भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०७

← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०६ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०७
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०८ →

आदित्यपूजाविधिवर्णनम्

।। भीष्म उवाच ।। ।।
अहो देवस्य माहात्म्यं भास्करस्य त्वयोदितम् ।।
पूजयंति सदा ह्येनं ब्रह्मविष्णुशिवादयः ।। १ ।।
।। ।। व्यास उवाच ।। ।।
एवमेतन्न संदेहो यथा वदसि भारत ।।
नास्ति सूर्यसमो देवो नास्ति सूर्यसमा गतिः ।। २ ।।
नास्ति सूर्यसमं ब्रह्म नास्ति सूर्यसमं हुतम् ।।
नास्ति सूर्यसमो धर्मो नास्ति सूर्यसमं धनम् ।। ३ ।।
नास्ति सूर्यादृते कामो नास्ति सूर्यादृते पदम् ।।
नास्ति सूर्यसमो बंधुर्नास्ति सूर्यसमः सुहृत् ।। ४ ।।
नास्ति सूर्यसमा माता नास्ति सूर्यसमो गुरुः ।।
नास्ति सूर्यसमं तीर्थं न पवित्रं ततः परम् ।। ५ ।।
तमेकं दैवतं विद्यान्नैवाप्यर्कपरायणम् ।।
लोकानां देवतानां च पितॄणां चापि भारत ।। ६ ।।
तमर्चंतः स्तुवंतश्च प्राप्नुवंति परां गतिम्।।
ते प्रपन्नास्तु ये भक्त्या मुक्तास्ते भवसागरात्।। ७ ।।
राजा चोरा ग्रहाः सर्पा दारिद्र्यं दुःखसंपदः ।।
नैते पीडयितुं शक्ताः प्रसन्ने भास्करे सति ।। ८ ।।
।।व्यास उवाच ।। ।।
एवं तात महाबाहो देवो भास्करतत्परः ।।
स पूज्यः स नमस्कार्यः स हि ध्यातव्य एव च ।। ९ ।।
प्रत्यक्षदेवता ह्येषा देवदेवोयमादरात् ।।
अथ किं बहुनोक्तेन यद्वक्ष्यामि निबोध मे ।। 1.207.१० ।।
पूजयेत्तनयः पापी तथादित्यदिनैरपि ।।
पूजयन्ति नरा ये वै ते यांति परमां गतिम् ।। ११ ।।
प्राप्ते सूर्यदिने भक्त्या भानुं संपूज्य श्रद्धया ।।
नक्तं करोति पुरुषः स यात्यमरलोक्ताम् ।। १२ ।।
यस्तु पूर्वं रवेर्भक्त्या पञ्चरत्नसमन्वितम्।।
निवेदयति मंत्रेण स यात्यमरलोकताम् ।। १३ ।।
मार्तंडप्रीतये यस्तु कुर्याच्छ्राद्धं विधानतः ।।
संक्रान्तावयने वीर सूर्यलोकं स गच्छति ।। १४ ।।
कृत्वोपवासं षष्ठ्यां तु सप्तम्यां यस्तु मानवः ।।
करोति विधिवच्छ्राद्धं भास्करः प्रीयतामिति।।१५।।
सर्वदोषविनिर्मुक्तः सूर्यलोके महीयते ।।
मानवो यस्तु सप्तम्यां योषिद्वापि दिवाकरम् ।।१६।।
प्रपूज्य विधिवद्भानुं सर्वान्कामानवाप्नुयात् ।।
विशेषतस्तस्य दिने ग्रहणे च नराधिप ।। १७ ।।
इति भीष्म विजानीहि न देवो भास्करात्प्रियः ।।
आदित्यमेकं परमं देवदेवेषु पूजितम् ।। १८ ।।
रत्नपर्वतमारुह्य यथा भुवि नराधिपाः ।।
सत्त्वानुरूपं गच्छन्ति रत्नभागानशेषतः ।। १९ ।।
तथा भानुं समाराध्य प्राप्नुवंति नराः फलम्।।
धनार्थी प्राप्नुयादर्थं पुत्रार्थी प्राप्नुयात्सुतम् ।। 1.207.२० ।।
मोक्षार्थी मोक्षमाप्नोति चाथ वाऽमरतां व्रजेत् ।।
अथ किं बहुनोक्तेन शृणु त्वं वचनं मम ।। २१ ।।
ब्रह्मादयो देवगणा भानुमाराध्य भारत ।।
मनोहराणि दिव्यानि दिवि स्थानान्यवाप्नुवन् ।। २२ ।।
अचलानि महाभागाः सर्वपापहराणि च ।। २३ ।।
।। सुमन्तुरुवाच ।। ।।
 इत्युक्त्वा भगवान्व्यासस्तत्रैवांतरधीयत ।।
भीष्मोऽपि पूजयामास भक्त्या भानुं विधानतः ।।२४।।
तथा त्वमपि राजेन्द्र पूजयेमं दिवाकरम् ।।
पूजयित्वा रविं भक्त्या स्थानं यास्यसि शाश्वतम् ।।२५।।
यथा गतः स भगवान्व्यासो भीष्मश्च मानद ।।
सकृत्प्रपूज्य सप्तम्यां भक्त्या देवं दिवाकरम् ।। २६ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्यासभीष्मसंवादे आदित्यपूजामाहात्म्यवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः ।। २०७ ।।