भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः १/अध्यायः ०१

कृतयुगभूपाख्यानम्

।। ।। श्रीगणेशाय नमः ।। ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।१।।
।। शौनक उवाच ।। ।।
भविष्याख्ये महाकल्पे ब्रह्मायुषि परार्द्धके ।।
प्रथमेऽब्देह्नि तृतीये प्राप्ते वैवस्वतेऽन्तरे ।। १ ।।
अष्टाविंशे सत्ययुगे के राजानोऽभवन्मुने ।।
तेषां राज्यस्य वर्षाणि तन्मे वद विचक्षण ।। २ ।।
।। सूत उवाच ।। ।।
कल्पाख्ये श्वेतवाराहे ब्रह्माब्दस्य दिनत्रये ।।
प्राप्ते सप्तमुहूर्ते च मनुर्वैवस्व तोऽभवत ।। ३ ।।
स तप्त्वा सरयूतीरे तपो दिव्यं शतं समाः ।।
तच्छिक्कातोऽभवत्पुत्र इक्ष्वाकुः स महीपतिः ।। ४ ।।
ब्रह्मणो वरदानेन दिव्यं यानं स आप्तवान् ।।
नारायणं पूजयित्वा हरौ राज्यं निवेद्य च ।। ५।।
षट्त्रिंशच्च सहस्राणामब्दं राज्यं तदाऽकरोत् ।।
तस्माज्जातो विकुक्षिश्च शतहीनं तदब्दकम् ।।६।।
राज्यं कृत्वा दिवं यातस्तस्माज्जातो रिपुंजयः।।
शतहीनं कृतं राज्यं तत्ककुत्स्थसुतः स्मृतः।।७।।
शतहीनं कृतं राज्यं ततोऽनेनांस आत्मजः ।।
शतहीनं कृतं राज्यं तस्माज्जातो नृपः पृथुः ।। ८ ।।
शतहीनं कृतं राज्यं विष्वगश्वश्च तत्सुतः ।।
शतहीनं कृतं राज्यं तस्मादार्द्रो नृपोऽभवत् ।। ९ ।।
शतहीनं कृतं राज्यं भद्राश्वस्तत्सुतोऽभवत् ।।
शतहीनं कृतं राज्यं युवनाश्वस्तु तत्सुतः ।। 3.1.1.१० ।।
शतहीनं कृतं राज्यं श्रवस्थस्तत्सुतोऽभवत् ।।
सत्यपादश्च संजातः प्रथमो भारतेऽन्तरे ।। ११ ।।
उदयादस्तपर्यंतं तैर्नृपैर्भूमिमंडलम् ।।
भुक्तं नीतिपरैर्देवैः श्रवस्थेन तु भूतले।।
शतहीनं कृतं राज्यं बृहदश्वस्ततोऽभवत् ।। १२ ।।
शतहीनं कृतं राज्यं तस्मात्कुवलयाश्वकः ।।
शतहीनं कृत राज्यं दृढाश्वस्तत्सुतोऽभवत्।।१३।।
सहस्रहीनं राज्यं तत्तस्मात्पुत्रो निकुंभकः ।।
सहस्रहीनं राज्यं तत्संकटाश्वस्तु तत्सुतः ।। १४ ।।
सहस्रहीनं राज्यं तत्तस्माज्जातः प्रसेनजित् ।।
सहस्रहीनं राज्यं तद्रवणाश्वस्तु तत्सुतः ।। १५ ।।
सहस्रहीनं राज्यं तन्मांधाता तत्सुतोऽभवत् ।।
शतहीनं कृतं राज्यं पुरुकुत्सस्तु तत्सुतः ।।१६।।
शतहीनं कृतं राज्यं त्रिंशदश्वस्तु तत्सुतः ।।
रथे यस्य स्मृता वाहा वाजिनस्त्रिंशतो वराः ।। १७ ।।
अनरण्यस्ततो जातो ह्यष्टाविंशत्सहस्रकम् ।।
राज्यं द्वितीयचरणे स्मृतं सत्ययुगस्य वै ।। १८ ।।
पृषदश्वस्ततो जातो राज्यं षष्ठसहस्रकम् ।।
तदब्दं भूतले कृत्वा पितृलोकमुपाययौ ।। १९ ।।
