भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८६

शुद्धिप्रकरणवर्णनम्

भास्कर उवाच ।। ।।
श्रावण्यां तु बलिः कार्यः सर्पाणां मंत्रपूर्वकः ।।
शयनारोहणे चैव कार्ये सुखमभीप्सता ।। १ ।।
कार्यः प्रत्यवरोहस्तु मार्गशीर्ष्यां न संशयः ।।
फलं विना त्वनुष्ठानं नित्यानामिष्यते स्फुटम् ।। २ ।।
काम्यानां सफलार्थं तु दोषप्राप्त्यर्थमेव च ।।
नैमित्तिकानां करणं त्रिविधं कर्मणां फलम् ।। ३ ।।
फलं केचिदुपात्तस्य दुरितस्य प्रचक्षते ।।
अनुत्पत्तिं तथा चान्ये प्रत्येत्याभ्युपमंत्र्य च ।। ४ ।।
नित्यक्रियं तथा चान्ये अनुषंगात्फलं श्रुतिः ।।
अग्न्याधेयं तथा दर्शं पौर्णमासं द्वितीयकम्।।५।।
चातुर्मास्यमग्निहोत्रं पशुबंधो निरूढकाः ।।
सौत्रामणी संस्थाः स्युर्हविषः श्रुतिनोदिताः ।। ६ ।।
अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः संषोडशी तथा ।।
वाजपेयातिरात्रश्च आप्योर्यामः श्रुतौ श्रुतः ।।७।।
दया स्यात्सर्वभूतेषु अनसूयाथ मंगलम् ।।
क्षांतिर्दया त्वनायासः शौचमस्पृहता व्रतम् ।। ८ ।।
सम्यगुक्तास्तु संस्कारा ब्रह्मप्राप्तिनिमित्तकाः ।।
अनंतरं प्रवक्ष्यामि विप्राणां वृत्तयः शुभाः ।। ९ ।।
ऋतामृते च विप्राणामृतं प्रमृतमेव च ।।
प्रतिग्रहवणिज्यादि श्रेयसी नोत्तरोत्तरा ।। 1.186.१० ।।
आजीविकावृत्तयस्तु इत्याद्याः संप्रवर्तिताः ।।
तासां कयापि जीवेत्तु अनुतिष्ठेद्यथाविधि ।। ११ ।।
नित्यं शुचिः सुगंधश्च स्नानशीलः प्रियंवदः ।।
पूज्यश्च पूजयेद्देवान्कार्याणि स्वयमाचरेत् ।। १२ ।।
नेक्षेतार्कं न नग्नां स्त्रीं न च संस्पृष्ट मैथुनम् ।।
नाप्सु मूत्रं पुरीषं वा नाशुची रात्रितारकाः ।। १३ ।।
शास्त्रोक्ता यंत्रणा या तु नानुक्तानि व्रतानि च ।।
स्वर्गार्थं साधयेत्तैश्च शक्तिमान्मनसा तथा ।।१४।।
नित्यानि केचिदिच्छंति काम्यानि च तथापरे ।।
काम्याप्रवृत्तौ संगे च प्रायश्चित्तं विधीयते ।।१५।।
व्रतानि मनसा त्विष्टसंकल्प इति मानसः ।।
अंतरानुफलं यत्तदृषिवादाः प्रकीर्तिताः ।।१६।।
अनध्यायं स्वयं सम्यग्वर्जयेत्फलसाधनम् ।।
आत्मा शुद्धस्तथा देशो ह्यसुहारः प्रजापदः ।। १७ ।।
अशुभानि निमित्तानि उत्पातो विकृतं तथा ।।
पर्वाणि मनसोऽशुद्धिरनध्याय इति स्मृतः ।।१८।।
अनध्यायाश्च दृष्टार्था अदृष्टार्थास्तथापरे ।।
वेदाध्ययनमेवेति त्रिधा मद्ध्यानदर्शनम् ।।१९।।
अभक्ष्यं सर्ववर्णानां शावाशौचं खगाधिप ।।
द्रव्यशुद्धिस्तथैव स्यादन्यथा त्वसमंजसम् ।।1.186.२०।।
जातिदुष्टं क्रियादुष्टं कालदुष्टं विभूषितम्।।
संसर्गाश्रयदुष्टं च सहृल्लेखं स्वभावतः ।।२१।।
लशुनं गृंजनं चैव पलांडुं कवकानि च ।।
वार्ताकं नालिकेरं तु मूलकं जातिदुष्टकम्।।२२।।
नो भुञ्जीत क्रियादुष्टं दुष्टं च पतितैः पृथक्।।
कालदुष्टं तु विज्ञेयं हानिदं चिरसंस्थितम् ।।२३।।
दधिभक्ष्यविकाराश्च मधुवर्ज्यास्तदिष्यते ।।२४।।
सुरालशुनसंस्पृष्टं पेयूषादिसमन्वितम् ।।
संसर्गदुष्टमेतद्धि शुनोच्छिष्टं खगेश्वर।।२५।।
शूद्रसक्तं खंडसक्तं ज्ञेयमाश्रयदूषितम्।।
विचिकित्सा तु हृदये भक्ष्ये यस्मिन्त्सुजायते।।२६।।
सहृल्लेखं तु तज्ज्ञेयं पुरीषं तु स्वभावतः ।।
