भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः ०७

तिथिविधानवर्णनम्

।। सूत उवाच ।। ।।
दैवं वा पैतृकं कर्म कालमाश्रित्य वर्तते ।।
काले तान्येव कर्माणि फलं यच्छंति कुर्वताम् ।। १ ।।
मुहुर्बाल्ये कर्मफलं त्रिकालेऽपि न विद्यते ।।
व्ययो वा मुख्यभावेन फलदः कर्मशालिनाम् ।। २ ।।
कालस्तु गुणभावेन सर्वकालाश्रिता क्रिया ।।
न कालेन विना किञ्चित्त्रिषु लोकेषु जायते ।। ३ ।।
अतः कालं प्रवक्ष्यामि निमित्तं कर्मणामिह ।
काले ह्यमूर्तिर्भगवानेक एव तु यद्यपि ।।
तथाप्युपाधिभेदेन भिद्यते कालभेदिभिः ।।४।।
तिथिनक्षत्रवारादौ रात्रियोगादयोपि ये ।।
तेऽपि कालाः पक्षमासराशिवर्षांतरेऽपि च ।।
साधनानि भवन्त्येते स्वातन्त्र्येण न कस्यचित् ।।५।।
धर्मस्य वाप्यधर्मस्य मुख्यो व्यापार एव सः ।।
तिथ्यादिकालभावेषु निषिद्धं निहितं हि तत् ।। ६ ।।
पालयन्स्वर्गमाप्नोति हित्वा प्राप्नोत्यधोगतिम् ।।
साधयंत्यपि कर्माणि परस्परमवेक्ष्यते ।। ।। ७ ।।
कालभागो निःसहायो येऽपि स्युः कर्मसाधनाः ।।
तिथौ पूर्वाह्णव्यापिन्यां कुर्वीत कर्म वैदिकम् ।। ८ ।।
एकोद्दिष्टं तु मध्याह्नव्यापिन्यां हि समाचरेत्।।
पराह्णव्यापिनीं प्राप्य तिथिं कुर्यात्तु पार्वणम् ।। ९ ।।
न तु पूर्वाह्णमध्याह्नपराह्णेषु यथोचितम् ।।
अप्रधाने तु कुर्वीत कर्म दैवादिकं च यत्।।2.2.7.१०।।
एको हि कालः प्रातस्तु वृद्धिश्राद्धादिसाधने ।।
नापेक्षते साहाय्यं तत्तिथ्यादिविषुवादिषु ।।११।।
देवेभ्यो ब्रह्मणा दत्तः पूर्वाह्णस्तिथिभिः सह ।।
पितृभ्यो ह्यपराह्णस्तु पार्वणं तु परं विना ।। १२ ।।
पूर्वाह्णमात्रसंप्राप्तौ ततो देवान्प्रपूजयेत् ।।
पूर्वाह्णस्पर्शमात्रेऽपि तिथिखण्डेन चार्पयेत् ।।१३।।
खर्वा दर्पा तथा हिंस्रा तिथिश्च त्रिविधा भवेत् ।।
खर्वादि लंघयेत्तुल्या दर्पा भवति वर्द्धिता ।।१४।।
हिंस्रा तु क्षयजा ज्ञेया कालभेदेन गृह्यते ।।
खर्वा दर्पा परे ग्राह्या हिंस्रा ग्राह्या तु पूर्वतः ।। १६।।
शुक्लपक्षे परा ग्राह्या कृष्णे पूर्वा प्रशस्यते ।।
स्नानदानव्रते चैव विषयोगो निदर्शितः ।। १७ ।।
तिथौ चोदेति सविता कालमात्रं च वा यदि ।।
अन्यापि सैव विज्ञेया तिथिस्तस्मिन्नहर्निशम् ।। १६ ।।
यथावास्ते रविर्भाति घटिका दश वापि वा।।
सा तिथिस्तदहोरात्रं व्यपदेश्या न चेतरा।।१९।।
शुक्ले वा यदि वा कृष्णे खर्वा दर्पा तिथिश्च या ।।
ययास्तं सविता याति पितृकार्ये च सा तिथिः ।। 2.2.7.२० ।।
