भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः ०४

क्षुद्रारामप्रतिष्ठावर्णनम्

।। सूत उवाच ।। ।।
अथाश्वत्थप्रतिष्ठायां मूले बाहुप्रमाणके।।
स्थंडिलं कारयेत्तत्र चंदनेनोक्षितं तथा ।।१।।
पद्मं प्रकल्पयेत्तत्र सामान्यार्घ्यं विधाय च ।।
पूर्वेद्यु रात्रिसमये तद्विष्णोरिति वै ऋचा।।२।।
स्थापयेद्वारिणा पूर्णं कया नेति च गन्धकम् ।।
गंधद्वारेति तैलेन श्रीश्च तेति च चन्दनम् ।। ३ ।।
दद्याद्दूर्वाक्षतं कल्पे ब्राह्मणत्रयभोजनम ।।
कारयेत्सितसूत्रैश्च वेष्टयेच्चन्दनोक्षितैः ।।४।।
कुंभे विनायकं पूज्य ब्रह्माणं च परे घटम् ।।
स्वदिक्षु दिक्पतींश्चैव वृक्षमूले नवग्रहान् ।।५।
मंडले शिवमभ्यर्च्य पीठपूजापुरःसरम् ।।
अथ ध्यानं प्रवक्ष्यामि श्वेतं वृषभमेव च ।। ६ ।।
द्विभुजं शूलहस्तं च सर्वाभरणसंयुतम्।।
आरोपयेत्स्वसामर्थ्याद्भूतशुद्धिं समाचरेत् ।।७।।
ततोर्घ्यपात्रं कृत्वा तु पीठपूजां समाचरेत्।।
गणेशं गुरुपादं च जयं भद्रं समाहितः।।८।।
मध्ये आधारशक्तिं च कूर्मानंतौ सपद्मकौ।।
चन्द्रसूर्याग्निकादीनां मंडलानि क्रमाद्यजेत्।।९।।
पुनः पात्रांतरस्थं च गृहीत्वा कुसुमं बुधः ।।
पाणिकच्छपिकां कृत्वा ध्यायेद्वै वरुणं तथा ।।2.3.4.१०।।
पूर्ववच्च विधानेन दद्यात्पात्रादिकं त्रयम् ।।
मधुपर्कं चासनं च पृच्छेच्च स्वागतं पुनः ।। ११ ।।
मुद्रां प्रदर्श्य विधिवदंगपूजां समाचरेत् ।।
पूर्वादिपत्रे इन्द्रादीन्ब्रह्माणं मध्यतो यजेत् ।। १२ ।।
अनंतं पुरतश्चैव तेषामस्त्राणि तद्बहिः ।।
मध्ये तोयाधिपं रुद्रं शांतं चैव प्रशांतकम् ।। १३ ।।
भूस्तत्त्वं च भुवस्तत्वं स्वस्तत्त्वादि च तत्त्वकम् ।।
कामं धर्ममधर्मं च दिक्षु नारा यणं शिवम् ।। १४ ।। ।।
नैर्ऋते च यजेद्दुर्गां पार्श्वयोश्च शतक्रतुम् ।।
विनायकं च विष्णुं च गङ्गां पृथिविषष्टिकम् ।। १५ ।।
षोडशेनोपचारेण पूजयेच्च विशेषतः ।।
मंडलस्योत्तरे भागे नागरूपमनंतकम् ।। १६ ।।
पंचकृष्णालकैः कुर्याद्बृहत्पर्वप्रमाणकम् ।।
आरोपयेच्चाक्षताद्यैः श्वेतचन्दनपुष्पकैः ।। १७ ।।
पूजयेत्परया भक्त्या अग्निकार्यमथाचरेत् ।।
वरुणं जुहुयात्पूर्वं मधुना पायसेन वा ।। १८ ।।
तिलाक्षतैर्वा आज्यैर्वा त्रिमध्वक्तैरथापि वा ।।
अष्टोत्तरशतं कुर्याद्दिगीशानां घृतेन तु ।।१९।।
एकैकामाहुतिं दद्यात्पुष्पैस्तिलघृतेन च ।।
नारायणं शिवं दुर्गां गणेशं च ग्रहान्निशि।। ।। 2.3.4.२० ।।
अष्टावष्टौ च जुहुयाद्घृतैरेकाहुतिर्भवेत ।।
