← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९५ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९६
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९७ →

नामपूजाविधिवर्णनम्

।।सप्ताश्ववतिलक उवाच।। ।।
अतीत्य भुक्तं पुरुषः सप्तम्यां गरुडाग्रज ।।
मैत्रीं विदध्यात्सर्वत्र जीवहिंसां विवर्जयेत् ।। १ ।।
सप्तम्यां न स्पृशेत्तैलं नीलं वस्त्रं न धारयेत् ।।
न शयीत स्त्रिया सार्धं न सेवेत दुरोदरम् ।। २ ।।
न रुद्यादश्रुपातेन न वा ध्यायेत्पिशाचकान् ।।
नाकृषेच्छिरसो यूका न वृथावादमाचरेत् ।।
परस्यानिष्टकथनमतिवादं च वर्जयेत् ।। ३ ।।
न कंचित्ताडयेज्जंतुं न विशेत कदाचन ।।
ब्रह्महत्यामवाप्नोति विशमानो रवेर्गृहम् ।। ४ ।।
इत्येते समयाः प्रोक्ताः सौराणां गरुडाग्रज ।।
भोजकानां विशेषेण पुरा मे भानुनानघ ।। ५ ।।
भोजकः खगशार्दूल यो लोभाद्द्रव्यमुत्सृजेत् ।।
वृद्ध्यै तु सततं वीर स गच्छेन्नरकं धुवम् ।। ६ ।।
विशेषे चाल्पकशते कामयाने खगाधिप ।।
प्रयुज्यमानो भोजकस्तु पंचकेन शतेन वै ।। ७ ।।
प्रायश्चित्ती भवेद्वीर न चार्हः पूजने रवेः।।
कृत्वा सांतपनं कृच्छ्रं तत्रः संपूजयेद्रविम् ।। ८ ।।
नान्यदेवप्रतिष्ठा तु कर्तव्या भोजकेन तु ।।
कृत्वा तु तां खगश्रेष्ठ प्रायश्चित्तीयते नरः ।। ९ ।।
तस्मात्तु तां न कुर्याद्वै भोजकः खगसत्तम ।।
मुक्त्वा तु भास्करं देवं नान्यं देवं निवेदयेत् ।। १० ।।
कृत्वाधिवेशं देवानां ब्रह्मादीनां खगाधिप ।।
भोजको न स्पृशेद्भानुं कुर्यात्कृच्छ्रं च शुद्धये ।। ११ ।।
कृत्वा तु कृच्छ्रं विधि वच्छुद्धेर्हेतुं खगाधिप ।।
ततः पूजयितुं भानुमधिकारी भवेन्नरः ।। १२ ।।
न विज्ञातं प्रदातव्यं न म्लानं न च दूषितम् ।।
न च पर्युषितं माल्यं दातव्यमृद्धिमिच्छता ।। १३ ।।
देवमुल्लोचयेद्यस्तु स खलः पुष्पलोभतः ।।
पुष्पाणि च सुगंधीनि भोजको नेतराणि च ।। १४ ।।
ब्रह्महत्यामवाप्नोति भोजको लोभमोहितः ।।
महारौरवमासाद्य पच्यते शाश्वतीः समाः ।। १५ ।।
हंत ते कीर्तयिष्यामि धूपदानविधिं परम् ।।
प्रदाने देवदेवस्य येन धूपेन यत्फलम् ।। १६।।
सदा चंदनधूपेन सान्निध्यं कुरुते रविः ।।
प्रदद्यान्मानसे चैव यद्यदिच्छति मानवः ।।१७।।
तथैवागुरुधूपेन वरं दद्या दभीप्सितम् ।।
आरोग्यं वा स्त्रियं प्रेप्सुर्नित्यदा गुग्गुलं दहेत् ।। १८ ।।
मंगलं धूपदानेन सदा यच्छति भानुमान् ।।
