भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः २०
पूर्णविधिवर्णनम्
।। सूत उवाच ।। ।।
अथ पूर्णविधिं वक्ष्ये यथा चंद्रार्थवेदिनाम् ।।
यस्य सम्यगनुष्ठानात्संपूर्णं स्यादिति स्थितिः ।। १ ।।
होमपूर्तौ मोक्षकल्पः पूजांतेऽर्घ्यं विधीयते ।।
अथ तस्यामपूर्णायां हतश्रीर्यज्ञभ्रंशता ।। २।।
तस्मात्सर्वप्रयत्नेन स्रुवाधो विन्यसेच्चरुम्।।
पूर्णं दत्त्वा सवित्रेऽर्घ्यं ब्राह्मणान्भोजयेत्ततः।।३।।
गृहं प्रविश्य च ततः कुलपूजां समाचरेत्।।
सप्तते देहि मे पूर्णां पुनात्विति ऋचा क्रमात्।।४।।
नियोजयेत्प्रतिष्ठायां नित्यनैमित्तिके शृणु।।
पुनात्विति ऋचा पूर्णा प्रथमा परिकीर्तिता ।। ५ ।।
सप्ततेति द्वितीया स्याद्देहिमेति तृतीयिका ।।
पूर्णा दर्वी चतुर्थी स्यात्कुलेवस्थाप्य देशिकः ।। ६ ।।
उत्थाय दद्यात्पूर्णां तु नोपविश्य कदाचन ।।
कनकायां च जिह्वायां रक्तायां ग्रहयागके ।। ७ ।।
ग्रहहोमे शतांते च पूर्णा एका विधीयते ।।
सहस्रांते युगं दद्यादयुतांते युगद्वयम् ।। ८ ।।
सहस्रांते ददेदेकं पुष्पहोमे च सत्तमाः ।।
पूर्णा त्वेकसहस्रं तु दद्याद्यज्ञफलेप्सया ।। ९ ।।
मृदुपुष्पाकृतौ त्वेका केवले चेक्षुहोमके ।।
शतं द्वे च शते चैव गर्भाधानान्नप्राशने ।। 2.1.20.१० ।।
सीमंतोन्नयने चैव प्रायश्चित्ताकृतीषु च ।।
वैश्वदेवे च नित्ये च पूर्णा त्वेका विधीयते ।। ११ ।।
एवं स्रुचौ समौ कृत्वा उपर्युपरि विन्यसेत् ।।
यथा न व्ययते कृत्वा न कल्पयति यावता ।। १२ ।।
ऋषिछंदादिकं श्रुत्वा प्रतिमंत्रस्य सत्तमाः ।।
अन्यथाल्पाल्पकफलं तस्मात्संन्यस्य होमयेत् ।।१३।।
सप्ततेति ब्राह्मणस्य ऋषिः कौंडिन्य ईरितः ।।
जगती च भवेच्छंदो देवताग्निः प्रकीर्तितः ।। ।। १४ ।।
देहि मेति च मंत्रस्य प्रजापतिर्ऋषिः स्मृतः ।।
अनुष्टुप् च भवेच्छंदो देवतास्य प्रजापतिः ।। १५ ।।
पूर्णा दर्वीति मन्त्रस्य शतक्रतुर्ऋषिः स्मृतः ।।
छंदोनुष्टुप्समाख्यातं वह्निश्चैवात्र देवता ।। १६ ।।
पुनात्विति च मन्त्रस्य ऋषिः स्यात्पवनः स्मृतः ।।
छंदोऽपि जगती ख्यातं देवताग्निश्च कीर्तितः ।। १७ ।।
तुर्यपूर्णा यज्ञमध्ये नकुले द्विजसत्तमाः ।।
न चाशिषं यज्ञमध्ये अभिषेकं च तर्पणम् ।। १८ ।।
ऋत्विक्छंदः स्पृशन्सम्यग्दक्षिणांगमथापि वा ।।
यजमानः सपत्नीको महोत्सवपुरःसरम् ।। १९ ।।
विश्वामित्रोऽयुतं तत्र होमं कुर्याद्विचक्षणः ।।
लवली बदरी शस्तं पिचुमंदकच्छत्रकम् ।। 2.1.20.२० ।।
नागरंगं धातकीं च पूर्णायां च विवर्जयेत् ।।
जप्यहानिरसंख्याते होमभ्रंशश्च जायते ।। २१ ।।
तस्मात्प्रागेव सतिलान्गणित्वा स्थापयेत्पृथक् ।।