ब्रह्मायुध्वानमिति मंत्रेण ब्रह्माणं पायसेन तु ।।२१।।
एकाहुतिं ततो दद्यादापोहिष्ठेति वा त्रिभिः ।।
ततो वरुणमुद्दिश्य दद्यादाज्याहुतित्रयम् ।। २२ ।।
इमं वरुण इति वा तद्वरोमा ऋचा पुनः ।।
वरुणस्योत्तंभनमसीति येनापावक एव च ।। २३ ।।
वातस्ययमिति पुनः पञ्चवर्णं यथाक्रमात् ।।
ततो वरुणमुद्दिश्य घृतेन च गुडैः सह ।। २४ ।।
ततः स्विष्टकृते दद्याद्बलिं दद्यादनुक्रमात्।।
मध्वाज्यपायसं दद्याद्वरुणाय विशेषतः ।।२५।।
यवक्षीरं दिगीशेभ्यो ह्यन्येभ्यः पायसेन तु ।।
नागाय पिष्टकं दद्याल्लाजाहोमाष्टकं पुनः।। २६ ।।
अनंतस्योत्तरे तीरे पद्मपत्रं परिस्तरेत् ।।
अष्टाष्टापदमानेन वरुणं राजतेन तु ।। २७ ।।
कुर्यात्पूर्वद्वयेनापि बाणरत्तिसुवर्णकैः ।।
कुर्यात्पुष्करिणीं तत्र पूर्वार्धे चतुरस्रके ।। २८ ।।
वरुणं विन्यसेत्तत्र तथा पुष्करिणीमपि ।।
विधिवद्वाक्यपूर्वेण उत्सृजेच्च जलेशयम् ।। २९ ।।
ॐ अद्येत्यादि विष्णुरूपाय करुणाय श्रुतिरत्याद्युक्तवेदव्याससप्रणीताग्निष्टोमफलप्राप्तये पुष्करिणीप्रतिष्ठाकर्मणि इमां पुष्करिणीं सुवर्णराजतां स्वगृह्योदितां सालंकारां सुपूजिताममुकगोत्रः अमुकदेवशर्मा तुभ्यमहं संप्रददे ।। इत्युत्सर्गवाक्यम् ।। ॐ अद्येत्यादि ब्राह्मणमुख्येभ्यः ममाग्निष्टोमाद्यनेकफलप्राप्तये इमं जलाशयं वरुणदैवतं सुपूजितं चतुर्मुखसहितं चतुःसत्त्वावच्छिन्नस्नानपानाद्युपभोगाय अमुकसगोत्रः अमुकदेवशर्माहमुत्सृजे ।।)
ततो नौकां समादाय मध्यात्किंचित्तथोत्तरे ।।
जलाशयस्य मध्यं तु ऋत्विग्घोमं चरेत्ततः ।। 2.3.4.३० ।।
पूर्वावस्थायिनीं यष्टिं समारोप्य विधानतः ।।
ततो वरुण सूक्तेन वरुणं राजतोद्भवम् ।।
पुष्करिण्यासमं तेन नागयष्ट्यंतरे क्षिपेत् ।। ३१ ।।
तत्रैवानंतनागं च मंत्रमेतदुदीरयेद्।।
पुंडरीकदलाभास शुभरक्तांतलोचन ।।
फणासहस्रसंयुक्त सुप्रतिष्ठ नमोऽस्तु ते ।। ३२ ।।
दक्षिणां च ततो दद्यात्ततः पूर्णां विधाय च ।।
मोचयेन्मकरान्ग्राहान्मीनकूर्माञ्जलेचरान् ।। ३३ ।।
पद्मोत्पलं च शैवालं मंत्रमेव प्रयत्नतः ।।
पुष्करिण्यां च त्रिः कुर्यात्खातं सर्वप्रदक्षिणाम् ।। ३४ ।।
आदित्याध्यायकं जप्त्वा क्षिपेल्लाजकपर्दकान् ।।
पातयेत्क्षीरधारां च सहस्रेण शतेन च ।। ३५ ।।
सूत्रेण वेष्टयेत्प्राज्ञो रक्तेन च चतुष्क्रमात् ।।
पथि संतोषयेद्दीनान्संतोष्य च गृहं व्रजेत् ।। ३६ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे चतुर्थोऽध्यायः ।। ४ ।।