भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः ०४

ज्योतिश्चक्रवर्णनम्

।। सूत उवाच ।। ।।
एतद्ब्रह्मांडमाख्यातं चतुर्विधमिदं महत् ।।
अतः परं प्रवक्ष्यामि भूर्लोकस्य विनिर्णयम् ।। १ ।।
तद्द्वीपप्रधानो जंबूः प्लक्षः शाल्मल एव च ।।
कुशः क्रौंचश्च शाकश्च पुष्करश्चैव सप्तमः ।। २ ।।
एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः ।।
द्वीपाद्द्वीपो महानुक्तः सागरादपि सागरः ।। ३ ।।
क्षीरोदेक्षुरसोदोऽथ क्षारोदश्च घृतोदकः ।।
दध्योदः क्षीरसलिलो जलोदश्चेति सागराः ।। ४ ।।
पंचाशत्कोटिविस्तीर्णा समुद्रवलया स्मृता।।
द्वीपैश्च सप्तभिर्युक्ता योजनानां समानतः ।। ५ ।।
जंबूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः ।।
तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः ।। ६ ।।
चतुराशीतिसाहस्रयोजनैरस्य चोच्छ्रयः ।।
प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विष्कृतः ।। ७ ।।
मूले षोडशसाहस्रं विस्तारस्तस्य सर्वतः ।।
भूप्रमुख्यश्च शैलोऽसौ कलिकात्वेन संस्थितः ।। ८ ।।
हिमवान्हिमकूटश्च निषधस्त स्य दक्षिणे ।।
नीलः श्वेतश्च शृंगी च उत्तरे वर्षपर्वतः।।९।।
लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे ।।
सहस्रद्वितयं दीर्घास्तावद्विस्तारिणश्च ते ।। ।।2.1.4.१०।।
भारतं दक्षिणं वर्षं ततः किंपुरुषं स्मृतम् ।।
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ।।११।।
चंपकं चोत्तरं वर्षं तथैवाश्वहिरण्मयम्।।
उत्तराः कुरवश्चैव यथैते भारतास्तथा ।। १२ ।।
नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः ।।
इलावृतश्च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ।।१३।।
मेरोश्चतुर्दिशस्तत्र नवसाहस्रविष्कृतम् ।।
इलावृतं महाभागाश्चत्वारस्तत्र पर्वताः ।।१४।।
विष्कंभा रचिता मेरोर्योजनायुतमुच्छ्रिताः ।।
पूर्वेण मंदरो नाम दक्षिणे गंधमादनः ।। १५ ।।
विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः ।।
कदंबेष्वेषु नद्यश्च पिप्पलो वट एव च ।। १६ ।।
जंबूद्वीपस्य सा जंबूर्नामहेतोर्महर्षयः ।।
महागजप्रमाणानि जंबून्यस्य फलानि च ।। १७ ।।
पतंति भूभृतः पृष्ठे शीर्यमाणानि सर्वशः ।।
रसेन चैव प्रख्याता तस्य जंबूनदी इति ।।१८।।
सरित्तु वर्तते सापि पीयते तत्र वासिभिः।।
न खेदो न च दौर्गंध्यं न जरा नेंद्रियक्षयः ।।
उत्पन्नाः स्वच्छमनसो नरास्तत्र भवन्ति वै ।।१९।।
तीरसूत्रं समं प्राप्य वायुना च विशोषितम् ।।
जांबूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ।। 2.1.4.२० ।।
भद्राश्वः पार्श्वतो मेरोः केतुमालश्च पश्चिमे ।।
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम् ।। २१ ।।
मेरोरुपरि विप्रेंद्रा ब्रह्मणः स्थानमुत्तमम् ।।
तदूर्ध्वे वासवस्थानं तदूर्ध्वे शंकरस्य च ।। २२ ।।
तदूर्ध्वं वैष्णवो लोको दुगार्लोकस्तदूर्ध्वतः ।।
ज्योतिर्मयं परं स्थानं निराकारं हिरण्मयम् ।। २३ ।।
भक्तस्थानं तदूर्ध्वं च देवो हि भगवान्रविः।।
ज्योतिश्चक्रस्थितः शुद्धो निश्चलः परमेश्वरः ।।
राशिचक्रे च भ्रमति मेरोरुपरि सत्तमाः ।। २४ ।।.
