सौरधर्मे धेनुमाहात्म्यवर्णनम्

।। अनूरुरुवाच ।। ।।
कानि पुण्यानि कृत्वेह स्वर्गं गच्छंति मानवाः ।।
मनुष्यलोके संभूताः स्वर्लोके गामिनः परम् ।।१।।
कर्मयज्ञस्तपोयज्ञः स्वाध्यायो ध्याननिर्मितः ।।
ज्ञानयज्ञश्च पंचैते महायज्ञाः प्रकीर्तिताः ।। २ ।।
एतेषामेव यज्ञानामुत्तमः कतमः स्मृतः ।।
एतद्यज्ञफलानां च किं फलं का गतिर्भवेत् ।।३।।
धर्माधर्मप्रभेदाश्च कियन्तः परिकीर्तिताः ।।
तत्साधनानि कतिधा गतयश्च यथा वद ।।४।।
खग नारकिणां पुंसामागतानां पुनः क्षितौ ।।
कानि चिह्नानि जायन्ते मुक्तशेषेण कर्मणा ।। ५ ।।
महाभवार्णवाद्घोराद्धर्माधर्माभिसंकुलात् ।।
गर्भादिदुःखफेनाढ्यान्मुच्यंते देहिनः कथम् ।। ।। ६ ।।
इत्युक्तो भगवान्भानुः सर्वप्रश्नार्थमादरात् ।। ७ ।।
प्रत्युवाच महातेजाः समासव्यासयोगतः ।। ७ ।।
।। आदित्य उवाच ।। ।।
स्वर्गापवर्गफलदं नरकार्णवतारणम् ।।
धर्मं पापहरं पुण्यं शृणु शूर प्रभाषतः ।। ८ ।।
श्रद्धापूर्वः सदा धर्मः श्रद्धामध्यांतसंस्थितः ।।
श्रद्धानिष्ठप्रतिष्ठश्च धर्मः श्रद्धा प्रकीर्तिता ।। ९ ।।
श्रुतिमंत्ररसाः सूक्ष्माः प्रधानपुरुषेश्वरः ।।
श्रद्धामात्रेण गृह्यंते न परेण च चक्षुषा ।। 1.187.१० ।।
कायक्लेशैर्न बहुभिर्न चैवार्थस्य राशिभिः ।।
धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ।। ११ ।।
श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा यज्ञाहुतं तपः।।
श्रद्धा मोक्षश्च स्वर्गश्च श्रद्धा सर्वमिदं जगत् ।। १२ ।।
सर्वस्वं जीवितं वापि दद्यादश्रद्धया च यः ।।
नाप्नुयात्स फलं किंचित्तस्माच्छ्रद्धापरो भवेत् ।।।१३ ।।
एवं श्रद्धामयाः सर्वे मम धर्माः प्रकीर्तिताः ।।
पूज्यस्तु श्रद्धया पुंसा ध्येयः पूज्यश्च श्रद्धया ।। १४ ।।
अधिकारस्य प्राप्त्यर्थं महासारविमुक्तिदम् ।।
अज्ञादुक्तं ससंदिग्धं वाक्यमेतन्ममाद्भुतम् ।। १५ ।।
नानासिद्धिकरं दिव्यं लोकचित्तानुरंजनम् ।।
सुनिश्चितार्थगंभीरं वाक्यं मम मनोरमम् ।। १६ ।।
मन्मानससमुद्रो हि द्विपदोयं विदुर्बुधाः ।।
स खषोल्केति विख्यातः सशिवं मंडलं खग ।। १७ ।।
देवत्रयगुणातीतः सर्वज्ञः सर्ववित्प्रभुः ।।
ओमित्येकाक्षरे मंत्रे स्थितः स परमो मम ।।१८।।
यथानादिप्रवृत्तोयं घोरः संसारसागरः ।।
खषोल्कोपि तथानादिः संसारार्णवशोधनः ।।१९।।
व्याधीनां भेषजं यद्वत्प्र तिपक्षस्वभावतः ।।
मोक्षिणां मुक्तिहेतुश्च सिद्धः सर्वार्थसाधकः ।। 1.187.२० ।।
ममाभिधानमन्त्रोयमभिधेयः सदा स्मृतः ।।
अभिधानाभिधेयोहं मन्त्रसिद्धोऽस्मि खेचर ।। २१ ।।
वेदो मनोगमे चात्र षडक्षरमंत्रस्थितः ।।
यद्वा मुक्तोऽक्षरैकेन लोके पञ्चाक्षरः स्मृतः ।। २२ ।।
