पुराणश्रवणविधिवर्णनम्

।। सुमंतुरुवाच ।। ।।
शृणुष्वर्चाविधिं राजन्मंत्रपूतेन वारिणा ।।
प्रोक्षणीयं प्रयत्नेन किमर्थं सुसमाहितः ।। १ ।।
हदयादिष्वथांगेषु मंत्रं विन्यस्य मंत्रवित् ।।
आत्मानं भास्करं ध्यात्वा परिचारसमन्वितः ।। २ ।।
कुर्यात्संमार्जनीं मुद्रां दिशां च प्रतिबोधनम् ।।
पाताले भूशोधनं चैव नभसश्च तथा मतम् ।। ३ ।।
अर्चनस्य प्रकारोऽयं सर्वेषामीप्सितप्रदः ।।
सर्वैरपि बुधैर्वीर पद्ममेतत्प्रकीर्तितम् ।। ४ ।।
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम् ।।
आवाहनीं ततो बद्ध्वा मुद्रामावाहयेद्रविम् ।। ५ ।।
खषोल्कं स्नापयेत्तत्र स्वरूपं लोभदायकम् ।।
स्थापयेत्स्नापयेच्चैव मंत्रै मंत्रशरीरिणम् ।। ६ ।।
आग्नेय्यां दिशि देवस्य हृदयं स्थापयेन्नरः ।।
ऐशान्यां तु शिरः स्थाप्य नैर्ऋत्यां विन्यसेच्छिखाम् ।। ७ ।।
पौरंदर्यां न्यसेन्नेत्रे एकामहृदयस्तु सः ।।
आवाह्य चैकं कवचं वारुण्यामस्त्रमेव च ।। ८ ।।
ऐशान्यां स्थापयेत्सोमं पौरंदर्यां तु लोहितः ।।
आग्नेय्यां सोमतपनं याम्यां चैव बृहस्पतिम् ।। ९ ।।
नैर्ऋत्यां दानवं शुक्रं वारुण्यां च शनैश्चरम् ।।
वायव्यां च तथा केतुं कौबेर्यां राहुमेव च ।। 1.216.१० ।।
द्वितीयायां तु कक्षायां देवतेजःसमुद्भवान् ।।
स्थापयेद्द्वादशादित्यान्काश्यपेयान्महाबलान् ।। ११ ।।
भगः सूर्योर्यमश्चैव मित्रो वरुण एव च ।।
सविता चैव धाता च विवस्वांश्च महाबलः ।। १२ ।।
त्वष्टा पूषा तथा रुद्रो द्वादशो विष्णुरुच्यते ।।
पूर्वे चेन्द्राय दक्षिणे यमाय पश्चिमे वरुणाय उत्तरे कुबेराय ऐशान्यामीश्वराय आग्नेय्यामग्निदेवतायै नैर्ऋत्यां पितृदेवेभ्यो वायव्यां वायवे ।।
जया च विजया चैव जयंती चापराजिता ।।
शेषश्च वासुकिश्चैव रेवती च विनायकः ।।
महाश्वेता महादेवी राज्ञी चैव सुवर्चला ।। १३ ।।
तथान्यो वापि देवानां समूहस्त त्र तत्र ह ।।
तथान्यो लोकविख्यातो योगः प्रोक्तश्च दक्षिणे ।। १४ ।।
पुरस्ताद्भासुरस्थाने स्थापनीया विजानता ।।
सिद्धिर्वृद्धिः स्मृतिर्देवी श्रीश्चैवोत्पलमालिनी ।। १५ ।।
स्थाप्या स्वदक्षिणे पार्श्वे लोकपूज्या समंततः ।।
प्राज्ञावती क्षुधा वीर हारीता बुद्धिरेव च ।। १६ ।।
स्थाप्य बुद्धिमती नित्यं श्रीकामैर्वा विवस्वतः ।।
ऋद्धिश्चैव विसृष्टिश्च पौर्णमासी विभावरी।।
स्थाप्याश्च स्वोत्तरे पार्श्वे इत्येता देवशक्तयः ।।१७।।
दीपश्चान्नमलंकारो वासः पुष्पाणि मन्त्रतः ।।
देयानि देवदेवाय सानुगाय समूर्तये ।।१८।।
विधिनानेन सततं सदा योर्चयति भास्करम् ।।
संप्राप्य परमान्कामांस्ततो भानुसदो व्रजेत् ।। १९ ।।
अनेन विधिना यस्तु भोजयेद्भास्करं नृप ।।
त्वं निंब कटुकात्मासि आदित्यनिलयस्तथा ।।
सर्वरोगहरः शान्तो भव मे प्राशनं सदा ।। 1.216.२० ।।
