भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८९
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८८ | भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १८९ वेदव्यासः |
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९० → |
सौरधर्मेषु सप्ताश्वसंवादः
<poem>।। सप्ताश्वतिलक उवाच ।। ।।
आमपात्ररसा यद्वन्नश्यंते नश्यभाजने ।।
जपोपेक्षे तथा दानं सह पात्रेण नश्यति ।।
सद्बीजमूषरे यद्वत्समुप्तं निष्फलं भवेत् ।।१।।
भस्मनीव हुतं हव्यं यथा होतुश्च निष्फलम् ।।
जपेन रहिते विप्रे तथा दानं निरर्थकम् ।।२।।
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।।
ब्राह्मणस्य तथा जन्म जपहीनस्य निष्फलम् ।।३।।
लोहोडुपेन प्रतरन्निमज्जत्युदके यथा ।।
दाता दाता ग्रहीता च पतत्यंधे तमस्यथ।।४।।
कारुण्यात्सर्वभूतेषु श्रद्धया यत्प्रदीयते ।।
दानं तद्वै खग ज्ञेयं सार्वकामिकमुत्तमम् ।। ५ ।।
दीनांधकृपणानां च बालवृद्धातुरेषु च ।।
यद्दीयते खगश्रेष्ठ तस्यानन्तफलं भवेत् ।। ६ ।।
न हि स्वार्थं समुद्दिश्य प्रतिगृह्णंति साधवः ।।
दातुरेवोपकाराय जगृहुः श्रवणादयः ।। ७ ।।
दातुरेवोपकाराय वदत्यर्थी ददस्व मे ।।
यस्माद्दाता प्रयात्यूर्ध्वमधस्तिष्ठेत्प्रतिग्रही ।। ८ ।।
देहीति सुवदन्नर्थी धनं बोधयतीव सः ।।
यन्मया कृतमर्थित्वं प्रगेऽदानफलं हि तत् ।। ९ ।।
बोधयंति न याचन्ते देहीति कृपणा जनाः ।।
अवस्थेयमदानस्य यद्याचामो गृहेगृहे ।। 1.189.१० ।।
आयात्यर्थी गृहं यस्तु कस्तं न प्रतिपूजयेत् ।।
कोयमर्थी न पूज्यः स्याद्याचमानो दिनेदिने ।। ११ ।।
यद्बलादप्यनिच्छंतं योजयंति नराश्रयान् ।।
अहन्यहनि याचंते दातुस्ते दर्शयंति हि ।। ।। १२ ।।
एकस्तिष्ठति चाधस्तादन्यश्चोपरि तिष्ठति ।।
दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ।। १३ ।।
यः प्राप्तायार्थिने दानं त्यक्त्वा पात्र मुदीक्षते ।।
सर्वकर्मसु युक्तत्वान्न दाता पारमार्थिकः ।।१४।।
यद्यर्थिनो नरा न स्युर्दानधर्मः कथं भवेत्।।
तदर्थिषु भवेद्दानं स्वागतं स्वागतं प्रियम्।। ।। १५ ।।
पादोदकमनुव्रज्यात्स्वर्गसोपानसप्तकम् ।।
चिंताचिंतानुरूपेण कदा कस्य विनष्यति ।। १६ ।।
ग्रासादर्धमपि ग्रासं युक्तं दातुं सदार्थिनाम् ।।
दानं प्रियविनिर्मुक्तं नष्टमाहुर्मनीषिणः ।। १७ ।।
तस्मात्सत्कृत्य दातव्यमनंतफलमिच्छता ।।
प्रेत्याख्यानमपि श्रेयः प्रियानुनयपेश लम् ।।१८।।
न तद्दानमसत्कारपारुष्यमलिनीकृतम् ।।
वरं न दत्तमर्थिभ्यः संक्रुद्धेनांतरात्मना।।१९।।