आरोग्यं च स्त्रियं दद्या त्सौख्यं च परमं भवेत् ।। १९ ।।
सदा कुंकुमधूपेन सौभाग्यं लभते नरः ।।
श्रीवासकस्य धूपेन वाणिज्यं सफलं भवेत् ।। २० ।।
रसं सर्वरसोपेतं ददतोर्थागमो ध्रुवम् ।।
देवदारुं च दहतो भवत्यन्नमथाक्षयम् ।। २१ ।।
विलेपनं कुंकुमेन सर्वकामफलप्रदम् ।।
इह लोके सुखी भूत्वा दाता स्वर्गम वाप्नुयात् ।। २२ ।।
चंदनस्य प्रदानेन श्रियमायुश्च विंदति ।।
रक्तचंदनदानेन सर्वं दद्याद्दिवाकरः ।। २३ ।।
अपि रोगशतैर्ग्रस्तैः क्षिप्रारोग्यमवा प्नुयात् ।।
वर्तिगंधैश्च सौगंध्यं परमं विंदते नरः ।। २४ ।।
कस्तूरिकालेपनकैरैश्वर्यमतुलं लभेत् ।।
कर्पूरसंयुतैर्गंधैः क्ष्माधिपाधिपतिर्भवेत् ।। २५ ।।
चतुःसमेन गंधेन किं तुल्यं प्राप्नुयान्नरः ।।
देवागारं तु तन्मन्ये भक्त्या य उपलेपयेत् ।। २६ ।।
स रोगान्मुच्यते क्षिप्रं पुरुषो भोगवान्भवेत् ।।
अष्टादशेह कुष्ठानि ये चान्ये व्याधयो नृणाम् ।।
प्रलयं यांति ते सर्वे मृदा यद्युपलेपयेत् ।। २७ ।।
प्रलेपनानां सर्वेषां रक्तचंदनमुत्तमम् ।।
नातः परतरं किंचिद्भानोस्तुष्टिकरं परम् ।। २८ ।।
किं तस्य न भवेल्लोको यो ह्यनेन प्रलेपयेत् ।।
सर्वकामसमृद्धोऽसौ सूर्यलोके महीयते ।। २९ ।।
उपलिप्य रवेर्गेहं कुर्याद्वै मंडलं पुनः ।।
एकेनाथ समाप्नोति भाग्यमारोग्यमुत्तमम् ।। ३० ।।
त्रिभिः सप्तभिरच्छिन्ना बालो वान्योपि यो नरः ।।
तेन प्रदापयेद्देवान्कुर्यात्तान्न निवारयेत् ।।
अनेन विधिना कुर्याद्यावतीः सप्त सप्तमी ।। ३१ ।।
एता वै सप्त सप्तम्यो यथा प्रोक्ता विवस्वता ।।
कुर्वीत यो नरो भक्त्या सर्वपापैः प्रमुच्यते ।।३२।।
अर्कसंपुटकैर्वित्तं मरिचैः प्रियसंगमम् ।।
निंबपत्रै रोगनाशं फलैः पुत्रान्यथेप्सितान् ।।
धनं धान्यं सुवर्णं च ततो दद्याद्विवस्वते ।। ३३ ।।
जयं प्राप्नोति विपुलं कृत्वा सर्वत्र खेचर ।।
सर्वान्कामान्कामिकस्तु प्राप्नुयान्नात्र संशयः ।। ३४ ।।
नरो वा यदि वा नारी यथोक्तं सप्तमीव्रतम् ।।
यः करोति खगश्रेष्ठ स याति परमं पदम् ।। ३५ ।।
न तेषां त्रिषु लोकेषु किंचिदस्तीति दुर्लभम् ।।
ये भक्त्या लोकनाथस्य व्रतिनः संयतेन्द्रियाः ।। ३६ ।।
सर्वयज्ञफलं तेषां यथा वेदोदितं भवेत्।।
ब्रह्मेंद्रविष्णवस्तेन पूजिता नात्र संशयः ।।३७ ।।
नांधो न कुष्ठी न क्लीबो न व्यंगो न च निर्धनः ।।
कदापि च भवेत्कश्चिद्यश्चरेत्सप्तमीव्रतम् ।। ३८ ।।
