भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः ०८

अङ्कमाहात्म्यवर्णनम्

।। सूत उवाच ।। ।।
शृणुध्वं विप्रसंघाताः पुराणं देवसंमतम्।।
यच्छ्रुत्वा मुच्यते पापात्पुरुषो ब्रह्महत्यया।।१।।
तृतीयं शैवमाख्यातं ततो भागवतं परम्।।
पंचमं च तथा मात्स्यं भविष्यं षष्ठमुच्यते ।।२।।
असामर्थ्ये च मात्स्योक्तं वैष्णवं च भविष्यकम् ।।
भारते चापि पर्वं च शांतिभैष्मीयकं तथा ।। ३ ।।
पराशरमतं गृह्यं गोभिलोक्तानि यानि च ।।
कात्यायनोक्तमपरमभ्यसेन्निगमादितः ।। ४ ।।
अंतरेणागते मर्त्ये शास्त्रं नाध्यापयेत्क्वचित् ।।
एकरात्रं गते मर्त्ये त्रिरात्रमजमेषयोः ।। ५ ।।
मंडूके पंचरात्रं तु सर्पे रात्रिचतुष्टयम् ।।
संवत्सरं तु तुरगे गजे द्वादशवत्सरान् ।। ६ ।।
मासमेकं खरे काके स्थानत्यागान्न कुत्रचित् ।।
केरवे वा रवे चैव अहोरात्रं प्रचक्षते ।।७।।
त्रिरात्रमपि मार्जारे नकुले मूषके खरे ।।
हंसे दिनमनध्यायं क्षुद्रजंतौ न दूषणम् ।। ८ ।।
अध्यापयेद्गुरोः पुत्रं ज्ञानिनं धार्मिकं शुचिम् ।।
भक्तं शांतं वैष्णवं च जितक्रोधं जितेंद्रियम् ।। ९ ।।
अध्यात्माध्यापयेदेभ्यः शठं पापहरं द्विषम् ।।
अन्यायेनैव यच्छतमभयं दांभिकं द्विषम्।।2.1.8.१०।।
निरर्थकं मंथरं च विशुश्रूषुमयाजकम् ।।
षण्डं चैवानृजुं क्रुद्धं कृपणं व्यसनार्थिनम्।। ११ ।।
निंदकं चाविधिज्ञं च दूरतः परिवर्जयेत् ।।
अप्रच्छन्ननतं ब्रूयात्पुत्रपौत्रादिकादृते ।। १२ ।।
विद्यया सह मर्तव्यं न दद्याच्च पृथग्जने ।।
अतो विद्या वदत्येवं पाठयंतं द्विजोत्तमम् ।।१३।।
मा दद्याद्भक्तिहीनाय दुर्जनाय दुरात्मने ।।
अप्रमादाय विप्राय शुचये ब्रह्मचारिणे ।। ।। १४।।
सार्थकाय विधिज्ञाय साधवे देहि सत्तम ।।
दद्याद्यदि निषिद्धाय विद्याधनमनुत्तमम् ।। १५ ।।
तयोरेकतरो गच्छेदचिरेण यमक्षयम् ।।
अन्यायेन ग्रहं विद्यामन्यं पाठयते सुखात् ।। १६ ।।
स याति नरकं घोरं विद्यावर्ज्यः स उच्यते ।।
आध्यात्मिकं वैदिकं चालौकिकं वाथ यो वदेत्।।१७।।
मानमादौ प्रणम्याथ ततोऽधीयीत सुव्रतः ।।
कर्मकांडं ज्योतिषस्य तद्विना न समभ्यसेत् ।। १८।।
चूतभोगसमभ्यासाद्दरिद्रश्चाभिजायते ।।
वादभागसमभ्यासाद्धननाशाय जायते ।।१९।।
निधिभागसमभ्यासाज्जायते नारके कुले।।
यान्यनुक्तानि शास्त्राणि माननीयानि यानि च ।।2.1.8.२०।।
म्लेच्छोक्तानि महिम्नानि नाभ्यसेद्दूरतस्त्यजेत् ।।
लोकानां ज्ञानवृद्ध्यर्थं यः कुर्याद्धर्मसंग्रहम् ।। २१ ।।
प्रवर्तयित्वा स गुरुर्भवेज्जानप्रदः पिता ।।
ज्ञानदाता च लोकानां तेषु धर्मः प्रवर्तते।।२२।।
निगमानां ज्योतिषाणां वेदानां नाटकस्य च ।।
व्याख्यानसंग्रहं कृत्वा कलौ नाशमवाप्नुयात् ।।२३।।
वेदानां धर्भशास्त्राणां पुराणानां तथैव च ।।
मीमांसाज्योतिषां चैव नाटकानां विरंचिनी।।२४।।