रसदुष्टे विकारोऽपि रसस्येति प्रदर्शितः।।२७।।
पायसं क्षीरपाकादि तस्मिन्नेव दिने तथा।।
यथाशास्त्रं खगश्रेष्ठ भक्ष्याभक्ष्ये निरूपयेत्।।२८।।
प्राणात्यये प्रोक्षितं च श्राद्धे च द्विजकाम्यया ।।
पितॄन्देवांश्चार्पयित्वा भुंजन्मांसं न दोषभाक्।।२९।।
प्रेताशुद्धिः सपिंडानां तस्मिन्नेव मृते सति।।
दशाहं द्वादशाहं वा पक्षं मासं त्वशुद्धता ।। 1.186.३० ।।
दशाहादित्रिके भागे वर्णशो न भवंति हि ।।
दशाहेन तु भोज्याः स्युः सूतकाशौचयोस्तथा ।। ३१।।
ऊर्ध्वं दशाहादेकाहश्रवणे सति जायते ।।
संवत्सरे व्यतीते तु स्नानादेव विशुध्यति ।। ३२ ।।
समानोदकता प्रोक्ता जन्मनाम्नोरपर्यये ।।
सपिंडाः सप्तपुरुषाः श्रुतावेतन्निदर्शनम् ।। ३३ ।।
आ दंतजन्मनः सद्य आचूडान्नैष्ठिकी स्मृता ।।
त्रिरात्रमाव्रतादेशात्सपिंडेषु मृतेषु च ।। ३४ ।।
तेषामपि तदेकं स्याद्वयोवस्थाप्यपेक्ष्यते ।।
समानोदकात्त्रिरात्रेण शुध्येद्वै मृत्युजन्मनोः ।। ३५ ।।
गर्भस्रावे त्रिरात्रेण उदक्या शुध्यते तथा ।।
अनंतजन्म मरणे तच्छेषेण विशुध्यति ।। ३६ ।।
द्विजानां त्वेवमेव स्यात्पित्रर्थं मातुरेव वा ।।
अग्निहोत्रार्थं विज्ञेयं सद्यः शौचमिति स्थितिः ।।३७।।
असपिंडे तु निर्हारात्त्रिरात्रमपि मानवः ।।
तस्यैवानुगतौ ज्ञेयं सद्यः शौचं खगाधिप ।। ३८ ।।
शुध्येद्द्विजो दशाहेन जन्महानौ द्वियोनिषु ।।
षङ्भिस्त्रिभिरहै केन क्षत्रविट्शूद्रयोनिषु ।। ३९ ।।
उक्तशौचं यथान्यायं शारीरं तत्त्वदर्शिभिः ।।
द्रव्यशुद्धिविधानं तु यथावदभिधीयते ।। 1.186.४० ।।
तैजसी मार्तिकी वीर वारिशुद्धिः स्मृता तथा ।।
निर्लेपक्षालनेनैव स्पर्शे तु प्रोक्षणेन वै ।। ४१ ।।
अशुद्धं नैव किंचिद्धि द्रव्यमस्तीति खेचर ।।
वचनाच्छुद्ध्यशुद्धी तु द्रव्याणामिह खेचर ।। ४२ ।।
स्नानं शौचं च कर्तव्यं द्रव्यशौचादनंतरम् ।।
प्रातःस्नानं तु नित्यं स्याद्ग्रहणे काम्यमेव च ।। ४३ ।।
नैमित्तिकं क्षुराशौचं तेन पापाद्विशुध्यति ।।
उक्तं तु शौचं विज्ञेयं दोषक्षयकरं खग ।। ४४ ।।
कर्मांगं चेति विज्ञेयं षट्प्रकारा समासतः ।।
एवमाचमनं विद्याद्विशिष्टं तु द्विजन्मनाम् ।।४५।।
तदा मृतानां तद्वत्स्यादन्येषां तु यथासुखम् ।।
कन्यानिवृत्तिं पुत्रैस्तु यथान्यायं समाचरेत्।। ४६ ।।
कलाशिल्पानिसर्वाणि गृह्रीयात्परितुष्टये ।। ४७ ।।
शुश्रूषेत पतिं भार्या परितोषं यथा व्रजेत् ।।
गुरूणां परितोषश्च धर्मः स्त्रीणां सनातनः।।४८।।
वृद्धाऽपुत्रा यदि मृता तदभावे नृपस्य तु ।।
मृतापत्याप्यगर्भा च वृद्धापत्या पतिव्रता ।। ४९ ।।
कुर्यादनिर्वृतं भर्तुर्गते सन्निहितेपि वा ।।
एतां धर्म समां निष्ठां भर्तृलोकमवाप्नुयात् ।।1.186.५०।।
स्त्री धर्मचारिणी साध्वी मृता दाह्या तथाग्निभिः ।।
विपरीताददाह्या तु पुनर्दारक्रिया तथा ।।५१।।
स्त्रीणां नियोगो विहितो मरणाद्ब्रह्मचारकम् ।।
प्राप्तव्यश्च यथाधर्मो दृष्टादृष्टफलप्रदः ।। ५२ ।।
तस्माद्धर्मं सदा कुर्यात्कुर्वती स्वर्गमाप्नुयात् ।। ५३ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु शुद्धिप्रकरणवर्णनं नाम षडशीत्युत्तरशततमोऽध्यायः ।। १८६ ।।