भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः १३

अग्निहोत्रविधानवर्णनम्

।।सूत उवाच।। ।।
स्वगृह्याग्निविधिं वक्ष्ये योगभेदेषु सत्तमाः ।।
न परोक्तं विधानेन भयदं कीर्तिध्वंसनम् ।। १ ।।
पुत्रा एव च कन्याश्च जनिष्याश्चापरे सुताः ।।
गृह्या इति समाख्याता यजमानस्य दायदाः ।। २ ।।
तेषां संस्कारयागेषु शान्तिकर्मक्रियासु च ।।
आचार्यविहितः कल्पस्तस्माच्चक्ष इति स्मृतः ।। ।। ३ ।।
त्रिकुशं परिगृह्णाति ततश्च कुरुते दृढम् ।।
ऋषिर्दक्षश्च जगती छन्दो विष्णुश्च देवता ।।४।।
कश्यपस्तृप्यतामिति भूरसीति च शोधनम् ।।
ऋषिः सुवर्ण गायत्री जगती छन्द इष्यते ।।
देवता च भवेत्सूर्यः पृथिवीशोधने न्यसेत् ।। ५ ।।
ऐशान्यादिक्रमेणैव प्रादक्षिण्येन यत्नतः ।।
यत्पवित्रेति मंत्रेण तर्जन्यंगुष्ठयोरपि ।। ६ ।।
कुशगर्भत्रयेणापि भ्रामयेद्वलयाकृति ।।
परिसमूहनमित्युक्तं स्नपनं शृणु सत्तम ।। ७ ।।
ईशानादेश्च संस्कारं कुर्यात्परिसमूहनम् ।।
प्रतिष्ठायां चरेत्यादिनैर्ऋत्यादिग्रहं मखे ।। ८ ।।
परिसमूहनमैन्द्रस्य पर्वतोऽस्य ऋषिः स्मृतः ।।
पंक्तिच्छन्दः समुद्दिष्टमिन्द्राणी चास्य देवता ।। ९ ।।
गोमयं च त्रिगंधं च पंचमूर्तिकयापि च ।।
कनिष्ठं गुह्यकं त्यक्त्वा देवतार्थे न लेपयेत् ।। 2.2.13.१० ।।
मानस्तोकेनेति ऋचा विश्वेदेवश्च पूज्यताम् ।।
ऋषिः स्यात्काश्यपच्छन्दो विश्वदेवः प्रकीर्तितः ।। ११ ।।
योजयेल्लेपयेद्विद्वान्घटमाबद्ध्य सत्तमाः ।।
मध्यमातर्जनीभ्यां च कुशमारभ्य दक्षिणम् ।। १२ ।।
चतुरस्त्रीकृते क्षेत्रं हस्तमानं तथाननम् ।।
यज्वभिरिति मन्त्रेण सूर्यः प्रीणाति सत्तमाः ।। १३ ।।
दक्षे सार्धांगुलं त्यक्त्वा पश्चिमेन परित्यजेत् ।।
उत्तराग्रां लिखेद्रेखामन्यथाऽमंगलं भवेत् ।। १४ ।।
आप्यायस्वेति मन्त्रस्य धन्वतरि ऋषिः स्मृतः ।।
त्रिष्टुप्छन्दः समाख्यातं सविता चात्र देवता ।। १५ ।।
 तल्लग्नं दक्षिणे चैकं पूर्वार्द्धद्वादशाङ्गुलम् ।।
अन्यांगुलांतरं चैकं ततः सप्तांगुलं भवेत् ।। १६ ।।
कुशमूलेन स्वर्णेन प्रतिष्ठायां च राजते ।।
अंगुष्ठानामिकाभ्यां च संज्योतीति च संजपन् ।। १७ ।।
संस्मरेन्मित्रा वरुणौ ऋषिरौतथ्यसंज्ञकः ।।
पंक्तिश्छन्दः शिवो देवो रेखामथ च योजयेत् ।। १८ ।।
तेनैवोर्द्ध्वकरौ कुर्याद्दक्षवामे सकृत्सकृत् ।।
भास्वराय क्षिपेदग्नौ तत ऊर्ध्वं रणं स्मृतम् ।। १९ ।।
सदसंपदृषिः कर्णो विराडिति उदाहृतः ।।
छन्द इन्द्रो देवता च पृथिव्या देवता भवेत् ।। 2.2.13.२० ।।
कुशपुष्पोदकेनापि देवतीर्थेन सत्तमाः ।।
