भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९४

← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९३ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९४
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९५ →



सूर्यारुणसंवादे स्वप्नवर्णनम्

<poem>।। सप्ताश्वतिलक उवाच ।। ।।
अतः परं प्रवक्ष्यामि यैर्यैर्य त्फलमश्नुते ।।
स्वप्ने दृष्टे तु सप्तम्यां पुरुषो नियतव्रतः ।। १ ।।
समाप्य विधिवत्सर्वां जपहोमादिकां क्रियाम् ।।
भूमौ शय्यां समास्थाय देवदेवं विचिन्तयेत् ।। २ ।।
हन्त सुप्तो यदि नरः पश्येत्स्वप्ने दिवाकरम् ।।
शक्रध्वजं वा चन्द्रं वा तस्य सर्वाः समृद्धयः ।। ३ ।।
भृंगारचमरादर्शकनकाभरणानि च ।।
रुधिरस्य स्रुतिः केशपातं ऐश्वर्यकारकः ।।
स्वप्ने वृक्षाधिरोहे तु क्षिप्रमैश्वर्यमाहवे ।। ४ ।।
दोहनं महिषीसिंहीगोधेनूनां करे स्वके ।।
बन्धश्चासां राज्यलाभो नाभेः स्पर्शे तु दुर्मतिः ।। ५ ।।
अविं हत्वा स्वयं खादेत्सिंहमंबुजमेव च ।।
स्वांगमस्थि हुताशं च सुरापानं खगाधिप ।। ६ ।।
हैमे वा राजते वापि यो भुंक्ते पायसं नरः ।।
पात्रे तु पद्मपत्रे वा तस्यैश्वर्यं समं भवेत् ।। ।। ७ ।।
द्यूते च वाथ वा युद्धे विजयो हि सुखावहः ।।
गात्रस्य स्वस्य ज्वलनं शिरोबन्धश्च भूतये ।। ८ ।।
माल्यांबराणां शुक्लानां हयानां पशुपक्षिणाम् ।।
सदा लाभं प्रशंसंति विष्ठानां चानुलेपनम् ।। ९ ।।
हययाने भवेत्क्षिप्रं रथयाने प्रजागमः ।।
नानाशिरोबाहुता च गृहस्थां कुरुते श्रियम् ।। 1.194.१० ।।
अगम्यागमनं धन्यं वेदाध्ययनमुत्तमम् ।।
देवद्विजश्रेष्ठवीरगुरुवृद्धतपस्विनः ।। ११ ।।
यद्वदंति नरं स्वप्ने सत्यमेवेति तद्विदुः ।।
प्रशस्तं दर्शनं चैषामाशीर्वादः खगाधिप ।। १२ ।।
राज्यं स्यात्स्वशिरश्छेदे धनं बहुवधे भवेत् ।।
रुदिते भक्ष्यसंप्राप्ती राज्यं निगडबन्धने।।१३।।
पर्वतं तुरगं सिंहं वृषभं गजमेव हि ।।
महदैश्वर्यमाप्नोति यो विक्रम्याधिरोहति ।। १४ ।।
आगृह्णानो ग्रहांस्तारा मरीचिं परिवर्तयन् ।।
उन्मूलयति पर्वतांश्च राजा भवति भूतले ।। १५ ।।
देहान्निष्कांतिरंत्राणां सर्वेषां च खगाधिप ।।
पानं समुद्रसरितामैश्वर्यसुखकारकम् ।। १६ ।।।।
बलं चांबुनिधिं वापि तीर्थपारं प्रयाति यः ।।
तस्यापत्यं भवेद्वीर अचलं च खगाधिप ।। १७ ।।
भवत्यर्थागमः शीघ्रं कृमिर्वा यदि भक्षयेत् ।।।
अंगानां च सुरूपाणां लाभो दर्शनमेव च ।।
संयोगश्चैव मांगल्यैरारोग्यं धनमेव च ।। १८ ।।
ऐश्वर्यं राज्यलाभश्च यस्मिन्स्वप्न उदाहृतः ।।
सप्त स्यान्नात्र संदेहश्चतुर्भिः श्रुत उत्तमः ।। १९ ।।
पंचभिः पुत्रबाहुल्यं षड्भिरायुः सुतान्धनम् ।।
सप्तभिर्विविधान्कामानष्टभिर्विविधं यशः ।। ।। 1.194.२० ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यारुणसंवादे स्वप्नवर्णनं नाम चतुर्नवत्यधिकशततमोऽध्यायः ।। १९४ ।।।५ ।। </poem>