हर्यश्वस्तु ततो जातो विष्णुभक्तकुले नृपः ।।
सहस्रहीनं राज्यं तत्तत्सुतो वसुमान्स्मृतः ।। 3.1.1.२० ।।
सहस्रहीनं राज्यं तत्त्रिधन्वा तनयस्ततः ।।
सहस्रहीनं राज्यं तत्तेन राज्ञा च सत्कृतम् ।। २१ ।।
सत्यपादः समाप्तोऽयं द्वितीयो भारतेऽन्तरे ।।
त्रिधन्वनश्च नृपतेस्त्रपारण्यस्तु वै सुतः ।। २२ ।।
सहस्रहीनं राज्यं तत्कृत्वा स्वर्गमुपाययौ ।।
तस्माज्जातस्त्रिशंकुश्च राज्यं वर्षसहस्रकम् ।। २३ ।।
छद्मना हीनतां जातो हरिश्चंद्रस्तु तत्सुतः ।।
राज्यं विंशत्सहस्रं च रोहितो नाम तत्सुतः ।।२४ ।।
पितुस्तुल्यं कृतं राज्यं हारीतस्तनयोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं चंचुभूपश्च तत्सुतः ।। २५ ।।
पितुस्तुल्यं हि राज्यं तद्विजयो नाम तत्सुतः ।।
पितुस्तुल्यं हि राज्यं तद्रुरूकस्तनयस्ततः ।। २६ ।।
पितुस्तुल्यं कृतं राज्यं सगरस्तनयोऽभवत् ।।
भूपाश्च बाहुसेनान्ता वैष्णवाः परिकीर्तिताः।।२७।।
राज्यमानं कृतं सम्यग्भूपैर्वैवस्वतादिभिः ।।
मणिस्वर्णसमृद्धिश्च बह्वन्नं बहुदुग्धकम् ।। २८ ।।
पूर्णो धर्मस्तदा भूम्यां मुने सत्ययुगस्य वै ।।
तृतीयचरणे मध्ये सगरो नाम भूपतिः ।। २९ ।।
शिवभक्तः सदाचारस्तत्पुत्राः सागराः स्मृताः ।।
त्रिंशत्सहस्रवर्षं तद्राज्यं वै मुनिभिः स्मृतम् ।। 3.1.1.३० ।।
नष्टेषु सागरेष्वेवमसमञ्जस आत्मजः ।।
शतहीनं कृतं राज्यमंशुमांस्तत्सुतोऽभवत् ।।३१।।
शतहीनं कृतं राज्यं दिलीपस्तत्सुतोऽभवत् ।।
शतहीनं कृतं राज्यं तस्माज्जातो भगीरथः ।।३२।।
शतहीनं कृतं राज्यं श्रुतसेनस्ततोऽभवत् ।।
शतहीनं कृतं राज्यं नाभागस्तनयस्ततः ।।३३।।
शतहीनं कृतं राज्यमम्बरीषस्ततोऽभवत् ।।
शैवाः षट्श्रुतसेनान्ता नाभागो वैष्णवो नृपः ।। ३४ ।।
सत्यपादः समाप्तोऽयं तृतीयो भारतेंतरे ।।
अंवरीषेण भूपेन शतहीनं कृतं पदम् ।। ३५ ।।
चतुर्थे चरणे तस्य चाष्टादश सहस्रकम् ।।
अब्दं राज्यं शुभं ज्ञातं कर्मभूम्यां च भारते ।। ३६ ।।
एकोनत्रिंशद्वर्षाणि राज्यं तत्त्रिंशतानि च ।।
शतहीनं कृतं राज्यं सिंधुद्वीपोऽम्बरीषजः ।। ३७ ।।
शतहीनं कृतं राज्यमयुताश्वस्ततोऽभवत् ।।
शतहीनं कृतं राज्यमृतुपर्णस्तु तत्सुतः ।। ३८ ।।
शतहीनं कृतं राज्यं सर्वकामो नृपस्ततः ।।
शतहीनं कृतं राज्यं नृपः कल्माषपादकः ।। ३९ ।।
शतहीनं कृतं राज्यं सुदासस्तनयोऽभवत्।।
तस्मादशमकश्चैव मदयन्त्या वशिष्ठजः ।। 3.1.1.४० ।।
शतहीनं कृतं राज्यं हरिवर्मा ततोऽभवत् ।।
सप्त भूपाः सुदासान्ता वैष्णवाः परिकीर्तिताः ।।४१।।
