भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः १६

देवध्यानविधानवर्णनम्

।। सूत उवाच ।। ।।
प्रतिष्ठायाः पूर्वदिने कुर्याद्देवाधिवासनम् ।।
धान्यप्रतिष्ठां तस्यैव यूपं चापि यथाविधि ।। १ ।।
रात्रौ मूलाग्रे च घटे स्थापयेद्गणनायकम् ।।
संपूज्य च विधानेन दिगीशांश्च तथा ग्रहान् ।। २ ।।
ब्रह्माणं च तडागेषु वरुणं शान्तियागके ।।
सोमं च मंडले सूर्यं पादे विष्णुं तथैव च ।। ३ ।।
शैवे शैवं तथा प्रोक्तं प्रपायामथ वारुणम् ।।
आरामे चैव ब्रह्माणं पाद्याद्यैरपि चार्चयेत् ।। ४ ।।
द्रुपदादीति मन्त्रेण स्नापयेत्प्रथमं बुधः ।।
गायत्र्या च ततः पश्चाद्गन्धद्वारेति तैलकम् ।। ५ ।।
सुनाभेति च मंत्रेण द्वाभ्यामेव विशिष्यते ।।
श्रीश्च ते इति कुसुमं फलिनीति च वै फलम् ।। ६ ।।
कांडादिति च मंत्रेण दद्याद्दूर्वाशतं ततः ।।
सिंदोरिवेति सिंदूरं विश्वामिति च मार्जनम् ।। ७ ।।
समिच्छेत्यञ्जनं दद्याद्दुःस्थं सुरासुरा जपन् ।।
चन्दनं यज्वभिर्जप्त्वा मानस्तोकेति चन्दनम् ।। ८ ।।
यूपे चैव विशेषोयमुत्तराग्रं प्रविन्यसेत् ।।
अद्यैव तेन मंत्रेण स्थापयेदथ वारिणा ।। ९ ।।
गायत्र्या प्रथमं चैव आपो हिष्ठेति वै जपन् ।।
शन्नो देवीति द्रुपदां स्नापयेत्तदनन्तरम् ।। 2.2.16.१० ।।
अभिमन्त्र्याथ ब्रह्मेति त्रिरात्रं मंत्रमीरयन् ।।
योगं योगदृढं जप्त्वा पवित्रं विन्यसेत्ततः ।। ११ ।।
त्वं गन्धर्वेति मन्त्रेण तथा सुभाभ इत्यपि ।।
द्वाभ्यां तैलगंधयुतं श्रीसूक्तेनापि पुष्पकम् ।। १२ ।।
धूरसीति च तथा धूपमास्रज्योतिर्भिर्दीपकम् ।।
अनुमीमहताति दद्याद्दूर्वाक्षतं ततः ।। १३ ।।
विश्वामीति च निम्न्यंतकांडादिति तथाक्षतम् ।।
सिंदोरिवेति सिन्दूरं समिधेति तथाञ्जनम् ।। १४ ।।
पादोऽस्येत्यथ भुक्तं स्याद्याः फलिनीति पुनः फलम् ।।
रूपं नेति दहेद्रूपं न सोचिति च पूजनम् ।। १५ ।।
युवा सुवासेति वस्त्रं नागगन्धेति चन्दनम् ।।
ततो यमगृहाद्बाह्ये मण्डपांतरमाश्रितः ।।१६।।
सुनातीति वचो दद्यात्ततश्चावाहयेत्प्रभुम् ।।
तत्राधिवासनं कुर्याद्रक्षयेच्च सुरक्षिभिः ।।१७।।
आचार्यो यजमानश्च ऋत्विग्भोजनमाचरेत् ।।
अक्षारलवणान्यासी दधि विश्वं तिलांस्त्यजेत् ।।१८।।
आधारणं चाधिवासं वक्ष्ये तत्रानुसारतः ।।
सुनातेति वचो दद्यात्तैलं चैव शिवे त्रिभिः ।। १९ ।।
पञ्चभिर्ब्राह्मणैः सार्धं गन्धर्वा इति विस्मरन् ।।
दद्याद्गन्धं तैलयुतं गन्धद्वारेत्यृचा पुनः ।। 2.2.16.२० ।।
याः फलिनीति च फलं पूगतानामवर्जनम् ।।
कौशिकीरुत्तमोसीति दद्यात्खड्गं सुतीक्ष्णकम् ।। २१ ।।
रूपेन वेति मन्त्रेण मुद्गरं च निवेदयेत् ।।
श्रीश्च ते इति कुसुमं विश्वानीति च संपठन् ।। २२ ।।
निर्मथनं ततः कार्यमिति साधारणो विधिः ।।
ततोधिवासकल्पे तु प्रदेशे तु समाचरेत् ।। २३ ।।
विनाधिवासनं विप्राः प्रतिष्ठानं समाचरेत् ।।
न तत्फलमवाप्नोति विवाहे शरणं दिशेत् ।। २४ ।।
ततः प्रयत्नतः कार्यं पूर्वाह्ने रात्रियोगतः ।।
नित्ये नैमित्तिके काम्ये कारयेत्कुण्डमण्डपम् ।। २५ ।।
स्थंडिले हस्त मात्रेण वालुकानिर्मितेऽपि च ।।
त्रयोदशांगुले हस्ते द्विहस्ते चापि वर्द्धते ।। २६ ।।
एकैकांगुलको विप्राः पीठे नास्ति विचारणा ।।
नवपञ्चक कुण्डे च लक्षादावपि शंकया ।। २७ ।।
ततो दशांगुले पक्षे दशांगं शृणुत द्विजाः ।।
काष्ठं पत्त्रं च पुष्पं च मोदकं पिष्टकं तथा ।। २८ ।।
अन्नं च परमान्नं च ह्यवेक्ष्यं तिलमेव च ।।
एतद्वै गृहपक्षे च विष्णुपक्षे तिलादितः।।२९।।
शैवे यवादितः कार्या शाक्ते पुष्पादितो भवेत् ।।
सूर्ये पक्षे पिष्टकादि गोपाले कृशरादितः ।। 2.2.16.३० ।।
कृष्णे च करवीरादि श्रीफलानि च त्रैपुरे ।।
सारस्वते च श्रीवृक्षे मोक्षकामे निगद्यते ।। ३१ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे षोडशोऽध्यायः ।। १६ ।।