भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २१४

मरिचसप्तमीव्रतवर्णनम्

।। सुमन्तु रुवाच ।। ।।
पद्मिनी च तथान्या तु मध्यमानामनी तथा ।।
अर्किणी ज्वालिनी चैव तेजनी च गभस्तिनी ।। १ ।।
शंखमुद्रा च दशमी सूर्य वक्त्रा तथापरा ।।
सहस्रकिरणा चैव मुद्रा द्वादश कीर्तिताः ।। २।।
दद्यादर्घ्यं तु पद्मिन्या व्योम बद्धा जपेद्बुधः ।।
उदयाश्रयः समाकर्षे मध्यमा व्याधिनाशिनी ।। ३ ।।
अर्किण्या पश्यते सूर्यं विधिस्थस्तु भवेद्यदि ।।
ज्वालिनीमुपसंगंतुं बद्ध्वा सूर्यमुखो जपेत् ।। ४ ।।
सप्ताहाद्वीक्षते सूर्यं सिध्यते च ततः स्वयम् ।।
अवतीर्य पद्मखंडं सूर्यादभिमुखो नरः ।। ५ ।।
जपञ्छतसहस्रं हि अक्षयं लभते निधिम् ।।
शंखमुद्रादिभिरिमं सूर्य चक्रविधिं शृणु ।। ६ ।।
अहोरात्रोषितो भूत्वा बद्ध्वा सूर्यमुखो नरः ।।
स्थितः पद्मासने राजञ्जपंश्चाप्ययुतं मनुम् ।। ७ ।।
पश्यते तु त्र्यहात्सूर्यं भवेत्सिद्धिश्च मानसी ।।
सहस्रकिरणं बद्ध्वा नाभिमात्रजले स्थितः ।। ८ ।।
जपेदयुतमात्रं तु भवेत्तद्गतमानसः ।।
सहस्रकिरणं देवं परं रश्मिभिरावृतम्।। ।। ९ ।।
स पश्यति परं धाम भवेत्सिद्धिश्च पुष्कला ।।
शापानुग्रहकर्तासौ सर्वेषां प्राणिनां भवेत् ।। 1.214.१० ।।
सर्वतः कञ्चुकं मुक्त्वा भवेद्वै विगत ज्वरः ।। ११ ।।
परौ गुल्फौ करौ कृत्वा संलग्नौ च परस्परम् ।।
वामानामिकयाक्रम्य दक्षिणां तु कनीयसीम् ।। १२ ।।
वामा दक्षिणया चैव दक्षिणा वामया तथा ।।
मुद्रैषा हि महापुण्या व्योममुद्रा प्रकीर्तिता ।। १३ ।।
बद्धया चानया सद्यो हीयंते व्याधयो नृणाम् ।।
नानया रहितः कश्चित्सिद्धिं प्राप्नोति साधकः ।। १४ ।।
सर्वत्रैवोत्तमा ह्येषा मंत्रमुष्टिरिति स्मृता ।।
सूर्यस्य हृदयं सेयमर्कमुद्रेति विश्रुता ।। १५ ।।
बध्नीयात्सततं मन्त्रैरायुरारोग्यवृद्धये ।।
सूर्यमंडल अभ्यग्रे मन्त्री सूर्योदये स्थितः ।। १६ ।।
स सूर्याभिमुखो भूत्वा जपेन्मंत्रं तु साधकः ।।
दिनत्रयेण वीक्षेत ध्यानी जपपरायणः ।। १७ ।।
तं दृष्ट्वा नाश्नुते मृत्युं दुःखी न च न संशयः ।।
प्राप्नोति च परं स्थानं यत्र देवो दिवाकरः ।। १८ ।।
उत्तानौ तु करौ कृत्वा पृष्ठलग्नौ परस्परम् ।।
बद्ध्वा त्वंगुलयः सर्वाः सुप्रकीर्णा न संशयः ।। १९ ।।
आक्रम्य चांगुलीमूलमंगुष्ठाभ्यां यथाक्रमम् ।।
उदया नाम मुद्रैषा बध्नीयादुदये रवेः ।। 1.214.२० ।।
द्वादशाद्वीक्षते सूर्यं दिनात्स हि न संशयः ।।
सर्वपापहरा चैव सर्वपापविनाशिनी ।। २१ ।।
उदया च विना वामं मध्यतश्चैव तं क्षिपेत् ।।
मध्यमा नाम विख्याता मध्यसू्र्ये तु चिन्तयेत् ।। २२ ।।
मध्यमा विधिना तेन बद्ध्वा मुद्रां तु साधकः ।।
अंगुल्योः परमंगुष्ठौ विधिना तावुभौ ग्रथेत् ।। २३ ।।
मुद्रा सास्तमनी ह्येषा सर्वतन्त्रेश्वरी शुभा ।।
सूर्यस्यास्तमने मुद्रा बद्ध्वा जप्तं समारभेत् ।। २४ ।।