इत्थं प्राश्य जपेद्भूमौ देवस्य पुरतो नृप ।।
ब्राह्मणान्भोजयित्वा तु शक्त्या दत्त्वा तु दक्षिणाम्।। २१ ।।
भुञ्जीत वाग्यतः पश्चान्मधुरं क्षारवर्जितम् ।।
इत्येषा वर्षपर्यन्तं कर्तव्या चैव सप्तमी ।। २२ ।।
कुर्वाणः सप्तमीमेतां सर्वरोगैः प्रमुच्यते ।।
सर्वरोग विनिर्मुक्तः सूर्यलोकं स गच्छति ।। २३ ।।
।। सुमन्तुरुवाच ।। ।।
अथ भाद्रपदे मासि सिते पक्षे महीपते ।।
कृत्वोपवासं सप्तम्यां विधिवत्पूजयेद्रविम् ।। २४ ।।
माहेश्वरेण विधिना पूजयेदत्र भास्करम् ।।
अष्टम्यां तु पुनः स्नातः पूजयित्वा दिवाकरम् ।। २५ ।।
दद्यात्फलानि विप्रेभ्यो मार्तण्डः प्रीयतामिति ।।
खर्जूरं नालिकेरं च मातुलिङ्गफलानि च ।। २६ ।।
देवस्य पुरतो दत्त्वा तथा चाम्रफलानि च ।।
इति ते कथितं राजन्सप्तमीफलमादितः ।। २७ ।।
महातपो महाश्रेष्ठं भास्करस्य विशाम्पते ।।
यच्छ्रुत्वा मानवो राजन्मुच्यते ब्रह्महत्यया ।। २८ ।।
तथेदं परमं पर्व कथितं ब्रह्मसंज्ञितम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यन्ते मानवा नृप ।। २९ ।।
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।।
सर्वतीर्थाभिगमने वेदाभ्यासे च यत्फलम् ।।
यत्फलं पृथिवीदाने तत्सर्वं प्राप्नुयान्नरः ।। 1.216.३० ।।
राजसूयसहस्रस्य वाजपेयशतस्य च ।।
सहस्रशतदानस्य फलं विंदति मानवः ।। ३१ ।।
लेखत्वं ब्राह्मणो गच्छेत्क्षत्रियो विप्रतां व्रजेत् ।।
वैश्योऽपि क्षत्रतां याति शूद्रो वैश्यत्वमेव च ।। ३२ ।।
सूतमागध बन्द्याद्या ये चान्ये संकरोद्भवाः ।।
तेऽपि यांत्युत्तमं स्थानं पुराणश्रवणाद्विभो ।। ३३ ।।
इतिहासपुराणाभ्यां न त्वन्यत्पावनं नृणाम् ।।
येषां श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ।। ३४ ।।
विधिना राजशार्दूल शृण्वतां यत्फलं किल ।।
यथोक्तं नात्र संदेहः पठतां च विशांपते ।। ३५ ।। ।।
।। शतानीक उवाच ।। ।।
भगवन्केन विधिना श्रोतव्यं भारतं नरैः ।।
चरितं रामभद्रस्य पुराणानि विशेषतः ।। ३६ ।।
कथं तु वैष्णवा धर्माः शिवधर्मा अशेषतः ।।
सौराणां चापि विप्रेन्द्र उच्यतां श्रवणे विधिः ।। ३७ ।।
वाचनीयं कथं चापि वाचको द्विजसत्तम ।।
लक्षणं चास्य मे ब्रूहि वाचकस्य महात्मनः ।। ३८ ।।
स्वरूपं चास्य मे ब्रूहि खषोल्कस्य महात्मनः ।।
फलं च पूजिते किं स्याद्वाचके विधिवद्द्विज ।। ।। ३९ ।।
पारणेपारणे पूज्यो वाचकः श्रावकैः कथम् ।।
समाप्ते भगवन्किंकिं देयं पर्वणि वाचके ।। 1.216.४० ।।
न च किं कार्यसिद्धं यत्सिद्धं पर्वणि पर्वणि ।।
।। सुमन्तुरुवाच ।। ।।
सम्यक्पृष्टोऽस्मि राजेन्द्र इतिहासपुराणयोः ।। ४१ ।।
श्रवणे तु महाबाहो श्रूयतां यन्मया पुरा ।।
पृष्टो वोचन्महातेजा विरिंचो भगवान्गुरुः ।। ४२ ।।
हंत ते कथयाम्येष पुराणश्रवणे विधिम् ।।
इतिहासपुराणानि श्रुत्वा भक्त्या विशेषतः ।।
