भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः ०६

क्षुद्रारामप्रतिष्ठावर्णनम्

।। सूत उवाच ।। ।।
क्षुद्रारामप्रतिष्ठां च वक्ष्ये च द्विजसत्तम ।।
अमंडले शुभे स्थाने द्विहस्तम यस्थंडिले ।। १ ।।
स्थापयेत्कलशं तत्र सोमं विष्णुं समर्चयेत् ।।
आचार्यमात्रं वरयेन्निशासूत्रैः प्रवेष्टयेत् ।। २ ।।
वृक्षान्माल्यैरलंकृत्य भूषयेद्भूषणादिना ।।
दोहदं च ततो दद्यात्स्थापयेच्छितधारया ।। ३ ।।
भोजयेत्पंचविप्रांश्च पुरतोंऽते विशेषतः ।।
कर्णवेधं ततः कृत्वा उत्सृजेद्वास्यपूर्वकम्।। ।। ४ ।।
दद्याद्यूपं मध्यदेशे रोपयेत्कदलीं ततः ।।
रंभां च रोपयेद्दिक्षु स्थालीपाकविधानतः ।। ५ ।।
अष्टावष्टौ च जुहुयादन्येषां च घृतेन तु ।।
एकैकामाहुतिं दद्यात्स्विष्टकृत्तदनंतरम् ।। ६ ।।
दक्षिणां च ततो दद्यात्पूर्णां दद्याद्गृहं व्रजेत् ।। ७ ।।
।। इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे षष्ठोऽध्यायः ।। ६ ।।