पंचगव्येन मतिमान्पञ्चरत्नोदकेन च ।।
पञ्चपल्लवतोयेन महायोगे विशेषतः ।। २१ ।।
अथोनस्य च मन्त्रस्य वरिष्ठः परिकीर्तितः ।।
छन्दोऽथ देवी गायत्री देवता गणनायकः ।। २२ ।।
कीशादग्निं समादाय मे गृह्णामीति संपठन् ।।
मे गृह्णामीति मंत्रस्य ऋषिर्गौतम ईरितः ।।
छन्दोनुष्टुप्समाख्यातं वामदेवोऽथ देवता ।। २३ ।।
क्रव्यादग्निं परित्यज्य क्रव्यादमग्निमीरयन् ।।
मन्त्रेणानेन मतिमान्दक्षिणस्यां विनिक्षिपेत् ।। २४ ।।
अस्य मन्त्रस्य हारीत ऋषिः स्याच्छन्द इष्यते ।।
देवता वामदेवोऽपि दाहेपि विनियोजयेत् ।। २५ ।।
आवाहनं ततः कुर्यात्संसरक्षेति संजपन्।।
संसरक्षेति मंत्रस्य ऋषिर्नील उदाहृतः ।।
विराट् छन्दोऽथ विज्ञेयो देवता च शतक्रतुः ।। २६ ।।
वैश्वानर इति ऋचा अग्निस्थापनमीरितम्।।
मंत्रमाचाति प्रीणाति ऋषिः स्यात्काश्यपः स्मृतः ।।
अनुष्टुप् च भवेच्छन्दो देवता हव्यवाहनः ।। २७ ।।
बध्नासीति च मंत्रेण अग्निं कुर्यात्प्रदक्षिणम् ।।
ऋषिः स्वयंभूराख्यातो विराट्छन्द उदाहृतम् ।।
देवता परमात्मा च नमस्कारेण योजयेत् ।। ।। २८ ।।
ततोग्निदक्षिणे भागे प्रागग्रकुशकुब्जके ।।
द्विहस्ते भवतश्चैव हस्तपानासने अथ ।। २९ ।।
ब्रह्मन्निहोपवेश्यतामिति ब्रह्माणं विनिवेशयेत् ।।
ब्रह्मयज्ञानृचा दोग्ध्री धेनुरिति त्वृचा ।।2.2.13.३०।।
द्वाभ्यामिति च मन्त्राभ्यामिति ब्रह्मप्रवेशनम्।।
शक्रोऽस्य त्रायतामेति शृणु ऋग्भ्यामृषीद्विजाः ।।३१।।
प्रजापतिर्ऋषिश्छन्दस्त्रिष्टुब्देवोऽथ शंकरः ।।
नारदश्च ऋषिश्छन्दस्त्रिष्टुब्देवः शचीपतिः ।। ३२ ।।
अग्नेरुत्तरभागे च हस्तमानांतरेपि च ।।
प्रणीता स्थापनं कुर्याद्दिन एहीति संजपन्।। ३३ ।।
मन्त्रस्य च ऋषिश्छन्दो वामदेवः प्रकीर्तितः ।।
जगती च भवेच्छन्दो देवता च शतक्रतुः ।। ३४ ।।
श्रीपर्णीसहकारोत्थं वरुणस्य विशेषतः ।।
षडंगुलेन विस्तारं विंशत्यंगुलकेन च ।। ३५ ।।
दैर्घ्येण च चतुःख्यातकांगुलं च प्रमाणतः ।।
द्व्यंगुले चरकाकायामासासन्देवकर्मणि ।। ३६ ।।
अभिचारे भवेत्कांस्यं ताम्रं स्याच्छांतिकर्मणि ।।
प्रतिष्ठायां मृन्मयं च अष्टांगुलमथापि वा ।। ३७ ।।
द्वादशांगुलप्रस्तारं तैजसं मानवर्जितम्।।
इमं मे वरुणेनर्चा प्रणीतामथ पूरयेत् ।। ३८ ।।
सागरा अथ प्रीयंतामित्थमाध्यानमाचरेत् ।।
सकृदच्छिन्नदर्भेण दिग्विदिक्षु परिस्तरेत् ।। ३९ ।।
नैर्ऋते दिक्षु सीतः स्याद्वैश्वदेवे तथैव च ।।
कया नश्चित्र इत्यृचा नागः प्रीणाति सत्तमाः ।। 2.2.13.४० ।।
अस्य मंत्रस्य च ऋषिर्भरद्वाज उदाहृतः ।।
छन्दोऽनुष्टुब्देवता च ईशानः परिकीर्तितः ।। ४१ ।।
