भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः १४

पुष्पवाटिकाप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।
पुष्पारामप्रतिष्ठां तु वक्ष्ये शृण्वंतु वै द्विजाः ।।
मध्ये वेदिं त्रिहस्तां च कृत्वा संस्थापयेद्घटम् ।। १ ।।
अधिवासस्य पूर्वेद्युर्यथावद्विप्रभोजनम् ।।
कृत्वा घटे गणेशं च सूर्यं सोमं हुताशनम् ।। २ ।।
नारायणं स्थंडिले च जुहुयान्मधुपायसम्।।
विधिवद्यूपमारोप्य गोधूमान्सेचयेद्गुरौ ।। ३ ।।
वेष्टयेद्रक्तसूत्रैश्च प्रदद्याच्चेति दक्षिणाम् ।।
एतद्धाराजलेनैव यवान्नं सगुडं पयः ।। ४ ।।
ऐशान्यां यूपमारोप्य विधिवद्द्विजसत्तमाः ।।
कर्णवेधं समारोप्य स्नापयेत्कुशवारिणा ।। ५ ।।
धान्यं यवं च गोधूमं दद्याद्विप्राय दक्षिणाम् ।।
शतधारजलेनैव वेष्टयेत्परितो द्विजाः ।। ६ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यम पर्वणि तृतीयभागे चतुर्दशोऽध्यायः ।। १४ ।।