भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः ०३
पातालवर्णनम्
।। सूत उवाच ।। ।।
ध्रुवादूर्ध्वं महर्लोकः कोटियोजनविस्तरः ।।
कल्पाभिकरणे तत्र संस्थिता द्विजपुङ्गवाः ।। १ ।।
जनलोको महर्लोकात्तथा कोटिद्वयात्मकः ।।
सनंदनादयस्तत्र संस्थिता ब्रह्मणः सुताः ।। २ ।।
जनलोकात्तपोलोकः कोटित्रयसमन्वितः ।।
विराजंते तु देवा वै स्थिता दाह विवर्जिताः ।। ३ ।।
प्राजापत्यात्तु भूर्लोकः कोटिषट्केन संयुतः ।।
सनत्कुमारकस्तत्र ब्रह्मलोकस्तु स स्मृतः ।। ४ ।।
तत्र लोके गुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः ।।
आस्ते यद्योगिभिः पीत्वा योगं मृत्योः परं गतम् ।। ५ ।।
गायंति यतयो गाथा ह्यास्तिका ब्रह्मवादिनः ।।
योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनम् ।। ६ ।।
द्वारं तु योगिनामेकं गच्छतां परमं पदम् ।।
तत्र गत्वा न शोचंति स विष्णुः स च शंकरः ।। ७ ।।
सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम् ।।
न मे वर्णयितुं शक्यं ज्वालामालासमाकुलम् ।। ८ ।।
तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे ।।
शेषे तस्य हरिः श्रीमान्मायासहचरः परः ।। ९ ।।
स विष्णुर्लोककथितः पुनरावृत्तिवर्जितः ।।
प्रयांति च महात्मानो ये प्रपन्ना जनार्दनम् ।। 2.1.3.१० ।।
ऊर्ध्वं ब्रह्मासनात्पूर्वं परं ज्योतिर्मयं शुभम् ।।
वह्निना उपरि क्षिप्तं तत्रास्ते भगवान्भवः ।।११।।
देव्या सह महादेवश्चिन्त्यमानो मनीषिभिः ।।
योगिभिः शतसाहस्रैर्वृतैकत्वैश्च संवृतः ।। १२ ।।
तत्र ते यांति नियता द्विजा वै ब्रह्मवादिनः ।।
महादेवपरेशानास्तापसा ब्रह्मवादिनः ।। १३ ।।
निर्ममा निरहंकाराः कामक्रोधविवर्जिताः ।।
द्रक्ष्यंति ब्रह्मणा युक्ता रुद्रलोकः स वै स्मृतः ।। १४ ।।
एते सप्त महर्लोकाः पृथिव्यां परिकीर्तिताः ।।
महीतलादयश्चाधः पातालाः संति वै द्विजाः ।। १५ ।।
महातलं हैमतलं सर्ववर्णोपशोभितम् ।।
प्रासादैर्विविधैः शुभ्रैर्देवतायतनैर्युतम् ।। १६ ।।
अनंतेन समायुक्तं मुचुकुन्देन धीमता ।।
नृपेण बलिना चैव पातालं स्वर्गवासिना ।। १७ ।।
शैलं रसातलं विप्राः शांकरं हि रसातलम् ।।
पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम् ।। १८ ।।
सितं हि वितलं प्रोक्तं तलं चैव सितेतरम् ।।
सुवर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् ।। १९ ।।
रसातलमिति ख्यातं सर्वशोभासमन्वितम् ।।
वैनतेयादिभिश्चैव कालनेमिपुरोगमैः ।। 2.1.3.२० ।।
शंकुकर्णेन संभिन्नं तथा नमुचिपूर्वकम् ।।
तथान्यैर्विवि धैर्नागैस्तलं चैव सुशोभनम् ।। २१ ।।
तेषामधस्तान्नरका रौरवाद्याश्च कोटयः ।।
पापिनस्तेषु पात्यंते न तेऽवनमितुं क्षमाः ।। २२ ।।
पाताला नामधश्चांते शेषाख्या वैष्णवी तनुः ।।
कालाग्निरुद्रयोगात्मा नारसिंहोऽपि माधवः ।। २३ ।।
योऽनंतः पठ्यते देवो नागरूपी जनार्दनः ।।
तदाधारमिदं सर्वं सकलाग्निमुपाश्रितम् ।। २४ ।।
तमाविश्य महायोगी कालस्तद्वदनानलः ।।
विषज्वालासमोऽनंतो जगत्संहरति स्वयम् ।।२५।।
तामसी शांभवी मूर्तिः कालात्मा परमेश्वरः।।
स एव गर्भमाश्रित्य प्रकाशयति नित्यशः ।।२६।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे पाताल वर्णनंनाम तृतीयोऽध्यायः ।। ३ ।।