भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः ०७

श्रेष्ठवृक्षप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।
एकादिवरवृक्षाणां विधिं वक्ष्ये द्विजोत्तमाः ।।
वृक्षस्य पश्चिमे भागे स्थापयेत्कलशं ततः ।। १ ।।
वृक्षं संस्थापयेत्पूर्वं सूत्रेण परिवेष्टयेत् ।।
ब्रह्माणं कलशेभ्यश्च सोमं विष्णुं वनस्पतिम् ।। २ ।।
ततस्तिलयवैर्होमानष्टाष्टौ विधिवच्चरेत् ।।
समुत्सृज्य ततो यूपं कदल्या सह धर्मवित् ।। ३ ।।
वृक्षमूले यजेद्धर्मं पृथिवीं च विशं तथा ।।
दिगीशांश्च तथा यक्षान्नाचार्यं तोषयेत्ततः।। ४।।
धेनुं च दक्षिणां दद्याद्दोहदं वृक्षपूजनम् ।।
कृत्वा सम्यग्विधानेन सवित्रेऽर्घ्यं निवेदयेत् ।। ५ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे सप्तमोऽध्यायः ।। ७ ।।