मुच्यते सर्वपापेभ्यो ब्रह्महत्यादिभिर्विभो ।। ४३ ।।
सायं प्रातस्तथा रात्रौ शुचिर्भूत्वा शृणोति यः ।।
तस्य विष्णुस्तथा ब्रह्मा तुष्यते शंकरस्तथा ।। ४४ ।।
प्रत्यूषे भगवान्ब्रह्मा दिनांते तुष्यते हरिः ।।
महादेवस्तथा रात्रौ शृण्वतां तुष्यते विभुः ।।
पारणानि दशाहेषु एके कुर्वंति तानि भोः ।। ४५ ।।
भवेद्वै राजशार्दूल शृणु तेषां च यत्फलम् ।।
विधानं वाचकस्येह शृण्वतां च विशांपते।।४६।।
शुद्धवासा गृहादेत्य स्थानं यत्समयान्वितम् ।।
प्रदक्षिणं ततो गत्वा यस्तस्मिन्देव एव हि ।। ४७ ।।
नात्युच्चं नातिनीचं च ह्यासनं भजते ततः ।।
आसनं तस्य वै राजन्बोधकस्य सदा भवेत् ।। ४८ ।।
वन्दनीयं प्रपूज्य च श्रोतृभिः कुरुनन्दन ।।
व्यासपीठं तु तत्प्रोक्तं गुरोरासनमादिशेत् ।। ४९ ।।
न स्थेयं श्रावकैस्तस्माद्वाचकस्यासने नृप ।।
राजासने यथा भृत्यैर्यथा पुत्रैः पितुर्नृप ।। 1.216.५० ।।
यथा शिशुर्गुरोर्वीर स तेषां हि गुरुर्मतः ।।
देवार्चामग्रतः कृत्वा ब्राह्मणार्चां विशेषतः ।। ५१ ।।
उप विश्य ततः पश्चाच्छ्रावकः शृणुयान्नृप ।।
समस्तानागतान्कृत्वा ततः पुस्तकमाददेत् ।। ५२ ।।
प्रणम्य शिरसा तस्य पुस्तकस्य विशांपते ।।
ग्रंथिं च शिथिलां कुर्याद्वाचकः कुरुनन्दन ।।
पुनर्बध्नीत तत्सूत्रं तन्मुक्त्वा वाचयेत्क्वचित् ।। ५३ ।।
त्रिविधं पुस्तकं विद्यात्सूत्रं वासुकिरुच्यते ।।
पत्राणि भगवान्ब्रह्मा अक्षराणि जनार्दनः ।।५४।।
शंकरश्च तथा सूत्रं पंक्तयः सर्वदेवताः ।।
पावकश्च तथा सूत्रे मध्ये भानुः समाश्रितः ।।५५।।
अग्रे स्थिता ग्रहाः सर्वे दिशो वापि तथा विभो ।।
स्मृतो मेरुः सदा शंकुश्छिद्रमाकाशमुच्यते ।।५६।।
यंत्रद्वयं काष्ठमयमधोर्ध्वं यदुदाहृतम् ।।
द्यावापृथिव्योश्च शंखस्तथा चंद्र उदाहृतः ।।५७।।
इत्थं देवमयं ह्येतत्पुस्तकं देवपूजितम् ।।
नमस्यं पूजनीयञ्च गृहे स्थाप्यं विभूतये।। ५८ ।।
योऽस्य सूत्रं बृहत्कृत्वा प्रयच्छति नरोत्तमः ।।
स याति परमं स्थानं यत्र देवो दिवाकरः।।५९।।
निरूप्य पात्रं राजेन्द्र कराभ्यां गृह्य वाचकः ।।
प्रणम्य शिरसा सर्वान्ब्रह्मादीन्व्यासमेव च ।।
वाल्मीकिं च तथा राजन्विधिं विष्णुं शिवं रविम्।।1.216.६०।।
नमस्कारमथैषां तु पठित्वा कुरुनंदन।।
ततोसौ व्याहरेद्विप्रान्वाचकः श्रदयान्वितः६१।। ।
अलंबितमतस्तब्धमद्भुतं वीरमूर्जितम् ।।
असंसक्ताक्षरपदं रसभावसमन्वितम् ।। ६२ ।।
सप्तस्वरसमायुक्तं कालेकाले विशांपते ।।
प्रदर्शयन्रसान्त्सर्वान्वाचको व्याहरेन्नृप ।। ६३ ।।
ईदृशाद्वाचकाद्विप्राच्छ्रुत्वा श्रद्धासमन्वितः ।।
इतिहासपुराणानि रामस्य चरितं तथा।। ६४।।
नियमस्थः शुचिः श्रोता शृणुयात्फलमश्नुते ।।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि विशेषतः ।। ६५ ।।