भागावसाने कथितः पुराणाध्याय एव च ।।
पुष्पकश्च परिच्छेदः खंडश्च प्रतिखंडकः ।।२५।।
व्यवहारश्चार्थशास्त्रमश्वशास्त्रस्य चैव हि ।।
यस्य भागावसाने तु प्रयोक्तव्यः स एव हि।। ।।२६।।
तत्संग्रहेपि कविना नियोक्तव्यः स एव हि।।
यस्य नात्रोपदेशे तु प्रवर्तयति संग्रहः ।।२७।।
तत्तदक्षरसख्यानां ब्रह्मलोकान्न तच्च्युतिः ।।
न संग्रहस्तंत्रमंत्रे वेदमंत्रे च वर्जयेत् ।।२८।।
मोहात्कृत्वा होमधेनुं दत्त्वा शुद्धिर्भविष्यति ।।
कृत्वा चाख्यायिकाग्रंथस्वरूपान्स दिवं व्रजेत् ।। २९ ।।।
धर्मशास्त्रस्य गम्यस्य व्यवहारस्य चैव हि ।।
कलौ यः संग्रहं कुर्यात्प्रसुप्ते चैव केशवे ।। 2.1.8.३० ।।
यावत्प्रवर्तते लोकस्तावत्स्वर्गे महीयते ।।
सिंहे पौषे च चैत्रे च न कुर्यात्संग्रहं क्वचित् ।। ३१ ।।
प्रातःकाले न कुर्वीत् तथा मध्यंदिने द्विजाः ।।
पक्षांते भूभिदाहे च भुवः कंपे दिनक्षये ।। ३२ ।।
मलमासे विशेषेण सन्ध्ययोश्च विवर्जने ।।
अमेध्याक्तं च पत्रं च लिप्यक्षरविभूषितम् ।। ३३ ।।
पूतं स्यात्तत्क्षणाद्विप्राश्चतुः पंचाक्षरेण वा।।
नारसिंहस्य विन्यासे पूतो भवति तत्क्षणात् ।। ३४ ।।
मायाविभवविन्यस्ते महापापकलेवरे ।।
मुहूर्तार्धेन पूतत्वं प्रभोर्यांति परां गतिम् ।। ३५ ।।
स्त्रियो वा निंदितो वापि म्लेच्छो याति परां गतिम् ।।
यो मूढो मन्यते दोषं तस्य शौचं समाचरेत् ।।
स गर्दभीं खरीं योनिं प्रविशेन्नात्र संशयः।। ।। ३६ ।।
एकमेवात्मकं ब्रह्म तत्प्रकृत्यात्मकं द्वयम् ।।
नवात्मको भैरवश्च दशमश्च जनार्दनः ।। ३७ ।।
रुद्र एकादशश्चैव अर्कार्कश्चापि द्वादशः ।।
त्रयोविंशे च भूतात्मा षड्विंशे मनुरीरितः ।। ३८ ।।
तिथ्यात्मकं पंचदशे षोडशाख्या कलापरा ।।
वातात्मकः सप्तदशो मन्त्रः समनुवर्तते ।।३९।।
अष्टादशाक्षरो मंत्रः पुराणात्मक एव च ।।
ऊनविंशश्चंद्रमाः स्याद्विंशो नारायणो वपुः ।।2.1.8.४०।।
ज्योतिर्मयश्चैकविंशो द्वाविंशे केशवार्चनम् ।।
नक्षत्राणि त्रयोविंशे चतुर्विंशे च तानकम् ।। ४१ ।।
पंचविंशे च तीर्थानि षड्विंशे च त्रियंबकः ।।
अष्टाविंशे धनेशश्च ऊनत्रिंशे सरस्वती ।। ४२ ।।
त्रिंशद्योगे शिवः प्रोक्तः पातालमेकत्रिंशके ।।
अहोरात्रश्च द्वात्रिंशे चतुस्त्रिंशे च जाह्नवी ।। ४३ ।।
पंचत्रिंशे तदंतः स्याच्छते पूर्णे दिवाकरः ।।
सहस्रे च शिवो ज्ञेयश्चायुते मेरुरुच्यते ।। ४४ ।।
लक्षे ब्रह्मा तथा कोट्यां देवो नारायणः परः ।।
पुंप्रकृत्यात्मकं चान्यच्छारदालिपिमातृका ।।४५।।
शुद्धब्रह्ममयं नित्यं ज्ञानरूपं परं महत् ।।
यस्मिन्न व्यसनादेव शुचौ चाप्यशुचिस्थले ।।
क्षणे ब्रह्ममयं याति इत्याह भगवान्मनुः ।। ४६ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागेंऽकमाहात्म्यकथनं नामाष्टमोऽध्यायः ।। ८ ।।