दिनद्वयेऽपि कुतपे अस्तगां तिथिमाश्रयेत् ।।
श्राद्धकालादिकं यत्र तत्र श्राद्धं विधीयते ।।
व्रते च वृद्धिगामिन्यां यत्रोदयो रवेर्भवेत् ।।२१।।
अमावास्यपार्वणे च सा तिथिः पितृपूजने ।।
अमावस्यामृतस्यैव पार्वणं यत्र कुत्रचित् ।।२२।।
अस्तगामितिथिर्यत्र सा तिथिः पितृमंदिरम्।।
एकोद्दिष्टं चरेत्तत्र नोदये च कदाचन।।२३।।
शुक्लपक्षे च कृष्णे च यो योगः परपूर्वयोः।।
पूर्वेद्युर्वा परेद्युर्वा त्रिसंध्यव्यापिनी तिथिः।।
सा पूज्या च स्वकृत्येषु पक्षयोरुभयोरपि ।।२४।।
पूज्या हि व्यस्तं संत्यज्य पूर्वं चैकादशीयुगम् ।।
द्वितीया वह्निना युक्ता चतुर्थी पंचमीयुता ।। ।। २५ ।।
एता उपोष्यास्तिथयः पुण्याः स्युर्धर्मवेदिभिः ।।
एतद्व्यस्तास्तु पुण्यानि घ्नंति पूर्वकृतान्यपि ।। २६ ।।
बाणेन विद्धा या षष्ठी मुनिविद्धा तथाष्टमी ।।
दशम्येकादशीविद्धा त्रयोदश्या चतुर्दशी ।। २७ ।।
अमावास्या भूतविद्धा नोपोष्या मुनिनापि च ।।
हंति पुत्रकलत्राणि धनानि समुपोषिता ।। २८ ।।
विद्धा ये नाभिनिन्द्याः स्युर्युक्तास्तेनाभिनन्दिताः ।।
व्यस्तस्य संभवे युग्मं विद्धा भवति सर्वशः ।।२९।।
तामस्तां तु तिथिं प्राप्य युग्मान्यपूज्यतामियुः ।।
युग्मानि च दिवायोगे ग्राह्याणि व्यस्तनिंदनम् ।। 2.2.7.३० ।।
नक्तादिव्रतयोगे तु दिवासंवर्द्धमर्करान् ।।
रात्रियोगश्चतुर्थ्योस्तु विशिष्य परिगृह्यते ।। ३१ ।।
रात्रियोगं विनापि स्यादेकादश्यादिकं व्रतम् ।।
नक्तं जागरणं चैव विनायोगेऽपि शस्यते ।। ३२ ।।
एकादश्युपवासं तु द्वादशीयोगतश्चरेत् ।।
दिवायोगे तु संपूर्णां त्यजेदुभयपूर्वतः ।। ३३ ।।
रात्रियोगे तु संपूर्णा सोपास्यैकादशी सदा ।।
सप्तमी शुक्ल पक्षेऽपि पूज्या षष्ठ्या समन्विता ।। ३४ ।।
निशि तु स्याद्यदा षष्ठी सप्तमी नवमी दिवा ।।
उपोष्य केवलां षष्ठीं तोषयेद्भास्करं नरः ।। ३५ ।।
एवं त्रयोदशीं कृष्णां विधिप्राप्तां विना द्विजाः ।।
उपोष्य पार्वतीनाथं तोषयेद्यश्च केवलम् ।।३६ ।।
दिवा त्रयोदशीयुक्ता कृष्णोपोष्या चतुर्दशी ।।
परेणापि चतुर्दश्या न तु कुर्यादमातिथौ ।।३७।।
त्रिसंध्यव्यापिनी प्राप्य यदि कुर्यादुपौषणम् ।।
पारणं तु सिनीवाल्यां चतुर्दश्यामुपोषयेत्।।३८।।
चतुर्दशीमतिक्रम्य सिनीवाल्यां तु पारणात्।।
व्रतानि तस्य नश्यंति प्राकृतानि चतुर्दशीम् ।।३९।।
सप्तमी ललिता भाद्रे शक्तोत्थानं च वारुणी ।।
