उपवनादिप्रतिष्ठावर्णनम्

।। ।। सूत उवाच ।। ।।
आरामादौ विशेषो यो वक्ष्यतेऽत्र मयाधुना ।।
मंडलं कारयित्वा तु चतुरस्रं समं शुभम् ।।१।।
ऐशान्यां कलशे देवं तत्र नाथं प्रपूजयेत् ।।
मध्यमे कलशे पूजा ग्रहाणां च ततः परम् ।। २ ।।
स्वदिक्षु द्वारदेशे तु पश्चिमद्वारदेशयोः ।।
ब्रह्माणं चाप्यनन्तं च मध्यतो वरुणं यजेत् ।।३।।
वरुणं चोदकुम्भस्थं भूतशाखासु शोभनम् ।।
तेन चावाहयामि त्वां विभो स्वर्गाय वै भव ।।४।।
पूर्वगं मन्दरं स्थाप्य तोरणोपरि सत्तमाः ।।
विष्वक्सेनं समभ्यर्च्य अर्चनं स्वर्गसंयुतम् ।।५।।
कर्णिकायां वासुदेवं शुद्धस्फटिकसन्निभम् ।।
चतुर्भुजं शङ्खचक्रगदापद्मविभूषितम् ।। ६ ।।
श्रीवत्सकौस्तुभोरस्कं मुकुटाद्यैरलंकृतम् ।।
दक्षिणे कमला तस्य वामे पुष्टिव्यवस्थितिः ।। ७ ।।
सिद्धकिन्नरयक्षाद्यैः स्तूयमानं सुरासुरैः ।।
संपूज्य विधिवद्भक्त्या विष्णोरराट इत्यृचा ।। ८ ।।
दले संकर्षणादींश्च विमलाद्याश्च नायिकाः ।।
संपूज्य धूपदीपाद्यैरुपहारैरनुत्तमैः ।। ९ ।।
घृतप्रदीपो देवस्य गुग्गुलुः सरलस्तथा ।।
धूपो देवबलिः क्षीरं परमान्नं घृतप्लुतम् ।। 2.3.1.१० ।।
 ध्यायेत्सोमं कर्णिकायां दक्षिणे पद्मसंस्थितम् ।।
शुक्लाभं द्विभुजं शान्तं केयूराद्युपशोभितम्।। ११ ।।
प्रशस्यं देवयक्षाणां वरदाभयहस्तकम् ।।
इमं देवा इति ऋचा उपचारैः पृथग्विधैः ।। १२ ।।
पूजयेच्च निशानाथं घृतभक्तं निवेदयेत् ।।
इन्द्रं जयन्तमाकाशं वरुणं चाग्निमेव च ।। १३ ।।
ईशानं तत्पुरुषं चैव वायुं पूर्वादिदिक्ष्वपि ।।
कर्णिकाया वामभागे वरदाभयहस्तकम् ।।१४।।
द्विभुजं शुक्लवर्णं च महादेवं प्रपूजयेत् ।।
त्र्यंबकेण च मंत्रेण दद्याच्च घृतपिष्टकम् ।। १५ ।।
वासुदेवाय देवाय जुहुयादष्ट आहुतीः ।।
परमान्नेन सौम्यस्य जुहुयादष्टविंशतिम् ।। १६ ।।
शिवाय परमान्नेन जुहुयादाहुतिद्वयम् ।।
गणेशस्य तथाज्येन ददेदेकाहुतिं बुधः ।। ।। १७ ।।
ब्रह्मणो वरुणस्याथ एकैकामाहुतिं तथा ।।
ग्रहाणां स्वोक्तसमिधा दिगीशानां पृथक्पृथक् ।। १८ ।।
एकैकामाहुतिं दद्यादाज्येन च यथाक्रम् ।।
कराली धूमली श्वेता लोहिता कनकप्रभा ।। १९ ।।
अतिरक्ता पद्मरागा वह्निजिह्वा प्रकीर्तिताः ।।
तासां मंत्राः क्रमेणैव सादिवासांत बिन्दवः ।। 2.3.1.२० ।।
यकारस्थाश्च विज्ञेया अष्टस्वरविभूषिताः ।।
घृतमध्वाज्यसिक्ताभिर्होमयेच्च पृथक्पृथक् ।। २१ ।।
एकैकामाहुतिं दद्याद्दत्त्वा चैव समाहितः ।।
अग्नीषोमं तथेन्द्रं च पृथिवीमन्तरिक्षकम् ।। २२ ।।
स्थालीपाकेन जुहुयान्मधुक्षीरयवान्वितम् ।।
एकैकामाहुतिं तेषां समुद्दिश्य पृथक्पृथक् ।। २३ ।।
यावकैर्गंधपुष्पाद्यैरर्चित्वा सपरावकम् ।।
जपस्व त्वं महाभाग श्रद्धया चैव वाग्यतः ।। २४ ।।
जापको विधिनानेन प्रजपेत्तत्र रुद्धकम् ।।
मङ्गलं परमान्नं च सौरसूक्तं तथा जपेत् ।। २५ ।।
ततः संमृज्य विधिना स्नापयित्वा यथाविधि ।।
