भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २१३

सौरार्चनविधिवर्णनम्

।। सुमंतुरुवाच ।। ।।
दृष्ट्वा तु पावकं देवं पावकस्थं दिवाकरम् ।।
अव्यात्तु सपरीवारं घुकारं परिकीर्तयेत् ।। ।। १ ।।
एवं कृते शोधनं स्यात्पावकस्य न संशयः ।।
पद्मगर्भे ततो वाथ हृदयाग्नौ समाक्षिपेत् ।। २ ।।
आवाहितो भवेद्देवदेवः साक्षान्न संशयः ।।
ओंकारेणाहुतिशतं नेत्रांजनसमाधिना ।। ३ ।।
पञ्चाहुतीस्ततो दद्यादंगानां प्रीतये नृप ।।
विसर्जनं ततः कुर्याद्धृदयेन विचक्षणः ।। ४ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरार्चनविधिवर्णनं नाम त्रयोदशाधिकद्विशततमोऽध्यायः ।। २१३ ।।