बिंबषट्केद्रिनाभौ च रथचक्रं दिवानिशम् ।।
वातरज्जुनिबंधेन ध्रुवाधारे प्रतिष्ठितम्।। २५ ।।
दिक्पालाद्या ग्रहास्तत्र दक्षिणादुत्तरायणम् ।।
प्रतिमासं गतः पंथा ह्रासवृद्धिदिनक्षयः ।। २६ ।।
रविणा लंघितो मासश्चांद्रः ख्यातो मलिम्लुचः ।।
द्वादशे भगवत्सूर्ये प्रत्यहं भक्तसेवके ।। २७ ।।
कृत्वा त्रिषु त्वहोरात्रं तारामयगतं विभुम् ।।
यामेयामे चोदयश्च देशेदेशे च शर्वरी ।। २८ ।।
दिवा चरति यः सूर्यो रात्रौ चरति चन्द्रमाः ।।
नक्षत्राणि दिवा रात्रौ सूर्यचक्रे प्रतिष्ठितम्।।२९।।
देशान्नं चावगमनं यत्र तस्मादिवाभवत् ।।
यत्र चंद्रक्षयो भवति यत्र सूर्यः प्रवर्तते ।। 2.1.4.३० ।।
रात्रिंदिवं विजानीयाज्ज्योतिश्चक्रे प्रतिष्ठितम् ।।
उदयास्तमनं नास्ति नक्षत्राणां विशेषतः ।। ३१ ।।
यन्नक्षत्रे च यो देशः स तेषामुदयः स्मृतः ।।
तत्रास्तो जीवशुक्राणां सूर्यादीनां च सर्वशः ।। ३२ ।।
तदा काले नियोक्तव्या भार्गवास्तादिकी क्रिया ।।
सूर्यः सोमो बुधश्चंद्रो भार्गवश्चैव शीघ्रकः ।। ३३ ।।
दक्षिणायनमास्थाय यदा चरति रश्मिमान् ।।
तदा सर्वग्रहाणां स सूर्योधस्तात्प्रसर्पति ।। ३४ ।।
विस्तीर्णमंडलं कृत्वा तस्योर्ध्वे चरते शशी ।।
नक्षत्रमंडलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ।। ।। ३५ ।।
नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः ।।
चन्द्रस्तु भार्गवादूर्ध्वं चंद्रादूर्ध्वं शनैश्चरः ।। ३६ ।।
तस्माच्छनैश्चरादूर्ध्वं ततः सप्तर्षिमंडलम् ।।
ऋषीणां चैव सप्तानां ध्रुवश्चोर्ध्वं व्यवस्थितः ।। ३७ ।।
कालचक्रमये चक्रे सूर्यो भवति सर्वदा ।।
राश्यर्दे्धेषु गतिर्यत्र तिथीनां च तिथौ स्मृता ।। ३८ ।।
स्तंभते चरते शीघ्रं ह्रासे चापि दिनक्षयः ।।
पादास्तं चापि शुक्रस्य महास्तं तत्र दृश्यते ।। ३९ ।।
पादास्ते पक्षमात्रं स्यान्महास्ते याममात्रकम् ।।
चक्रे पक्षार्धमासः स्यादतिचारोऽष्टवासरान् ।। 2.1.4.४० ।।
न गण्यते देशभेदे नक्षत्रेण च गण्यते ।।
बाल वृद्धस्तु शुक्रस्य देशस्थे वा गणस्य च ।। ४१ ।।
बाल्यवार्द्ध्ये क्षत्रियस्य न गण्येते सदा बुधैः ।।
पादादूर्ध्वं महास्तस्य वैश्यस्य द्विजस त्तमाः ।। ४२ ।।
शेषार्धं भार्गवास्तस्य शूद्राणामथ गर्हितम् ।।
अभिचारे च चक्रे च न शूद्रस्य विधीयते ।। ४३ ।।
वर्जयेद्वासरान्सप्त इति चाथर्वणी श्रुतिः ।। ४४ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे ज्योतिश्चक्रे चतुर्थोऽध्यायः ।। ४ ।।