पुत्रार्थी श्रुतिसंपन्नाल्लँभेत्पुत्राश्चिरायुषः ।।
न तेषां त्रिषु लोकेषु किंचिदस्तीति दुर्लभम् ।।
भोगार्थी लभते भोगान्व्रतेनानेन सुव्रत।। ३९ ।।
क्रोधात्प्रमादाल्लोभाच्च व्रतभंगो यदा भवेत् ।।
प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ।।४०।।
सप्तैव यावत्सप्तम्यः संप्राप्ता गुरुणा खग ।।
तासु भास्करमभ्यर्च्य माल्यधूपादिभिर्नरः ।।
भोजयित्वा द्विजाञ्छक्त्या प्राप्नुयात्स्वर्गमक्षयम् ।। ४१ ।।
सप्तम्यां विप्रमुख्येभ्यो योऽन्नं दद्यात्खगेश्वर ।।
तदक्षयं भवेत्तस्य स च सूर्यगृहं व्रजेत् ।। ४२ ।।
इति ते कीर्तितं वीर सप्तमीव्रतमुत्तमम् ।।
भूय एवाभिधास्यामि शृणु मे वदतोनघ ।। ४३ ।।
येन व्रतप्रभावेण कामिकं फलमश्नुते ।।
सप्तमीं खगशार्दूल शुक्लां द्वादशनामिकाम् ।। ४४ ।।
गोमूत्रगोमयाहारः षड्वृताहार एव च ।।
अथ वा यावकाहारः शीर्णपर्णाशनोपि वा। ।४५।।
क्षीराशी चैकभक्तं(चैव भक्तं?) वा सिक्थाहारोथ वा पुनः ।।
जलाहारोथ वा विद्वान्पूजयेत दिवाकरम् ।। ४६ ।।
पुष्पोपहारैर्विविधैः पद्मसौगंधिकोत्पलैः ।।
नानाप्रकारैर्गंधैश्च धूपैर्गुग्गुलुचंदनैः ।। ४७ ।।
कृशरैः पायसान्नैर्वा विविधैश्च विभूषणैः ।।
अर्चयित्वा द्विजश्रेष्ठ भक्ष्यवस्त्रादिभूषणैः ।। ४८ ।।
सर्वपक्षफलं प्राप्य सूर्यलोकं ततो व्रजेत् ।।
तपसोंते ततो वीर कुले महति जायते ।। ४९ ।।
यथाक्रमं प्रयत्नेन नामानि परिकीर्तयेत् ।।
माघे च फाल्गुने मासि चैत्रे च गरुडाग्रज ।। ५० ।।
वैशाखे त्वथ ज्येष्ठे तु आषाढे श्रावणे तथा ।।
मासि भाद्रपदे वीर तथा चाश्वयुजे खग ।। ५१।।
मार्गशीर्षे तथा पौषे पूजयेत्सततं रविम् ।।
विभावसुं विवस्वंतं भास्करं पक्षिसत्तम ।। ५२ ।।
विकर्तनं पतंगं च सहस्रांशुं खगाधिप ।।
एतानि देवनामानि मासेष्वेतेषु खेचर ।। ५३ ।।
पूजयेद्देवदेवेशं देवानामपि दुर्लभम् ।।
एवं क्रमेण तीक्ष्णांशुं नामभिः परिपूजयेत् ।। ५४ ।।
इत्येवं ते समाख्यातं मया गुह्यमिदं खग ।।
अभक्ताय न दातव्यं नाशिष्याय कथंचन ।। ५५ ।।
न च पापकृते वीर दातव्यं विनतात्मज ।।
व्याधेस्तु नाशनार्थाय देयं विप्राय सुव्रत ।। ५६ ।।
दत्त्वा स्वर्गमवाप्नोति श्रुत्वा च विधिवत्खग ।। ५७ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सौरधर्मे सप्तमीकल्पे नामपूजाविधिवर्णनं नाम षण्णवत्यधिकशततमोऽध्यायः ।। १९६ ।।