गुरुशापात्तु सौदासो राज्याङ्गं गुरवेऽर्पयत् ।।
गोकर्णलिंगभक्तश्च शैवः समय उच्यते ।। ४२ ।।
हरिवर्मा शमकजो वैश्यवत्साधुपूजकः ।।
ऊनत्रिंशत्सहस्राणि तथा सप्तशतानि वै ।। ४३ ।।
हरिवर्माऽकरोद्राज्यं तस्माद्दशरथोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं तस्माद्दिल्लीवयस्सुतः ।। ४४ ।।
पितुस्तुल्यं कृतं राज्यं भृपो विश्वासहस्ततः ।।
राज्यं दशसहस्रं तन्नियज्ञः प्राकृतो नृपः ।। ४५ ।।
तदधर्मप्रतापेन ह्यनावृष्टिस्तदाऽभवत् ।।
शतवर्षमना वृष्टिस्सर्वराज्यं व्यनाशयत् ।। ४६ ।।
यज्ञं कृत्वा वशिष्ठस्तु राज्ञीवचनतत्परः ।।
यज्ञात्खट्वांग उत्पन्नः खट्वांगं शस्त्रमुद्वहन् ।। ४७ ।।
इन्द्रसाहाय्यमगमद्राज्यं त्रिंशत्सहस्रकम् ।।
कृत्वा .तत्र वरं लब्ध्वा देवेभ्यो मुक्तितां गतः .।। ४८ ।।
खट्टांगाद्दीर्घबाहुश्च राज्यं विंशत्स हस्रकम् ।।
तस्मात्सुदर्शनो जातो देवीपूजनतत्परः ।। ४९ ।।
वैष्णवा दाशरथ्यं तास्त्रयो विख्यातसद्बलाः ।।
खट्वांगो दीर्घबाहुश्च वैष्णवौ परिकीर्तितौ ।। 3.1.1.५० ।।
सुदर्शनो महाप्राज्ञः काशीराजसुतां नृपः ।।
उदूह्य भूपतीञ्जित्वा देवीसेवाप्रसादतः।। ।।
राज्यं भरतखण्डान्तमदधद्धर्मतो नृपः ।।
वर्षपञ्चसहस्राणि राज्यं चक्रे स भूपतिः ।। ५२ ।।
स्वप्नमध्ये वचः प्रोक्तं महाकाल्या नृपाय वै ।।
वत्स त्वं प्रियया सार्द्धं वशिष्ठादिभिरन्वितः ।। ५३ ।।
हिमालयं गिरिं प्राप्य वासं कुरु महामते ।।
महावायुप्रभावेन क्षयो भरतखंडके ।। ५४ ।।
रत्नाकरः पश्चिमोऽब्धिस्तस्य द्वीपाः क्षयं गताः ।।
महोदधिः पूर्वतोऽब्धिस्तस्य द्वीपाः क्षयं गताः ।। ५५ ।।
वाडवोऽब्धिर्दक्षिणे च तस्य द्वीपाः क्षयं गताः ।।
हिमाब्धिरुत्तरे तस्य सगरैः खनितो हि सः ।। ५६ ।।
ये द्वीपास्तु सुविख्यातास्तेऽपि सर्वे लयं गताः ।।
भारतो वर्ष एवासौ वत्सरे सप्तमेऽहनि ।। ५७ ।।
सजीवः प्रलयं यायात्तस्मात्त्वं जीवितो भव ।।
तथेति मत्वा स नृपः पर्वतं वै हिमालयम् ।। ५८ ।।
प्राप्तवान्मुख्यभूपैश्च मुख्यवैश्यैर्द्विजैः सह ।।
पञ्चवर्षप्रमाणेन वायुस्तेजःक्रमाज्जलम् ।। ५९ ।।
शर्करा च महीं प्राप्तास्ततो जीवाः क्षयं गताः ।।
पंचवर्षमिते काले जलं जाता वसुंधरा ।।3.1.1.६०।।
शांतो भूत्वा पुनर्वायुर्जलं सर्वमशोषयत् ।।
दशवर्षांतरे भूमिः स्थली भूत्वा प्रदृश्यते ।। ६१ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कृतयुगभूपाख्यानं नाम प्रथमोऽध्यायः ।। १ ।।