अश्वमेधमवाप्नोति सर्वान्कामानवाप्नुते ।।
रोगैश्च मुच्यते सर्वैर्महत्पुण्यं च विंदति ।।
गच्छेद्वापि परं स्थानं देवस्याद्भुतमुत्तमम् ।।६६।।
स्नातैर्गृहं समागम्य श्रोतृभिर्वाचकस्य तु ।।
प्रणम्य शिरसा विप्रं वाचकं श्रद्धया नृप।।६७।।
आसनं च समाश्रित्य स्थातव्यं वाचकस्य तु।।
संमुखं राजशार्दूल वाग्यतैः सुसमाहितैः।।६८।।
वाचकेन नमस्कारे कृते व्यासस्य भूपते।।
न वक्तव्यं महाबाहो श्रावकैः संशयादृते ।।६९।।
संशये सति प्रष्टव्यो वाचकः संप्रसाद्य तु ।।
यतश्च स गुरुस्तेषां धर्मतो बंधुरुच्यते।।1.216.७०।।
वाचकेनापि वक्तव्यं यत्स्यात्तेषां निबोधनम् ।।
अनुग्रहाय सर्वेषामशेषा गुरवो नृप ।। ७१ ।।
नमस्कारादयः श्राव्या शिवमस्त्विति वोद्यते ।।
वाग्यतैर्नृपशार्द्ल वर्णैः सर्वैर्महीपते।।७२।।
शूद्राणां पुरतो वैश्या वैश्यानां क्षत्रिणस्तथा ।।
मध्यस्थितोऽथ सर्वेषां वाचको व्याहरेन्नृप ।।
ये च संकरजा राजन्नरास्ते शूद्रपृष्ठतः ।। ७३ ।।
ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरेत् ।।
श्रुत्वान्यवर्णजाद्वाचं वाचकान्नरकं व्रजेत् ।। ७४ ।।
इत्थं हि शृण्वतां तेषां वर्णानामनुपूर्वशः ।।
मासिमासि भवेद्राजन्पारणं कुरुनन्दन ।। ७५ ।।
श्रेयोऽर्थमात्मनो राजन्पूजयेद्वाचकं बुधः ।।
मासि पूर्णे द्विज श्रेष्ठे दातव्यं स्वर्णमाषकम् ।। ७६ ।।
ब्राह्मणेन महाबाहो द्वे देये क्षत्रियस्य तु ।।
वाचकाय द्विजश्रेष्ठ वैश्येनापि त्रयं तथा ।। ७७ ।।
शूद्रेणैव च चत्वारो दातव्याः स्वर्णमाषकाः ।।
मासिमासि द्विजश्रेष्ठ श्रद्धया वाचकाय तु ।। ७८ ।।
प्रथमे पारणे राजन्वाचकं पूज्य शक्तितः ।।
अग्निष्टोमस्य यज्ञस्य फलं विंदति मानवः ।। ७९ ।।
कार्तिकादीन्समारभ्य यावत्कार्त्तिकमच्युत ।।
अग्निष्टोमं गोसवं च ज्योतिष्टोमं तथा नृप ।। 1.216.८० ।।
सौत्रामणिं वाजपेयं वैष्णवं च तथा विभो ।।
माहेश्वरं तथा ब्राह्मं पुंडरीकं यजेत यः ।। ८१ ।।
आदित्ययज्ञस्य तथा राजसूयाश्वमेधयोः ।।
फलं प्राप्नोति राजेंद्र मासैर्द्वादशभिः क्रमात् ।।
इत्थं यज्ञफलं प्राप्य याति लोकांस्तथोत्तमान् ।। ८२ ।।
वज्रवेदिकसंपन्नं मणिरत्नविभूषितम् ।।
विमानमास्थितो राजन्मोदते शक्रमंदिरे ।। ८३ ।।
ततश्चंद्रस्य भवने वारुणे भवने ततः ।।
शोचिष्केशगृहे गत्वा गच्छेच्चैलविले गृहे ।। ८४ ।।
धिषणस्य गृहं गत्वा ततश्चित्रशिखंडिनः ।।
वृद्धश्रवसमासाद्य गच्छेत्कंजजमंदिरे ।।
एवमेव नृपश्रेष्ठ नात्र कार्या विचारणा ।। ८५ ।।
फलमेतत्समुद्दिष्टं शृण्वतां सततं नृणाम् ।।
एतत्फलं वत्सरेण शृण्वतो विधितो नृप ।। ८६ ।।
एतानि परिमाणानि वत्सरेण भवंति वै ।।
शृण्वतां नृपशार्दूल ददतां वाचकाय वै ।। ८७ ।।
एकं च द्वे तथा त्रीणि चत्वारि च विशांपते ।।
देयानि वाचकायेह मासिमासि नराधिप ।। ८८ ।।
