भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः ०९

वटप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।
वटस्थानमथो वक्ष्ये तस्य मूले तु दक्षिणे ।।
त्रिहस्तवेदिमुपरि स्थापयेत्कलशत्रयम् ।। १ ।।
गणेशं च शिवं विष्णुं पूजयित्वा हुनेच्चरुम् ।।
रक्तसूत्रैस्त्रिगुणितैः स्वर्णमेव पुरःसरम्।। २ ।।
यवक्षीरबलिं दद्यादुत्सृजेद्वाक्यमुच्चरन्।।
यूपमारोपयेत्पश्चाद्वटमूलैः समर्पयेत् ।। ३ ।।
यक्षान्नागांश्च गंधर्वान्सिद्धांश्चैव मरुद्गणान् ।। ४ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे नवमोऽध्यायः ।। ९ ।।