प्रयोजनादिकं द्रव्यं तत आसादयेत्क्रमात् ।।
दक्षिणादि उत्तरांतं धुवास इत्यृचापि च ।। ४२ ।।
ऋषिः स्यान्नारदश्छन्दोनुष्टुप्चैवाथ देवता ।।
शतक्रतुश्च प्रीणाति योजयेदथ सादरात् ।। ४३ ।।
काष्ठं च पश्चिमे कुर्यात्प्रयच्छन्पश्चिमेन तु ।।
पुरतोऽन्नं पञ्चव्रीहीस्तिलाश्च सहसर्षपान् ।। ४४ ।।
दक्षिणे चैव आपूपं भृंगराजं तथैव च ।।
फलपत्रे वामभागे पिष्टकं दधि दुग्धकम् ।। ४५ ।।
पनसं नारिकेलं च मोदकं लड्डुकं तथा ।।
प्रणीतां च दिग्विदिक्षु स्थापयेदविचारयन् ।। ४६ ।।
प्रणीतां न स्पृशेज्जातु होमकाले कथंचन ।।
स्नानकुंभं च भो विप्रा यावद्यागः प्रवर्तते ।। ४७ ।।
उच्चीरकं मातुलिंगं दूर्वां धात्रीफलानि च ।।
तुलसीमालतीजाती जलजानि विशेषतः ।। ४८ ।।
ऐशान्यां स्थापयेत्सर्वं यच्च वै कंकतीमयम् ।।
नैर्ऋत्येति विशेषोयं यच्च वैकंकती शमी ।। ४९ ।।
यथायोगेन तत्सर्वं ग्राह्यं तत्पत्रमेव च ।।
क्षीरपाके तु क्षीरांते चरुस्थालीमथानयेत् ।। 2.2.13.५० ।।
पविवच्छेदनकुशैश्छिंद्यात्प्रादेशिकं पुनः ।।
छित्त्वा पवित्रं प्रोक्षण्यां स्थापयेद्बलभिदाम्रकम् ।। ५१ ।।
विष्णो रराटमंत्रेण छेदयेदग्रभागतः ।।
पायसेन काठिनेन प्रमथ्नीयात्कदाचन ।। ५२ ।।
न रसेन न कार्ष्णेन न दृढेन कदाचन ।।
ताम्रेण भस्मना चाथ शुक्तिशंखेन वाग्यतः ।।५३।।
छेदयेत्पिञ्जुलीं चापि पवित्रमथ देशिकः।।
विष्णो रराटमंत्रस्य हारीतश्च ऋषिः स्मृतः ।। ५४ ।।
पंक्तिश्छंदो भवेद्देवः संस्कारे विनियोजयेत् ।।
प्रणीताभाजनं गृह्य प्रोक्षणीं पूरयेत्त्रिभिः ।। ५५ ।।
कायतीर्थेन तत्कुर्याद्देवतीर्थेन चेत्यपि ।।
वामहस्ततले पश्चात्स्थापयेत्प्रोक्षणीयकम् ।। ५६ ।।
मध्यमामध्यमांगुष्ठ अपामार्गेण मंत्रिभिः ।।
उत्तानं तत्पवित्रं च पवित्रं तेति संजपन् ।। ५७ ।।
ऋषिः स्याद्गौतमश्छन्दो धर्मराजोऽथ देवता ।।
अथ स्थापितद्रव्याणि प्रोक्षयेत्स्थापयेत्क्रमात् ।। ५८ ।।
सकृद्द्रव्ये त्रिभिः काष्ठैस्त्रिवारं मंत्रपुष्पकैः ।।
स्थिरस्थाने तु संप्राप्तप्रणीतायाश्च दक्षिणे ।। ५९ ।।
प्रादेशांतरतश्चैव आज्यस्थालीमथार्पयेत् ।।
अग्रतो मण्डलं कृत्वा वह्निं विप्रे तु स्थापयेत् ।। 2.2.13.६० ।।
द्यूतं निःसारयेत्तत्तु निरूप्याशु क्रमेण तु ।।
ईशानेति च मंत्रेण अधिश्रपणमीरितम् ।।६१।।
ऋषिर्नारायणश्छन्दः पंक्तिरीशोऽथ देवता।।
पर्यग्निकरणं कुर्यादादराद्द्वयमप्यथ ।। ६२ ।।
अवेक्ष्य ईशमारभ्य दक्षिणावर्तकेन तु ।।
कुलायनीति मंत्रेण ऋषिच्छन्दादिकं स्मरन् ।। ६३ ।।
परिवेष्याज्यस्थालीं च त्रिः सकृद्वा समाहितः ।।