ब्राह्मणाद्यैर्नृप श्रेष्ठ सर्ववर्णविभागशः ।।
समाप्ते पर्वणि तथा वाचकं पूजयेत्पुनः ।।८९।।
वाचकं ब्राह्मणं चैव सर्वकामैः प्रपूजयेत् ।।
गन्धमाल्यादिभिर्दिव्यैर्वा सोभिर्विविधैरपि ।। 1.216.९० ।।
वाचकाय प्रदत्त्वा तु ततो विप्रान्प्रपूजयेत् ।।
हिरण्यं रजतं रुक्मं गाश्च कांस्योपदोहनाः ।।९१।।
दत्त्वा च वाचकायेह श्रुतस्य प्राप्यते फलम् ।।
यथा सदक्षिणं चान्नं श्राद्धकाले प्रकीर्तितम् ।।
तथा श्रुतं नृपश्रेष्ठ सदक्षिणमुदाहृतम् ।। ९२ ।।
वाचकं पूजयेद्यस्मा त्पश्चाल्लेखकपूजनम् ।।
समाप्ते पर्वणि विभो विशेषेणैव चार्चयेत् ।। ९३ ।।
वाचकः पूजितो येन पूजितास्तेन देवताः ।।
वाचके परितुष्टे च मम प्रीतिरनुत्तमा ।।९४।।
इति वेधाः सदा प्राह देवानां पुरतः पुरा ।।
तस्मिंस्तुष्टे जगत्सर्वं तुष्टं भवति नित्यशः।।।।
तस्मात्प्रपूजयेद्विप्र वाचकं नृप सत्तम ।।
न तुल्यं वाचकेनेह पात्रदानस्य विद्यते।।९६।।
तिष्ठंति यस्य शास्त्राणि जिह्वाग्रे पृथिवीपते।।
दृष्टश्च गोचरस्तात कस्तेन सदृशो द्विजः।।९७।।
न तुल्यं विद्यते तेन भुवि पात्रं नरेषु वै ।।
तस्मादन्नं सदा पूर्वं तस्मै देयं विदुर्बुधाः ।।
श्राद्धे यस्य द्विजो भुंक्ते वाचकः श्रदयान्वितः ।।
भवंति पितरस्तस्य तृप्ता वर्षशतं नृप ।।९८।।
यथेह सर्वदेवानां भास्करः प्रवरः स्मृतः ।।
विस्पष्टमद्भुतं शांतं स्पष्टाक्षरपदं तथा ।।
कलस्वरसमायुक्तं रसभावसमन्वितम् ।। ९९ ।।
बुध्यमानः सदात्यर्थं ग्रंथाथं कृत्स्नशो नृप ।।
ब्राह्मणादिषु वर्णेषु ग्रंथार्थं वाचयेन्नृप ।। 1.216.१०० ।।
य एवं वाचयेद्राजन्य विप्रो व्यास उच्यते ।।
अतोऽन्यथा कथयिता ज्ञेयोऽसौ वक्तृनामकः ।। १०१ ।।
इत्थंभूतो वसेद्यस्मिन्वाचको व्याससन्निभः ।।
देशेऽथ पत्तने राजन्स देशः प्रवरः स्मृतः ।। १०२ ।।
ते धन्यास्ते महात्मानस्ते कृतार्था न संशयः ।।
वसंति यत्नतो यस्मिन्स देशः प्रवरः स्मृतः ।। १०३ ।।
न शोभते पुरं वीर व्यासहीनं कदाचन ।।
यथार्कहीनं हि दिनं चंद्रहीना यथा निशा ।। १०४ ।।
न राजते सरो यद्वत्पद्मिनी रहितं नृप ।।
तथा व्यासविहीनं तु राजते न पुरं क्वचित् ।। १०५ ।।
प्रणम्य वाचकं भक्त्या यत्फलं प्राप्यते नरैः ।।
न तत्क्रतुसहस्रेण प्राप्यते कुरुनंदन ।। १ ० ६ ।।
यथैकतो ग्रहाः सर्वे एकतस्तु दिवाकरः ।।
तथैकतो द्विजाः सर्वे एकतस्तु स वाचकः ।। १०७ ।।
यथा वेदसमो नास्ति आगमो भुवि कश्चन ।।
तथा व्याससमो नास्ति ब्राह्मणो भुवि कश्चन ।। १०८ ।।
कुरुक्षेत्रसमं तीर्थं न द्वितीयं प्रचक्षते ।।
न नदी गंगया तुल्या न देवो भास्कराद्वरः ।।१०९।।
नाश्वमेधसमं पुण्यं न पापं ब्रह्महत्यया ।।
पुत्रजन्मसुखैस्तुल्यं न सुखं विद्यते यथा ।।1.216.११ ०।।
तथा व्याससमो विप्रो न क्वचित्प्राप्यते नृप ।।