किं तस्य बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्तरैः ।।
यस्यों नमः खषोल्केति मन्त्रोऽयं हृदि संस्थितः ।। २३ ।।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।।
येनों नमः खषोल्केति मम वाक्यं षडक्षरम् ।। २४ ।।
विधिवाक्यमिदं सर्वं नार्थवादं वचो मम ।।
एतत्ते वक्ष्यतेऽशेषं मम वाक्यार्थमुत्तमम् ।।
पृच्छस्वेमं प्रणम्याशु वैनतेय महामते ।। २५ ।।
।। सुमन्तुरुवाच ।। ।।
श्रुत्वा तु वचनं भानोर्वैनतेयो महाबलः ।।
सप्ताश्वतिलकं भक्त्या प्रणम्योवाच भारत ।। २६ ।।
।। अनूरुरुवाच ।। ।।
ब्रूहि मां देवशार्दूल यत्पृच्छामि महामते ।।
कीदृग्वाक्यमिदं भानोर्वाक्यार्थं ब्रूहि च प्रभो ।। २७।। ।।
।। सप्ताश्वतिलक उवाच ।। ।।
विमुक्ताशेषदोषेण सर्वज्ञेन भगेन यत् ।।
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ।। २८ ।।
यस्मान्मार्तंड नामासौ कथ्यते च मनीषिभिः ।।
यथार्थं पुण्यमाप्नोति पतत्यश्रद्धया त्वधः ।। २९ ।।
सौरवाक्यप्रवक्तारं सूरवत्पूजयेद्गुरुम् ।।
संसारार्णव निर्मग्नं यः समुद्धरते जनम् ।। 1.187.३० ।।
सौरधर्माम्बुहस्तेन कस्तेन सदृशो गुरुः ।।
अज्ञानवह्निसंतप्तं निर्वापयति यः शनैः ।।
ज्ञानामृतेन वै भक्ता कस्तं न प्रतिपूजयेत् ।। ३१ ।।
नैव राज्येन महता न चैवार्थस्य राशिभिः ।।
प्राप्तमज्ञानशमनं परलोके सुखावहम् ।। ३२ ।।
स्वर्गापवर्ग सिद्ध्यर्थं भाषितं यत्तु शोभनम् ।।
वाक्यं ते देवदेवेन तद्विज्ञेयं सुभाषितम् ।। ३३ ।।
रागद्वेषाक्षमाक्रोधकामतृष्णानुसारिणाम् ।।
वाक्यं निरय हेतुत्वात्तद्दुर्भाषितमुच्यते ।। ३४ ।।
संस्कृतेनापि किं तेन मृदुलालापसंगिना ।।
अविद्यारामवाक्येन संसारक्लेशहेतुना ।। ३५ ।।
यच्छ्रुत्वा जायते पुण्यं रागादीनां च संक्षयः ।।
विरूपमपि तद्वाक्यं विज्ञेयमतिशोभनम् ।। ३६ ।।
स्मृतयो भारतं वेदाः शास्त्राणि सुमहांति च ।।
स्वायुषः क्षपणायैव धमोऽर्थसमग्रन्थितः ।। ३७ ।।
पुत्रदारादिसंसारे नराणां मूढचेतसाम् ।।
संसारविदुषां शास्त्रमनादि मुखनिर्गतम् ।। ३८।।
इदं श्रेष्ठमिदं ज्ञेयं सर्वं त्वं ज्ञातुमिच्छसि ।।
अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ।। ३९ ।।
विज्ञायाक्षरतन्मात्रं जीवितं चातिवंचनम् ।।
विहाय सर्वशास्त्राणि परलोकं समाचरेत् ।। 1.187.४० ।।
पण्डितेनापि किं तेन समर्थेन च देहिनाम् ।।
यः पुण्यभारमुद्वोढुमशक्तः पारलौकिकम् ।। ४१ ।।
पण्डितोऽपि स मूर्खः स्याच्छक्तियुक्तोऽप्यशक्तिकः ।।
यः सौरज्ञानमाहात्म्यमुच्चारयितुमक्षमः ।। ४२ ।।
तस्मात्स पंडितः शक्तः स तपस्वी जितेन्द्रियः ।।
यः सौरज्ञानसद्भावमालोचयितुमुद्यतः ।। ४३ ।।