युगपद्गणयेद्वाथ न चांगेन कदाचन ।।२२।।
धातक्याश्च फलैः संख्या कर्तव्या फलमिच्छता ।।
बदर्याश्च लवल्याश्च फलैः सर्वार्थसिद्धये ।। २३ ।।
नागरंगफलैरेव धातक्या बकुलैः फलैः ।।
यज्ञहानिकरं यस्मात्तस्मात्तत्परिवर्जयेत् ।। २४ ।।
कर्पूरचंदनैः कुर्याद्धोलिकां यज्ञसिद्धये ।।
गंगामृत्तिकया युक्तः शुनिकामथ वा द्विजाः ।। २५ ।।
रक्तगुंजाफलैः संख्यां पुष्टिकामेषु योजयेत् ।।
वातार्धे च शते चैव सहस्रे च तथैव हि ।। २६ ।।
होता स्यादयुतेनापि एकाहे वेदसंख्यया ।।
ऋणसाध्ये भवेद्धोता त्रय एव द्विजोत्तमाः ।। २७ ।।
लक्षहोमे तु होतारः षडेव परिकीर्तिताः ।।
कोटिहोमे तु विप्राः स्युः प्रशस्ताः पंक्तिसंख्यया ।। २८ ।।
नव पंच दशदशकं पंचविंशमथापि वा ।।
कामक्रोध विहीनाः स्युर्ऋत्विजः शांतचेतसः ।। २९ ।।
नवग्रहमखे विप्राश्चत्वारो वेदवेदिनः ।।
अथवा ऋत्विजौ शांतौ द्वावेव परिकीर्तितौ ।।2.1.20.३०।।
कार्यावयुतहोमे तु न प्रसज्येत विस्तरे ।।
तद्वत्सदशधा चाष्टौ नवहोमे तु ऋत्विजः ।। ३१ ।।
कर्तव्याः शक्तितस्तद्वच्चत्वारोऽपि विमत्सराः ।।
तमेव पूजयेद्ब्रह्मा द्वौ वा त्रीन्वा यथाविधि ।। ३२ ।।
एकमप्यर्चयेद्ब्रह्मा सहस्रे त्वेकब्राह्मणम् ।।
दक्षिणाभिः प्रयत्नेन निर्वहेदल्पवित्तवान् ।। ३३ ।।
लक्षहोमस्तु कर्तव्यो यदा वित्तं भवेत्तदा ।।
यतः सर्वमवाप्नोति कुर्यात्कामविधानतः ।। ३४ ।।
पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः ।।
यावत्कल्पशतान्यष्टावंते मोक्षमवाप्नुयात् ।। ३५ ।।
अकामो यस्त्विमं कुर्याल्लक्षहोमं यथाविधि ।।
शतकाममवाप्नोति पदं चानंत्यमश्नुते ।। ३६ ।।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।।
भार्याथीं लभते भार्यां कुमारी च शुभं पतिम् ।। ३७ ।।
भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात् ।।
यं यं कामयते कामं सर्वं प्राप्नोति पुष्कलम् ।। ३८ ।।
निष्कामः कुरुते यस्तु परं ब्रह्माधिगच्छति ।।
तस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयंभुवा ।। ३९ ।।
आचार्य एव होता स्याद्ब्राह्मणानामसंभवे ।।
न योजयेदेकमेव चायुते होमकर्मणि ।। 2.1.20.४० ।।
दर्भासनेऽतो न कुशे तृणे पत्त्रे त्वचेऽपि च ।।
पाषाणे मृत्तिकायां च न च वस्त्रासने क्वचित् ।। ४१ ।।
तत्र दारुमयं कुर्यादागमं भजते द्विजः ।।
दानं दद्याच्च होमांते पूर्णादौ च यथा भवेत् ।। ४२ ।।
द्विजसंस्कारकार्येषु पूर्णादौ चापि दक्षिणा ।।
मंत्रोपासनकार्येषु सोमयागाश्वमेधके ।। ४३ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे विंशोऽध्यायः ।। २० ।।