न तद्धनं न च प्रीतिर्न धर्मः प्रियवर्जितः ।।
दानप्रदाननियमयज्ञध्यानं हुतं तपः ।।
यत्नेनापि कृतं सर्वं क्रोधोऽस्य निष्फलं खग ।। 1.189.२० ।।
यः श्रद्धयार्चितं दद्यात्प्रति गृह्णाति चार्चितम् ।।
तावुभौ गच्छतः स्वर्गं नरक तद्विपर्ययात् ।। २१ ।।
औदार्यं स्वागतं मैत्री ह्यनुकंपा च मत्सरः ।।
पंचभिस्तु गुरौ दानं दातुर्दाने महाफलम्।।२२।।
वाराणसी कुरुक्षेत्रं प्रयागं पुष्कराणि च ।।
गातटं समुद्रश्च नैमिषारण्यमेव च ।। २३ ।।
मूलस्थानं महापुण्यं पुंडीरस्वामिकं तथा ।।
कालप्रियं खगश्रेष्ठ क्षीरिकावास एव च ।। २४ ।।
इत्येते कीर्तिता देशाः सुरसिद्धनिषेविताः ।।
सर्वे सूर्याश्रमाः पुण्याः सर्वा नद्यः सपर्वताः ।।
गोसिद्धमुनि वासाश्च देशाः पुण्याः प्रकीर्तिताः ।। २५ ।।
सूर्यायतनसंस्थानां यद्यदल्पं तु दीयते ।।
तदनंतफलं ज्ञेयं वचः क्षेत्रानुभावतः।। ३६ ।।
ग्रहणं चंद्रसूर्याभ्यामुत्तरायणमुत्तमम् ।।
विषुवं सव्यतीपातं षडशीतिमुखं तथा ।। २७ ।।
दिनच्छिद्राणि संक्रांतिः पुण्यं विषुपदं खग ।।
इति कालः समा ख्यातः पुंसां पुण्यविवर्धनः ।। २८ ।।
भक्तिभावः परा प्रीतिर्धर्मो धर्मैकभावनः ।।
प्रतिपत्तिरिति ज्ञेयं श्रद्धापर्यायपंचकम् ।।२९।।
श्रद्धया विधिवत्पात्रे प्रतिपादितमुत्तमम् ।।
तस्माच्छ्रद्धां समास्थाय देयमक्षयमिच्छता ।। 1.189.३० ।।
यद्दानं श्रद्धया पात्रे विधिवत्प्रतिपादितम् ।।
तदनंतफलं ज्ञेय मपि वा भारमात्रकम् ।। ३१ ।।
आर्तेषु दीनेषु गुणान्वितेषु यः श्रद्धया स्वल्पमपि प्रदद्यात् ।।
स सर्वकामान्समुपैति लोकाञ्च्छ्रद्धैव दानं प्रवदंति तज्ज्ञाः ।। ३२ ।।
श्रद्धा दानं परं ज्ञेयं श्रद्धा एव तपः परम् ।।
श्रद्धां यज्ञमुशन्तीह श्रद्धा परमुपोषितम् ।। ३३ ।।
अथाहिंसा क्षमा सत्यं ह्रीः श्रद्धेंद्रियसंयमः ।।
दानमिष्टं तपो ध्यानं दशकं धर्मसाधनम् ।। ३४ ।।
हंतव्यस्तैः समस्तैर्वा सूर्यधर्मैरनुष्ठितैः ।।
सूर्यौकसां च संप्राप्तेर्गतिरेका प्रकीर्तिता ।। ३५ ।।
यथा भूः सर्वभूतानां शांतिरतिशयः स्मृतः ।।
कुर्यात्पुण्यं महत्तस्मान्मम लोकेप्सया सुधी ।। ३६ ।।
परस्त्रीद्रव्यसंकल्पं यः सापेक्षं करोति च ।।
गुरुमार्तमशक्तं वा विदेशे प्रस्थितं तथा ।।
अरिभिः परिभूतं च संत्यजेच्चैव पापकृत् ।। ३७ ।।
तद्भार्यामित्रपुत्रेषु यश्चावज्ञां करोति च ।।
इत्येतत्पातकं ज्ञेयं गुरुनिंदासमं भवेत् ।। ३८ ।।
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।।
महापातकिनस्त्वेते तत्संयोगी च पञ्चमः ।। ३९ ।।
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य वदेत यः ।।