यः प्रदद्यान्नृपः कृत्स्नां क्ष्मां धनं कांचनं तथा ।।
सर्वमन्यायतः पृछेन्न तस्योपदिशेद्गुरुः ।। ४४ ।।
यः शृणोति रवेर्धर्मं न्यायतः स च वक्ति च ।।
ततो गच्छति सुस्थानं नरकं तद्विपर्यये ।। ४५ ।।
दत्तगोदोहसंभूतः षडक्षरविधानतः ।।
रविः संपूजितः शीघ्रं नराणां तुल्यता भृशम् ।। ४६ ।।
सुरासुरैर्मथ्यमानात्क्षीरोदात्सागरात्पुरा ।।
पञ्च गावः समुत्पन्नाः सर्वलो कस्य मातरः ।। ४७ ।।
नंदा सुभद्रा सुरभी सुमना शोभनावती ।।
गावः सूर्यसमा भासा उत्पन्नाः कृतिमागताः ।। ४८ ।।
सर्वलोकोपकारार्थं देवानां तर्पणाय च ।।
मामाश्रित्य स्थिता गावः स्नानार्थं भास्करस्य तु ।। ४९ ।।
तासामंगानि पुण्यानि षड्रसाः खगसत्तम ।।
खगादिषु च सर्वेषु स्थिराणीत्युपधारय ।। 1.187.५० ।।
गोमयं रोचनं मूत्रं क्षीरं दधि घृतं गवाम् ।।
षडंगानि पवित्राणि सर्वसिद्धिकराणि च ।। ५१ ।।
गोमयादुत्थितः श्रीमान्बिल्ववृक्षोऽर्कवल्लभः ।।
तत्रास्ते पद्महस्ता श्रीर्वृक्षस्तेन च स स्मृतः ।। ५२ ।।
पंकान्युत्पलपद्मानि पुनर्जातानि गोमयात् ।।
गोरोचनं च मंगल्य पवित्रं सर्वकामदम् ।। ५३ ।।
गोमूत्राद्गुग्गुलुर्जातः सुगंधिः प्रियदर्शनः ।।
आहारः सर्वदेवानां भास्करस्य विशेषतः ।। ५४ ।।
यद्बीजं जगतः किंचित्तज्ज्ञेयं क्षीरसंभवम् ।।
दध्नः सर्वाणि जातानि मांगल्यान्यर्थसिद्धये ।। ५५ ।।
घृतादमृतमुत्पन्नममराणामतिप्रियम् ।।
तस्माद्धृतेन पयसा दध्ना यः स्नापयेद्रविम् ।। ५६ ।।
तदंते चोष्णतोयेन कषायैश्च निरूपयेत् ।।
स्नाप्य शीतांबुना पश्चाद्भानुं रोचनयालभेत् ।। ५७ ।।
पूजयेद्बिल्वपत्रैश्च पद्मैर्नीलोत्पलैस्तथा ।।
अर्घ्यं दद्यात्ततः पश्चात्सवज्रं गुग्गुलं खग ।। ५८ ।।
पायसं दधिभक्तं च वज्रं च मधुना सह ।।
निवेदयेच्च सद्भक्त्या भक्ष्याणि विविधानि च ।। ५९ ।।
कृत्वा प्रदक्षिणं पश्चात्प्रणिपत्य क्षमापयेत् ।।
अनेन विधिना भानुं षडंगेन दिवस्पतिम् ।। 1.187.६० ।।
इह लोके परे चैव सर्वान्कामान्स गच्छति ।।
षडंगविधिना तं चापूज्यैवं सुमना रविम् ।। ६१ ।।
स्वर्गं नयेत्सधीमांस्तु कुलानामेकविंशतिम् ।।
स्वर्गे स्थाप्य स्वयं गच्छेज्ज्यौतिषं नाम तत्पदम् ।। ६२ ।।
अंशेन भोजका वीर देवकार्ये नियोजिताः ।।
प्रयांति स्वामिना सार्धं श्रीमद्भानुं परं महः ।। ६३ ।।
भुक्त्वा भोगांस्तु विपुलान्भोजको भोगसंमितः ।।
कालात्पुनरिहायातः पृथिव्यामेकराड्भवेत् ।। ६४ ।।
पुष्पं पत्रं फलं तोयं यद्गतं भास्करार्चने ।।
सौरा गावश्च गच्छंति सूर्यलोकं न संशयः ।। ६५ ।।
यः पिबेद्भोजने धेनोरदत्ता भानवे पयः ।।
स गच्छेन्नरकं घोरमकुर्वंस्तर्पणं रवेः ।। ६६ ।।
एककालं पिबेत्क्षीरं धेनूनां भास्करस्य तु ।।