दैवे कर्मणि पित्र्ये च पावनः परमो नृणाम् ।। १११ ।।
नास्ति व्याससमः श्रेष्ठ इतीयं वैदिकी श्रुतिः ।।
अथ विप्रसहस्राणां विप्रोऽयं श्रेष्ठ ईरितः ।।
उपविष्टो यदा भुंक्ते व्यासो वै विप्रमण्डले ।।११२।।
श्राद्धे तात पवित्राणि कथितानि पुरा मम।।
ब्रह्मणा राजशार्दूल शृणु तानि यथाविधि ।।११३।।
मधु पायसं कालशाकस्तिलाश्च कुतपस्तथा ।।
राजतं चापि पात्रेषु ब्राह्मणेष्वथ वाचकः ।।११४।।
दैवे कर्मणि पित्र्ये च स ज्ञेयः पंक्तिपावनः ।।
वाचकश्च यतिश्चैव तथा यश्च षडंगवित् ।। ११५ ।।
एते सर्वे नृपश्रेष्ठ विज्ञेयाः पंक्तिपावनाः ।।
नामनी वाचकस्यैते शृङ्गवार्थमथैतयोः ।। ११६ ।।
इतिहासपुराणानि जयेति विदितानि वै ।।
उपजीवति यस्माद्वै वाचयानो द्विजो नृप ।।
जयोपजीवी तेनासौ गतः ख्यातिं तु वाचकः ।। ११७ ।।
विस्पष्टमद्भुतं शांतं स्पष्टाक्षरमिदं तथा ।।
कलस्वरसमायुक्तं रसभावसमन्वितम्।।११८।।
युध्यमानोथ वात्यर्थं ग्रंथार्थं कृत्स्नशो नृप ।।
ब्राह्मणादिषु वर्णेषु ग्रंथार्थं चार्पयेत्तथा ।। ११९ ।।
य एवं वाचयेद्राजन्य विप्रो व्यास उच्यते ।।
अतोऽन्यथा वाचयिता न गच्छेद्व्यासतां क्वचित् ।। 1.216.१२० ।।
त्रिविधं वाचकं विद्यात्सदा गुणविभेदतः ।।
श्रावकं च महाबाहो त्रिविधं गुणभेदतः ।। १२१ ।।
द्वावेतौ कथ्यमानौ तु निबोध गदतो मम ।।
अभिद्रुतं तथास्पष्टं विस्तरं स्वरवर्जितम् ।।१२२।।
पदच्छेदविहीनं च तथा भावविवर्जितम् ।।
अबुध्यमानो ग्रंथार्थमभीष्टोत्साहवर्जितः ।। १२३ ।।
ईदृशं वाचयेद्यस्तु वाचकः क्ष्माधिपेश्वर ।।
क्रोधनोऽप्रियवादी च अज्ञानाद्ग्रंथदूषकः ।। १२४ ।।
बुध्यते न च कष्टाच्च स ज्ञेयो वाचकाधमः ।।
विस्पष्टमद्भुतं शांतं रसभावसमन्वितम्।। १२५ ।।
अबुध्यमानो ग्रंथार्थं वाचयेद्यस्तु वाचकः ।।
स ज्ञेयो राजसो राजन्निदानीं सात्त्विकं शृणु ।। १२६ ।।
विस्पष्टमद्भुतं शांतं स्पष्टाक्षरपदं तथा ।।
कलस्वरसमायुक्तं रसभावसमन्वितम् ।।१२७ ।।
अत्त्यर्थं बुध्यमानस्तु ग्रंथार्थं कृत्स्नशो नृप ।।
ब्राह्मणादिषु वर्णेषु आचार्यो विधिवन्नृप ।। १२८ ।।
य एवं वाचयेद्राजन्स ज्ञेयः सात्त्विको बुधैः ।।
श्रद्धा भक्तिविहीनो यो लोभिष्ठः कटुको यथा ।। १२९ ।।
हेतुवादपरो राजंस्तथासूयासमन्वितः ।।
नित्यां नैमित्तिकां काम्यामाददद्दक्षिणां नृप ।। ।। 1.216.१३० ।।
वाचको यो महाबाहो शृणुयाद्यस्तु मानवः ।।
स ज्ञेयस्तामसो राजञ्छ्रावको मानवोऽपि सः ।। १३१ ।।
न तस्य पुरतो वीर वाचये त्प्राज्ञ एव हि ।।
प्रसंगाच्छृणुयाद्यस्तु श्रद्धाभक्तिविवर्जितः ।। १३२।।
राजन्कौतुकपात्रं तु स ज्ञेयो राजसो भवेत् ।।
संत्यज्य सर्वकार्याणि भक्त्या श्रद्धासमन्वितः ।। १३३ ।।
सततं पूजयेद्यस्तु वाचकं श्रद्धया मुदा ।।
नित्ये नैमित्तिके काम्ये गुरून्वै देवतास्तथा ।। १३४ ।।