प्राणांतिकं महादोषं ब्रह्महा स उदाहृतः ।। 1.189.४० ।।
ब्राह्मणं च समाहूय याचमानमकिंचनम् ।।
यन्नास्तीति च यो ब्रूयात्स चाण्डालं उदाहृतः ।। ४१ ।।
देवद्विजगवां भूमिं पूर्वदत्तां हरेत यः ।।
प्रनष्टामपि काले तु तमाहुर्ब्रह्मघातकम् ।। ४२ ।।
अधीत्य यो रवेर्ज्ञानं परित्यजति मंदधीः ।।
सुरापेन समं ज्ञेयं तस्य पापं च सुव्रत ।। ४३ ।।
अग्निहोत्रपरित्यागः पंचयज्ञियकर्मणाम् ।।
मातापितृपरित्यागः कूटसाक्ष्यं सुहृद्वधः ।। ४४ ।।
अप्रियं सूर्यभक्तानामभक्ष्यस्य च भक्षणम् ।।
एवं निरपराधानां प्राणिनां च प्रमारणम् ।। ४५ ।।
सर्वाधिपत्यमेतेषां नास्ति देवपुरोत्तमे ।।
आत्मलोकाधिपत्यं तु यच्छेत्सर्वजत्पतिः ।। ४६ ।।
केचिदत्रैव मुच्यन्ते ज्ञानयोगपरा नराः ।।
आवर्तंते पुनश्चान्ये संसारे भोगतत्पराः ।। ४७ ।।
तस्माद्विमोक्षमन्विच्छन्भोगासक्तिं विवर्जयेत् ।।
विरक्तः शांतचित्तात्मा सौरलोकमवाप्नुयात् ।। ४८ ।।
यच्चाप्यसक्तहृदया जपन्तीमं प्रसंगतः ।।
तेषामपि वदत्येकः स्वानुभावानुरूपतः ।। ४९ ।।
तन्नार्चयन्ति ये भानुं सकृदुच्छिष्टदेहिनः ।।
तेषां पिशाचलोके तु भोगान्भानुः प्रयच्छति ।। 1.189.५० ।।
द्विर्जपंति च ये भानुं क्रूराः संक्रुद्धलोचनाः ।।
रक्षोलोके रविस्तेषां महाभाग्यं प्रयच्छति ।। ५१ ।।
त्रिरर्चयन्ति ये भानुं मद्यमांसरता नराः ।।
ऋषिलोके रविस्तेषां भोगान्दिव्यान्प्रयच्छति ।। ५२ ।।
ये नृत्यगीतं कुर्वंति त्रिश्चतुर्धा यदृच्छया ।।
सूर्यस्याग्रे तु ते यांति गंधर्वभवनं खग ।। ५३ ।।
लोकाः ख्यातिं समुद्दिश्य पूजयंति च गोपतिम् ।।
तेषां शक्रालये भानुः कामान्त्सर्वान्प्रयच्छति ।। ५४ ।।
कामासक्तेन चित्तेन यः षडर्चयते रविम् ।।
प्राजापत्ये रविस्तस्य लोके भोगान्प्रयच्छति ।। ५५ ।।
नवकृत्वोर्चयेद्यस्तु चित्रभानुं खगाधिप ।।
स याति विष्णुसालोक्यं विष्णुना सह मोदते ।। ५६।।
तस्मादपि परं स्थानं यद्भूतानां मनोहरम् ।।
अप्रमेयगुणैदिव्यैर्विमानैः सार्वकामिकैः ।। ५७ ।।
असंख्यैर्वस्तुभिर्व्याप्तं गैरिकै रक्तचित्रकैः ।।
नानागृहसमाकीर्णैः सूर्यकोटिसमप्रभम् ।। ५८ ।।
तत्स्थानं ते प्रगच्छंति अर्चयन्ति च ये द्विजान् ।।
तत्र लोके खगश्रेष्ठ वसंति विहरंति च ।।
तस्मादपि परं स्थानं ज्योतिष्कं सौरमुच्यते ।। ५९ ।।
एवं सूर्यानुभावेन निकृष्टेनापि कर्मणा ।।
नरैः स्थानान्यवाप्यन्ते श्रद्धाभावानुरूपतः ।। ।।1.189.६०।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सप्ताश्वानूरुसंवादो नाम एकोननवत्यधिकशततमोऽध्यायः।।१८९।।