अनेन स्नापयेद्देवं क्षीरेण खगसत्तम ।। ६७ ।।
प्रत्यूषे यद्भवेत्क्षीरं धेनूनां भास्करस्य तु ।।
स्नापयेत्तेन वै भानुं कृत्स्नेन गरुडाग्रज ।। ६८ ।।
यस्तु लोको भजेत्सर्व न देवाय निवेदयेत् ।।
यावन्तो रोमकूपाश्च गवां देहे खगाधिप ।।
तावद्वर्षसहस्राणि नरके पच्यते खग ।। ६९ ।।
पूजितं पूज्यमानं वा यः कश्चिच्छृणुयाद्रविम् ।।
श्रुत्वानुमोदते यस्तु स यज्ञफलमश्नुते ।। 1.187.७० ।।
भास्करं पृजितं दृष्ट्वा सर्वपापैः प्रमुच्यते ।।
हर्षात्प्रणम्य वै भानुं तस्य लोके महीयते ।। ७१ ।।
पूज्यमानं रविं भक्त्या यः पश्येन्मानवः खग ।।
सोऽपि यज्ञफलं कृत्स्नं प्राप्नुयान्नात्र संशयः ।। ७२ ।।
श्रुत्वानुमोदते यस्तु पूज्यमानं दिवाकरम् ।।
तत्सर्वं फलमाप्नोति प्रसादाद्भास्करस्य तु ।। ७३ ।।
एकजन्मानुगं दानं भक्त्या यच्च निवेदितम् ।।
जपयज्ञाद्वियुक्तेभ्यः सहस्रभविकं स्मृतम् ।।
आभूतसंप्लव स्थायि प्रदानं जपजीविनाम् ।। ७४ ।।
अत्यल्पमपि यद्दत्तं वाचकाय खगाधिप ।।
तन्महाप्रलयं यावद्दातुर्भोगाय कल्पते ।। ७५ ।।
न दानमल्पं बहुधा किंचिदस्ति विजानताम् ।।
देशकालविधिश्रद्धापात्रयुक्तं तदक्षयम् ।। ७६ ।।
पात्रे देशे च काले च विधिना श्रद्धया च यत् ।।
दत्तं हुतं कृतं चैव तदनंतफलं भवेत् ।। ७७ ।।
तिलार्धमपि यद्वीर दीयते श्रद्धया द्विज ।।
सत्पात्रे विधिवद्भक्त्या तद्भवेत्सर्वकामिकम् ।। ७८ ।।
यत्स्नातं ज्ञानसलिलैः शीलभस्मप्रमार्जितम् ।। स्नान
तत्पात्रं सर्वपात्रेभ्य उत्तमं परिकीर्तितम् ।। ७९ ।।
जपो दमो यमः पुंसां त्राता संसाग्सागरात् ।।
अज्ञानां पापनेत्राणां तत्पात्रं परमं स्मृतम् ।। 1.187.८० ।।
ज्ञानप्लवेन चोपेतं शास्त्रं पापमहार्णवात् ।।
अज्ञान्संतारयेन्नूनं किं शिला तारयेच्छिलाम् ।। ८१ ।।
द्विजानां वेदविदुषां कटिसंभोगि यत्फलम् ।।
हंतकारप्रदानेन तत्फलं जपजीविने ।। ८२ ।।
जीवो यस्यैत्य गृहे च भुङ्क्ते सत्कृतिसत्कृतः ।।
कुलमुत्तारयेत्तस्य नरकार्णवसंस्थितम् ।। ८३ ।।
यज्ञाग्निहोमतीर्थेषु यत्फलं परिकीर्तितम् ।।
जपिनामन्नदानेन तत्समग्रं फल लभेत् ।। ८४ ।।
भोजिने शांतचित्ताय परिध्यानरताय च ।।
श्रद्धयान्नं सकृद्दत्त्वा सर्वपापैः प्रमुच्यते ।। ८५ ।।
जपकाञ्छांतिसंयुक्तानादित्यार्पितचेतसः ।।
भोजयित्वा सकृद्भक्त्या सर्वान्कामानवाप्नुयात् ।। ८६ ।।
ध्यायमानो रवेः सूक्तं भोजयेत्सततं च यः ।।
ततः साक्षादनेनैव तद्भुक्तमशन भवेत् ।। ८७ ।।
पितॄनुदिश्य यः श्राद्धे भोजयेद्भोजकं नरः ।।
स स्थानं समवाप्नोति भानवीयमसंशयः ।। ८८ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे धेनुमाहात्म्यवर्णनं नाम सप्ताशीत्यधिकशततमोऽध्यायः ।। १८७ ।।