पितरस्तृप्यतामिति संस्कारे मातरः स्मृताः ।। ६४ ।।
ऋषिः स्याज्जमदग्निश्च गायत्री छन्द ईरितम् ।।
देवता च पिनाकी स्यादग्निष्टोमे च योजयेत् ।। ६५ ।।
घृतस्य च तथा त्वं नो ब्रह्मा वै तृप्यतामिति ।।
षडंगुलं स्रुवं पश्चाद्गृहीत्वाग्नौ प्रतप्य च ।। ६६ ।।
त्रिरात्रं तु महायोगे सकृदन्यत्र सत्तमाः ।।
संमार्जयेत्कुशेनापि मूलादग्रं तु सेचयेत् ।। ६७ ।।
अग्रान्मूलं पुनः कुर्यात्संपूज्य च पुनः पुनः ।।
त्रिभिस्त्रिभिः प्रणीतोदे प्रोक्षयेत्तदनंतरम् ।। ६८ ।।
भुवं पुनः प्रतप्याथ प्रोक्षण्युत्तरतो न्यसेत् ।।
आज्यपात्रं पुरस्कृत्य पवित्रं च समाहरेत् ।।६९।।
अंगुष्ठे द्वे अनामे तु गृह्णीयात्तत्पवित्रकम् ।।
अष्टांगुलं मध्यकृत्वो घृतं त्रिः पवनं चरेत् ।।2.2.13.७०।।
पाताले त्रिस्तथाकाशे अवेक्ष्याज्यं ततस्त्रिभिः ।।
प्रोक्षण्यां च तथा कुर्यादधः संप्रोक्ष्य देशिकः ।। ७१ ।।
ततः पायसमादाय उत्थाय च समन्त्र कम् ।।
तूष्णीं दद्यात्तथा चाग्नौ सन्निवेशेन तत्त्वतः ।। ७२ ।।
सपवित्रं दक्षकरे गृहीत्वा प्रोक्षणीयकम् ।।
अष्टांगुले मूलभागे तज्जलेन ईशादितः ।। ७३।।
अग्निं पर्युक्षयेत्पश्चाद्दक्षिणावर्तकेन च ।।
पवित्रं च प्रणीतायां निधाय प्रोक्षणीयकम् ।। ७४ ।।
संयावार्थं च भो विप्रा अग्निवत्तत्र देशिकः ।।
ध्यायेदग्निं रक्तवर्णं स्रुवहस्तं त्रिबाहुकम् ।। ७५ ।।
कमंडलुं परे हस्ते ततो दक्षकरेण तु ।।
स्रुवं गृहीत्वा जुहुयात्तूष्णीमेव समाहितः ।। ७६ ।।
अंते च देवतोद्देशं प्राजापत्यं समीरयन् ।।
प्रणवांतेन जुहुयात्सर्वत्र द्विजसत्तमाः ।। ७७ ।।
वायुकोणं समारभ्य वह्निकोणान्तकेन तु ।।
अच्छिन्नेन घृतेनैव इन्द्राय तदनंतरम् ।। ७८ ।।
अग्नीषोमात्मकं चैव जुहुयाद्राक्षसादितः ।।
ऐशानकोणपर्यंतं ततो नैमित्तिकं चरेत् ।। ७९ ।।
पश्चात्स्विष्टं ततो दद्याद्दद्याच्च मतिभिस्तथा ।।
वारुणं पञ्चकं चैव कृत्वा पूर्णां ततो लभेत् ।। 2.2.13.८० ।।
उद्वाह इति मंत्र स्य अथर्वण ऋषिः स्मृतः ।।
छंदो देवी च गायत्री देवतं चापि वारुणम् ।। ८१ ।।
प्रकृते योजयेन्मन्त्री स्तुतौ चापि नियोजयेत् ।।
त्वन्नोग्न इति मंत्रस्य ऋषिर्वाशिष्ठसंज्ञकः ।।
छंदश्च बृहती ख्यातं तदेवाग्निः प्रकीर्तितः ।। ८२ ।।
इडो गतमिति मन्त्रस्य ऋषिः को गुह्यसंज्ञकः ।।
छन्दश्च जगती ख्यातं देवो विष्णुः प्रकीर्तितः ।। ८३ ।।
उद्वर्तन इति मंत्रस्य ऋषिः को नु प्रकीर्तितः ।।
छन्दो देवी च गायत्री वरुणश्चाधिदेवता ।।८४।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे त्रयोदशोऽध्यायः ।। १३ ।। ।।