पूज्याश्चैताः पराः कुर्यात्त्रिसंध्यव्यापिनीष्वपि ।।2.2.7.४०।।
त्रिसंध्याव्यापिनी पूर्वे परतो वर्द्धते यदि ।।
सऋक्षा ऋक्षयोगे तु ऋक्षाभावे परा युता।।४१।।
ऋक्षाभावे परा ग्राह्या त्रिसंध्यव्यापिनीष्वपि ।।
श्रावणे चाद्यपादे तु प्रशस्ता शक्रपूजने ।।४२।।
अभावे चोत्तराषाढा धनिष्ठा च विशिष्यते ।।
दण्डार्धं दण्डमेकं वा तदर्धं पलमेव वा ।।४३।।
उदये संयुता ग्राह्या सा तिथिश्चोत्तमा भवेत् ।।
त्रिसंध्यव्यापिनीं हित्वा पूज्या शुक्लाष्टमी परा ।।४४।।
रविचक्रवता ग्राह्या रथे तिथ्यादेरपि च ।।
त्रिसंध्यव्यापिनी या तु पलमेकं परे दिने ।।४५।।
अपरेऽपि च सर्वत्र हलानां वाहनं त्यजेत्।।
शुक्लैकादश्यमावास्यासंक्रान्त्यां श्राद्धवासरे ।।४६।।
नराश्वगोगजादीनां वाहनात्पातकी भवेत् ।।४७।।
कर्तुर्गोमहिषादीनां गर्दभोष्ट्रखरस्य च ।।
न वाहयेद्दास दासी वाहनेनास्ति दूषणम् ।। ४८ ।।
बहुकालिकयज्ञे च यज्ञश्राद्धे तथैव च ।।
ग्रामांतरे न दोषः स्याद्दिवि नद्यंतरेऽपि च ।। ४९ ।।
नित्यश्राद्धेऽप्यम्बुघटे यच्छ्राद्धं मासिकं भवेत् ।।
तत्र गोमहिषादीनां वाहने नास्ति दूषणम् ।। 2.2.7.५० ।।
कुर्यादंबुघटश्राद्धं न कालनियमं क्वचित् ।।
न चान्ननियमं कुर्यादश्मपात्रं च वर्जयेत् ।। ५१ ।।
तैजसैर्निर्मितं कुम्भमथ वा वृक्षपत्रजम् ।।
न योजयेन्मृन्मयं च शूद्राणां मृन्मये विधिः ।। ५२ ।।
निवेदयेच्च मासांते मृन्मयं वृक्षमूलके ।।
आस्फालयेत्परेणैव न वस्त्रं तु कथञ्चन ।।
पर्वश्राद्धे दैवलकं तथा रण्डाश्रमं त्यजेत् ।। ५३ ।।
मातापितृपरित्यागी तैलहव्यादिविक्रयी ।।
चत्वारिंशदुत्सवानां साष्टानां च चरेद्यदि ।। ५४ ।।
स्त्रिया विमुच्यते कश्चित्स तु रण्डाश्रमी मतः ।।
अष्टचत्वारिंशदब्दं वयो यावन्न पूर्यते ।। ५५ ।।
पुत्रभार्यावियुक्तस्य नास्ति यज्ञाधिकारिता ।। ५६ ।।
यां तिथिं समनुप्राप्य समुदेति दिवाकरः ।।
स्नानाध्ययनदानेषु सा तिथिः सकला स्मृता ।। ५७ ।।
ययास्तं सविता याति कृष्णपक्षे तु सा तिथिः ।।
पितॄणां सकला ज्ञेया स्नानदानादिकर्मसु ।। ।। ५८ ।।
सप्तमी शुक्लपक्षे या यावदिच्छेच्च खण्डिता ।।
आद्यभागे रवेः षष्ठ्यां परादौ याष्टमीयुता ।।
यद्यखण्डा भवेत्सैव तदा ज्ञेया भवात्मिका ।। ५९ ।।
माघमासेन साप्येवं पूर्वेण रवितोषिणी ।।
मन्वंतरा परेणैव स्नानपानादिकर्मसु ।। 2.2.7.६० ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे सप्तमोध्यायः ।। ७ ।।