यूपं गर्भे विनिक्षिप्य तत्र कुर्याद्विचक्षणः ।।२६।।
ध्वजानारोप्य प्रांतेषु दद्यात्सोमं वनस्पतिम् ।।
कोऽदादिति पठित्वा च वृक्षाणां कर्णवेधनम् ।।२७।।
सूच्या सुतीक्ष्णया कार्यं द्विपात्रे वामदक्षिणे ।।
नवग्रहाणां तृप्त्यर्थं यावकं लड्डुकं तथा ।। २८ ।।
पिष्टकं च पृथग्दद्यात्कुमारीबालकेषु च ।।
निशारंजितसूत्रेण संवेष्ट्य च सचूर्णकम् ।। २९।।
प्रदद्याद्दोहकं चैव वृक्षाणां विधिपूर्वकम् ।।
प्राशयेच्चैव तान्वृक्षानिमं मन्त्रमुदाहरेत् ।। 2.3.1.३० ।।
वृक्षाग्रात्पतितस्यापि आरोहात्पतितस्य च।।
मरणे वास्थिभङ्गे वा कर्ता पापैर्न लिप्यते ।।३१।।
धेनुं सुवर्णं धान्यं च आचार्याय प्रदक्षिणम्।।
दत्त्वा च ऋत्विजे दद्यात्सुवर्णं रजतं तथा ।। ३२ ।।
धान्यं च ब्रह्मणे दद्याद्घृतभोज्यं सशर्करम् ।।
इष्टां च दक्षिणां दद्यात्सदस्याय तथैव च ।। ३३ ।।
अधिकलशं समानीय स्नानं कुर्याद्विधानतः ।।
कृत्वा चैवानिशं कुर्याद्दद्यात्पूर्णाहुतिं तथा ।।३४।।
सर्वौषध्युदकं प्रोक्ष्य त्रिवारं क्षीरधारया ।।
संवेष्ट्य त्रिश्चतुर्वारं ब्रह्मघोषपुरःसरम् ।। ।। ३५ ।।
गृहं व्रजेत्ततो विप्रैः कुर्याच्चैव गृहार्चनम् ।।
तंतौ विशेषं वक्ष्यामि वरा एवेदमित्यृचा ।। ३६ ।।
बलं कामं हयग्रीवं माधवं पुरुषोत्तमम्।।
वासुदेवं धनाध्यक्षं ततो नारायणं यजेत्।।३७।।
दधिभक्तं बलिं दद्यात्पञ्चगव्यसमुद्भवम्।।
एवं संपूज्य विधिना दक्षिणे पृथिवीं यजेत्।।३८।।
शुद्धकांञ्चनवर्णाभां वराभयकरां शुभाम् ।।
मंडूकस्थां च द्विभुजां सर्वालङ्कारसुन्दरीम् ।।३९।।
स्योना पृथिवीति मन्त्रेण पूजयित्वा यथाविधि ।।
पायसं मधुसंयुक्तं बलिं दद्यात्सशर्करम् ।। 2.3.1.४० ।।
वामतो विश्वकर्माणं शुद्धस्फटिकसंनिभम् ।।
शूलटंकधरं शांतं संयजेदुपचारकैः ।। ४१ ।।
विश्वन्निति ऋचा तं च बलिं च मधु पिष्टकम् ।।
दद्याज्जपेच्च कौष्माण्डं सूक्तं पौरुषमेव च ।।।४५।।।
मधुपायसयुक्तेन होमानष्टौ विधाय च।।
एकैकं होमयेत्पश्चा त्पृथिवीहोमकर्मणि ।।४३।।
समुत्सृज्य ततः सेतुमिमं मन्त्रं पठेत्ततः ।।
पिच्छिले पतितानां च उच्छ्रितेनांगसंगतः ।। ४४ ।।
प्रतिष्ठिते धर्मसेतौ धर्मो मे स्यान्न पातकम् ।।
सेतोरस्य प्रबन्धस्य श्रद्धया परया तथा ।। ४५ ।।
ये चात्र प्राणिनः संति रक्षां कुर्वति सेतवः ।।
वेदागमेन यत्पुण्यं यथैव हि समर्पितम् ।। ४६ ।।
गर्तं कृत्वा पञ्चरत्नं संस्थाप्यं तदनन्तरम् ।।
संस्थाप्य च ततो यूपं संपूज्य च यथाविधि ।। ४७ ।।
आचार्याय ततो दद्यादिष्टां च वरदक्षिणाम् ।।
पूजयेद्द्विजदांपत्यं लाजाभिः परिपूजितम् ।। ४८ ।।
पोटिकां च ततः शय्यां दद्यादिष्टार्थसिद्धये ।।
सेतौ वृक्ष स्थिता ये स्यू रोपयेत्कदलीं शुभाम् ।। ४९ ।।
तेषां पार्श्वद्वयेप्येवमारामे च पृथक्पृथक् ।। 2.3.1.५० ।। ।।
इति श्रीभविष्ये महापुराणे मध्य मपर्वणि तृतीयभागे प्रथमोऽध्यायः ।। १ ।।