मातृश्राद्धविधिवर्णनम्

।। ।। आदित्य उवाच ।। ।।
रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।।
सन्ध्ययोरुभयोर्वीर सूर्ये चैव तिरोहिते ।।१।।
अकृत्वा मातृयज्ञं तु यः श्राद्धं परिवेषयेत् ।।
तातस्य क्रोधसंयुक्तां हिंसामिच्छंति दारुणाम् ।।२।।
।। अनूरुरुवाच ।। ।।
मातृश्राद्धं कथं कार्यं काश्च ता मातरः स्मृताः।।
नांदीमुखाश्च पितरः कथं पूजामवाप्नुयुः ।। ३ ।।
।। आदित्य उवाच ।। ।।
हन्त ते सम्प्रवक्ष्यामि मातृश्राद्धविधिं खग ।।
शृणु त्वं खगशार्दूल गदतो मम कृत्स्नशः ।।४।।
पूर्वाह्णे भोजयेद्विप्रानष्टौ सर्वान्प्रदक्षिणान् ।।
तथान्यं नवमं विप्रं चतुरश्च खगाधिप ।। ५ ।।
ऋजून्वै कृतपान्दत्त्वा सत्येन विधिवत्खग ।।
कृत्वा यवैस्तिलार्थं तु दधिमिश्रं क्रमेण च ।।६।।
गन्धपुष्पादिकं सर्वं कुर्याद्विप्रप्रदक्षिणम् ।।
ब्राह्मणेभ्यस्ततो दद्यान्मधुरं भोजनं खग ।। ७ ।।
गुडमिश्रं खगश्रेष्ठ सवस्त्रमोदनं परम् ।।
रसानां मोदकांश्चैव न च तान्कटुकांस्तथा ।। ८ ।।
एवं भुक्तेषु विप्रेषु दद्यात्पिंडा न्समाहितः ।।
 दध्यक्षतविमिश्रांस्तु बदरैश्च खगाधिप ।। ९ ।।
कृत्वा तु मंडपं वीर चतुरस्रं प्रदक्षिणम् ।।
पूर्वाग्रांश्च कुशान्दत्त्वा पुष्पाणां प्रकरं तथा ।। 1.185.१० ।।
सव्येन पाणिना वीर विधिवत्खगसत्तम ।।
मात्रे प्रमात्रे तन्मात्रे निर्वपेत्पूर्वतोमुखः ।। ११ ।।
पितुर्मात्रे तु तन्मात्रे निर्वपेद्विधिव त्खग ।।
वृद्धायै प्रपितामह्यै तथान्यं निर्वपेद्बुधः ।। १२ ।।
एवमुद्दिश्य वै मातॄः षट् पिंडान्निर्वपेत्खग ।।
अष्टाशयेद्द्विजान्वीर मातृश्राद्धे खगा धिप ।।
नवमं सर्वदैवत्यं भोजयेद्विधिवत्खग ।। १३ ।।
नांदीमुखांस्तानुद्दिश्य पितॄन्पंच द्विजोत्तमान् ।।
भोजयेद्विधिच्छ्राद्धे वृद्धिश्राद्धे प्रदक्षिणम् ।। १४ ।।
इत्थं श्राद्धद्वयं कुयाद्वृद्धौ कश्यपनंदन ।।
तथान्यमपि ते वच्मि परं श्राद्धविधिं तव ।। १५ ।।
अथैवं भोजयेच्छ्राद्धे तत्पूर्वं तु प्रवर्तयेत्।।
अन्यथा तत्र लुंपंति सदेवासुरमानुषाः ।।१६।।
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्।।
यो ह्यग्निः स द्विजो वीन्द मंत्रदर्शिभिरुच्यते।। ।। १७ ।।
 पूर्व पात्रे यदन्नं च यच्चान्नमुपकल्पितम् ।।
तेनैव सह भोक्तव्यं पृथग्भावो न विद्यते ।।१८।।
द्वौ दैवेऽथर्वणौ विप्रौ प्राङ्मुखावुपवेशयेत्।।
पित्र्ये त्रीनुदगास्यांश्च वृद्धौ चाध्वर्युसंगमान् ।। १९ ।।
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतुपास्तिलाः ।।
त्रीणि चात्र प्रशंसंति शौचमक्रोधमत्व रम् ।। 1.185.२० ।।
दौहित्रं खंडमित्युक्तं ललाटाय प्रजापते ।।
तत्र शृंगस्य यत्पात्रं तद्दौहित्रमिति स्मृतम् ।। २१ ।।
सव्यादंसात्परिभ्रष्टं नाभिदेशे व्यव स्थितम् ।।
एकवस्त्रं तु तं विद्याद्दैवे पित्र्ये च वर्जयेत् ।। २२ ।।
पितृदेवमनुष्याणां पूजनं भोजनं तथा ।।
नोत्तरीयं विना कार्यं कृतं स्यान्निष्फलं यतः ।। २३ ।।
परिधानकृते स्कंधे गृहस्थो योऽर्चयेत्पितॄन् ।।
न स तत्फलमाप्नोति यथा योगपटावृतः ।। २४ ।।
वनस्थानां खगश्रेष्ठ यतीनां च महामते ।।
सिद्धये कर्मणां वीर योगपट्टकमुच्यते ।। २५ ।।
हस्तौ प्रक्षाल्य गंडूषं यः पिबेदविचक्षणः ।।
स तु दैवं च पित्र्यं च आत्मानं चोपघा तयेत् ।। २६ ।।
भोजनेष्वेव तिष्ठंति स्वस्ति कुर्वंति ये द्विजाः ।।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ।। २७ ।।
दातारो नोभिवर्धंता वेदाः संत तिरेव च।।
श्रद्धा च नो मा व्यगमद्बहुदेयं च नोऽस्त्विति ।।२८।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे अरुणादित्य संवादे मातृश्राद्धविधिवर्णनं नाम पंचाशीत्युत्तरशततमोऽध्यायः ।। १८५ ।।