सहस्रं हि शतं वापि मुद्रां बद्ध्वा जपेद्बुधः ।।
सर्वपातकसंयुक्तः सप्ताहादनुशोभनम् ।। २५ ।।
करौ परस्परं लग्नावंगुष्ठौ चोर्ध्वसंस्थितौ ।।
उभौ चांगुष्ठकौ चोर्ध्वौ संलग्नौ मूर्ध्नि संस्थितौ ।। २६ ।।
मुद्रा नु मालिनी चैव निर्दहेत्पापपञ्जरम् ।।
ब्रह्महत्यादि यत्पापं योजिता सा तु मूर्धनि ।। २७ ।।
विदर्भ्यांगुलयः सर्वा ईषन्मध्यस्तथाग्रतः ।।
ऊर्ध्वस्थितौ तषांगुष्ठौ मुद्रेयं तर्जनी स्मृता ।। २८ ।।
सर्वव्याधिहरा देवी सर्व शत्रुविनाशिनी ।।
एतां बद्ध्वा महापुण्यां सर्वान्स्तंम्भयते रिपून् ।। २९ ।।
उभौ प्रसार्य वै हस्तौ मध्ये सार्धेन संस्थितौ ।।
शेषानाम्या ततश्चैव अंगुष्ठाग्रं तथा क्रमात् ।। 1.214.३० ।।
मुद्रा गभस्तिनी नाम सूर्यस्य हृदयं परम् ।।
मृत्युं नाशयते ह्येषा बद्ध्वा सूर्योदये शुभा ।।३१।।
अर्घ्यकाले तु बध्नीयादर्चयाग्निं प्रपूजयेत् ।।
जपकाले च बध्नीयान्मंत्राणां नात्र संशयः ।। ३२ ।।
विदक्षिणकनिष्ठिक्यां तर्जनीभ्यां तथा भवेत् ।।
तर्जनीभ्यां तथांगुष्ठौ संलग्नौ तु परस्परम् ।।
जपं यः कुरुते नित्यं त्रिभिर्मासैर्विशुद्यति ।। ३३ ।।
करौ तु संपुटौ कृत्वा तर्जन्यौ द्वे च कुञ्चयेत् ।।३४।।
सहस्रकिरणा ह्येषा सर्वमुद्रेश्वरेश्वरी ।।
त्रिसंध्यमेतां बध्नीयात्साधको मंत्रमूर्धनि ।।
नाशयेत्सर्वपापानि तमोराशिमिवांशुमान् ।। ३५ ।।
मुद्रा मुद्रककुंभेति बद्ध्वा पश्चात्तु मंत्रयेत् ।।
मासेन नाशयेत्कुष्ठं त्रिभिर्मासैर्न संशयः ।।
इति मुद्रांगसहितं सूर्यं पूजयते तु यः ।। ३६ ।।
अनेन विधिना राजन्ब्रह्मा पूजयते रविम् ।।
तस्मात्त्वमपि राजेंद्र पूजयानेन भास्करम् ।। ३७ ।।
ततः सूर्यमवाप्येह सूर्यलोकं स गच्छति ।।
अनेन विधिना यस्तु पूजयेत्सत तं रविम् ।। ३८ ।।
स याति परमं स्थानं यत्र देवो दिवाकरः ।।
इत्थं पूज्य च देवेशमनेन विधिना नृप ।। ३९ ।।
भोजयित्वा यथाशक्ति ब्राह्मणांश्च विधानतः ।।
सप्तम्यां प्राशयेद्वापि मरिचं मंत्रतस्तथा ।। 1.214.४० ।।
एकं गृहीत्वा मरिचमव्रणं च दृढं परम् ।।
सजलं प्राशयेद्राजन्मन्त्रेणानेन वा स्मृतम् ।। ४१ ।।
यथोक्तेन विधानेन पूजयित्वा दिवाकरम्।।
इति संप्राश्य मरिचं ततो भुंजीत वाग्यतः ।।४२।।
प्रियसंगमवाप्नोति तत्क्षणादेव नान्यथा ।।
इतीयं सप्तमी पुण्या प्रियसंगमदायिनी ।। ४३ ।।
कुर्यादेकेन कामांस्तु वत्सरेण स गच्छति ।।
पुत्रादिभिर्नरश्रेष्ठ पुनः संगममृच्छति ।। ४४ ।।
कुरु तस्मान्महाबाहो त्वमेव प्रियदायिनीम् ।।
उपोष्य इंद्रो विधिवत्सुरामरिचसप्तमीम् ।। ४५ ।।
संयोगं कृतवान्वीर सह शच्या विधानतः ।।
उपोष्यैनां नलश्चापि दमयन्त्या महाबलः ।। ४६ ।।
रामोऽगात्सीतया सार्धमुपोष्यैनां नराधिप ।। ४७ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे मरिचसप्तमीव्रतवर्णनं नाम चतुर्दशाधिकद्विशततमोऽध्यायः ।। २१४ ।।