। ३४ ।।
तस्मान्नातिक्रमेद्राजा ब्राह्मणं प्रातिवेशिकम् ।।
संबन्धतस्तथासन्नं दौहित्रं विद्यते तथा ।। ३५ ।।
भागिनेयं विशेषेण तथा बंधुं ग्रहाधिप ।।
नातिक्रमेन्नरस्त्वेतान्सुमूर्खानपि गोपते ।।
अतिक्रम्य महद्रौद्रं रौरवं नरकं व्रजेत् ।। ३६ ।।
।। आदित्य उवाच ।। ।।
एवमेतन्न संदेहो यथा वदसि खेचर ।।
ममाप्यवगतं वीर ब्राह्मणं न परीक्षयेत् ।। ३७ ।।
सर्वदेवमयं विप्रं सर्वलोकमयं तथा ।।
तस्मात्संपूजयेदेनं न गुणांस्तस्य चिंतयेत् ।। ३८ ।।
केवलं चिंतयेज्जातिं न गुणान्विनतात्मज ।।
तस्मादामंत्रयेत्पूर्वमासन्नं ब्राह्मणं बुधः ।। ३९ ।।
यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते ।।
दूरस्थान्पूजयेन्मूढो गुणाढ्यान्नरकं व्रजेत् ।। 1.184.४० ।।
देवकर्मविनाशेन ब्रह्मस्वहरणेन च ।।
देवद्रव्यं द्विजान्नं च ब्रह्मस्वं ब्राह्मणार्जितम् ।।
वियोन्यां क्षिपते यस्तु वियोनिमधिगच्छति ।। ४१ ।।
मा ददस्वेति यो ब्रूयाद्गवाग्निब्राह्मणेषु वै ।।
तिर्यग्योनिशतं गत्वा चांडा लेष्वभिजायते ।। ४२ ।।
यत्तु वाचा प्रतिज्ञातं कर्मणा नोपपादितम् ।।
तदृणं धर्मसंयुक्तमिह लोके परत्र च ।। ४३ ।।
वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते ।।
क्रीडंत्योषधयः सर्वा यास्यामः परमां गतिम् ।। ४४ ।।
मधु मांसं सुरां सोमं लाक्षाद्यं लवणं तथा ।।
विक्रीयान्यतमं तेषां द्विजश्चांद्रायणं चरेत् ।। ४५ ।।
गुडं तिलं तथा नीलं केशान्गोधूमकान्यवान् ।।
विक्रीय ब्राह्मणो गां च कृच्छ्रं सांतपनं चरेत् ।। ४६ ।।
औष्ट्रमाविकदुग्धं च अन्नं मृतकसूतके ।।
चौरस्यान्नं मृतश्राद्धे भुक्त्वा चांद्रायणं चरेत् ।। ४७ ।।
गवां शृंगोदके स्नातो महानद्याश्च संगमे ।।
समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत् ।। ४८ ।।
वेदविद्याव्रतस्नातः शुना दष्टो द्विजः खग ।।
हिरण्योदकमिश्रं तु घृतं प्राश्य विशुद्ध्यति ।। ४९ ।।
तिष्ठन्वाप्यथ वा गच्छञ्छुना दष्टो द्विजः खग ।।
वज्रं प्राश्य शुचिः स्याद्वै यथाह भगवान्मनुः ।। 1.184.५० ।।
व्रतिनश्चापि दष्टस्य त्रिरात्रं क्षपणं स्मृतम् ।।
सघृतं च ततो भुक्त्वा व्रतशेषं समाचरेत् ।। ५१ ।।
ब्राह्मणी तु शुना दष्टा सोमे दृष्टं समाचरेत् ।।
यदा न दृश्यते सोमः प्रायश्चित्तं कथं भवेत् ।। ५२ ।।
यां दिशं व्रजते सोमस्तां दिशं चावलोकयेत् ।।
सोममार्गेण सा पूर्वा पञ्चपूतेन शुध्यति ।। ५३। ।।
ब्राह्मणस्य ब्रह्मद्वारे पूय शोणितसंभवे ।।
क्रिमिभिर्दश्यते यश्च निष्कृतिं तस्य वच्मि ते ।। ५४ ।।
गवां तत्र पुरीषेण त्रिकालं स्नानमाचरेत् ।।
दधि क्षीरं घृतं पीत्वा कृमिदष्टो विशुध्यति ।। ५५ ।।
अथ नाभ्याः प्रदष्टस्य आपादाद्विनतात्मज ।।
एतद्विनिर्दिशेत्प्राज्ञः प्रायश्चित्तं खगाधिप ।। ५६ ।।
नाभिकण्ठांतरे वीर यदा चोत्पद्यते कृमिः ।।
षड्रात्रं तु तदा प्रोक्तं प्रायश्चित्तं मनीषिभिः ।। ५७ ।।
यदा दशंति शिरसि कृमयो विनतात्मज ।।
कृच्छ्रं तदा चरेत्प्राज्ञः शुद्धये कश्यपात्मज ।। ५८ ।।
मृतान्नं मधु मांसं च यस्तु भुञ्जीत ब्राह्मणः ।।
स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ।। ५९ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पेऽनूर्वादित्यसंवादे ब्राह्मणधर्मवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः ।। १८४ ।।