य एवं शृणुयाद्वीर स ज्ञेयः सात्त्विको बुधैः ।।
व्यासः पूज्यः श्रावकाणां यथा व्यासवचो नृप।। १३५ ।।
तस्मात्पूज्यतमो नान्यः श्रावकाणां नृपोत्तम ।।
यतः स वै गुरुस्तेषां ज्ञानदाता सदा नृप ।।१३६।।
चतुर्णामिह वर्णानां नान्यो बन्धुः प्रचक्ष्यते ।।
व्यासादृते नृपश्रेष्ठ इतीयं वैदिकी श्रुतिः ।।१३७।।
तस्मात्सर्वप्रयत्नेन पूजयेद्वाचकं सदा ।।
स गुरुः स पिता माता स बंधुः स सुहृत्तथा ।। १३८ ।।
वाचको नृपशार्दूल विप्रादीनामशेषतः ।।
इत्थं व्यासो गुरुर्ज्ञेयः पूज्यो मान्यो द्विजातिभिः ।। १३९ ।।
शृण्वंति ये नरा राजन्स तेषां गुरुरुच्यते ।।
पूजार्थं तस्य समयः श्रावकाणामुदाहृतः ।। । 1.216.१४० ।।
ये शृण्वंति नृपश्रेष्ठ मासि मासि ददंति ते ।।
स्वर्णमाषकमेकस्मै वाचकाय पृथक्पृथक् ।।१४१।।
द्वादश्यां चामावास्यायामथ वा रविसंक्रमे ।।
सा नित्या दक्षिणा तस्यां या च श्रेयोऽर्थमात्मनः।।१४२।।
अयने विषुवे चैव चंद्रसूर्यग्रहे तथा ।।
प्राप्ते वापरपक्षे च दानं तस्यै स्वशक्तितः ।। १४३ ।।
देयं स्याच्छ्रावकैस्तात तं मुक्त्वा नान्यतो नृप ।।
प्रथमं तस्य दातव्यं श्रेयोऽर्थं श्रावकैः सदा ।।१४४।।
अदत्त्वा तस्य येन्यस्मै संप्रयच्छंति श्रावकाः ।।
अवमानः कृतस्तैस्तु वाचकस्य भवेन्नृप ।। १४५ ।।
कृत्वावमानमथ तैः प्राप्यते यत्फलं नृप ।।
ब्राह्मणाद्यैः समस्तैश्च तच्छृणुष्व वरानन ।।१४६।।
शूद्रत्वं ब्राह्मणो याति क्षत्रियो याति काकताम् ।।
जायते च तथा वैश्यः शूद्रश्चाण्डालतां व्रजेत् ।।१४७।।
तस्मात्पूज्यो नृपश्रेष्ठ प्रथमं वाचको बुधैः ।।
आपत्काले च वृद्धौ च यतश्चासौ गुरुः स्मृतः ।। १४८ ।।
वैशाख्यामयने वीर तृतीयायां च सुव्रत ।।
कार्त्तिक्यामथ मार्ग्यां च संपूज्यः प्रथमं भवेत् ।। १४९ ।।
पर्वस्वन्येषु च विभो संपूज्यो धर्मतः स्मृतः ।।
हिरण्यं च सुवर्णं च धनं धान्यं तथैव च ।। 1.216.१५० ।।
अन्नं चापि तथा पक्वं मांसं च कुरुनंदन ।।
दातव्यं प्रथमं तस्मै श्रावकैर्नृपसत्तम ।। १५१ ।।
वाचकस्तु यथा नित्यं सुखमास्ते नराधिप ।।
न पीड्यते यथा द्वंद्वैस्तथा कार्यं वरानन ।। १५२ ।।
हेमंते लोमशा देयाश्छत्रं प्रावृषि सत्तम ।।
उपानहौ कालयोग्ये काले चैवानुलोमशः ।।१५३।।
इत्थं द्वंद्वविनिर्मुक्तः स येषां वाचको नृप ।।
ते धन्याः श्रावका लोके ते गताः परमं पदम् ।। १५४ ।।
आत्मना तु कथं वीर सुखमिच्छेद्विचक्षणः ।।
विषमस्थे गुरौ राजन्यतश्च स गुरुः स्मृतः ।। १५५ ।।
वाचकश्रावकाणां च तस्माद्द्वंद्वं विघातयेत् ।।
यत्नः कार्यः श्रावकैश्च वाचकस्य जनाधिप ।। १५६ ।।
इत्थं पूज्यः सदा व्यासः श्रेयोऽर्थं प्रथमं नृप ।।
भर्ता पूज्यो यथा स्त्रीणां सर्वासां वै मही पते ।। १५७ ।।
श्रावकाणां तथा राजन्वाचकः पूज्य उच्यते ।।
उपाध्यायस्तु शिष्याणां यथा भागवतो हरिः ।। १५८ ।।
सौराणां च यथा भानुः शैवानां शंकरो यथा ।।
वाचकस्तु तथा पूज्यः श्रावकाणां नराधिप ।। १५९ ।।
दक्षिणां ददता नित्यं श्रोतव्यं भूतिमिच्छता ।।
पूर्वोक्तमाषकं तस्मै वाचकाय जनाधिप ।। 1.216.१६० ।।
यदा दातुं न शक्नोति माषकं कांचनस्य तु ।।
रजतस्य तदा देयं माषकं श्रेयसे नृप ।। १६१ ।।
तदभावे हिरण्यं च वित्तशाठ्यविवर्जितः ।।
मृत्तिकापि हि दातव्या प्राप्नोति सत्फलं शुभम् ।। १६२ ।।
इत्येषा दक्षिणा नित्या मासिमासि भवेन्नृप ।।
नैमित्तिका भवेद्राजन्ग्रहणादिषु पर्वसु ।। १६३ ।।
अमले वाससी राजन्गंधमाल्यविभूषणे ।।
समाप्ते पर्वणि विभो दातव्ये भूतिमिच्छता ।। ।। १६४ ।।
ज्ञात्वा सर्वसमाप्तिं तु पूजयेच्छ्रावको धुवम् ।।
आत्मानमपि विक्रीय य इच्छेत्सफलं श्रुतम् ।। १६५ ।।
नैमित्तिकां च नित्यां च दक्षि णामप्रदाय च ।।
शृणोति च सदा यस्तु तस्य तन्निष्फलं श्रुतम् ।। १६६ ।।
यथा च दक्षिणाहीनाद्यज्ञान्न फलमश्नुते ।।
तथा श्रुतं च राजेंद्र दक्षि णारहितं स्मृतम् ।। १६७ ।।
चतुर्गुणा भवेद्राजन्या नित्या दक्षिणा विभो ।।
समाप्ते पर्वणि विभो इत्याह भगवाञ्छिवः ।। १६८ ।।
इत्येष कथितो राजन्पुराणश्रवणे विधिः ।।
यतश्च विधिहीनं तु न कर्मफलमुद्यते ।। १६९ ।।
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।।
विधिपूर्वं स्मृतं ज्ञेयं यथेह कुरुनदन।।1.216.१७० ।।
फलदं नृपशार्दूल पुराणश्रवणं तथा ।।
यथायं कथितं तुभ्यं विधिना श्रवणं मया ।।१७१।।
यथोक्तं तु यथा जीवं यथोक्तं ब्रह्मवादिना ।।
स ब्राह्मणो महाराज सर्वलोकेषु पूजितः ।। १७२ ।।
यथाश्रुतं महाबाहो तथेदं कथितं तव ।।
भास्करस्य तु माहात्म्यं माहात्म्यं वाचकस्य तु ।। १७३ ।।
तथा च सप्तमीकल्पः सर्वपापभयापहः ।।
अनेन विधिना यस्तु पूजयेत्सततं नरः ।। १७४ ।।
भगलोकं समासाद्य त्रिषु लोकेषु गीयते ।।
ततोऽर्कलोकमासाद्य गच्छेच्चित्रशिखंडिनः ।। १७५ ।।
तस्मादपि महाबाहो गच्छेल्लोकं दिवाकरम्।।
अर्कलोके ततो यातस्ततो गोलोकमश्नुते ।। १७६ ।।
ऋतस्य च ततो गच्छेत्कंजजस्य ततः परम् ।।
दशानां राजसूयानामग्निष्टोमशतस्य च ।। १७७ ।।
श्रवणात्फलमाप्नोति पितामहवचो यथा ।। १७८ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे आदित्यमाहात्म्यवाचकमाहात्म्यपुराण श्रवण विधिवर्णनं नाम षोडशाधिकद्विशततमोऽध्यायः ।। २१६ ।।

।। पूर्वार्धः समाप्तोऽयम् ।।

।। श्रीनारायणार्पणमस्तु ।। ।।

इति श्रीभविष्ये महापुराणे प्रथमं ब्राह्मपर्व समाप्तम् ।। १ ।।

अयं युनिकोड रूपान्तरणं आश्विन् शुक्ल सप्तमी, विक्रम संवत् २०७३ तिथौ indsenz OCR द्वारा निम्नलिखित पुस्तकद्वयेभ्यः कृतमस्ति -

श्रीभविष्यपुराणम्(नाग प्रकाशक, दिल्ली)

श्रीभविष्यपुराणम् (हिन्दी साहित्य सम्मेलन, प्रयाग)