भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः १/अध्यायः ०५

कलियुगभूपाख्यानवर्णनम्

।। शौनक उवाच ।। ।।
सांप्रतं वर्तते यो वै प्रलयांते मुनीश्वर ।।
दिव्यदृष्टिप्रभावेन ज्ञातं ब्रूहि ततः परम् ।। १ ।।
।। सूत उवाच ।। ।।
न्यूहो नाम स्मृतो म्लेच्छो विष्णुमोहं तदाकरोत् ।।
तदा प्रसन्नो भगवांस्तस्य वंशः प्रवर्द्धितः ।।२।।
म्लेच्छभाषा कृता तेन वेदवाक्यपराङ्मुखा ।।
कलेश्च वृद्धये ब्राह्मीं भाषां कृत्वाऽपशब्दगाम् ।।. ३ ।।
न्यूहाय दत्तवान्देवो बुद्धीशो बुद्धिगः स्वयम् ।।
विलोमं च कृतं नाम न्यूहेन त्रिसुतस्य वै ।। ४ ।।
सिमश्च हामश्च तथा याकूतो नाम विश्रुतः ।।
याकूतः सप्तपुत्रश्च जुम्रो माजूज एव सः ।।५।।
मादी तथा च यूनानस्तूवलोमसकस्तथा ।।
तीरासश्च तथा तेषां नामभिर्देश उच्यते ।।६।।
जुम्रा दश कनाब्जश्च रिफतश्च तजर्रुमः ।।
तन्नाम्ना च स्मृता देशा यूनाद्या ये सुताः स्मृताः ।। ७ ।।
इलीशस्तरलीशश्च कित्तीहूदानिरुच्यते ।।
चतुर्भिर्नामभिर्देशास्तेषां तेषां प्रचक्रिरे ।। ।। ८ ।।
द्वितीयतनयाद्धामात्सुताश्चत्वार एव ते ।।
कुशो मिश्रश्च कूजश्च कनआंस्तत्र नामभिः ।। ९ ।।
देशाः प्रसिद्धा म्लेच्छानां कुशात्षट्तनयाः स्मृताः ।।
स वा चैव हवीलश्च सर्वतोरगमस्तथा ।। 3.1.5.१० ।।
तथा सवतिका नाम निमरूहो महाबलः ।।
तेषां पुत्राश्च कलनः सिंनारोरक उच्यते ।। ११ ।।
अक्कदो वावुनश्चैव रसनादेशकाश्च ते ।।
श्रावयित्वा मुनीन्सूतो योगनिद्रावशं गतः ।। १२ ।।
द्विसहस्रे शताब्दान्ते बुद्ध्वा पुनरथाब्रवीत ।।
सिमवंशं प्रवक्ष्यामि सिमो ज्येष्ठः स भूपतिः ।। १३ ।।
राज्यं पंचशतं वर्षं तेन म्लेच्छेन सत्कृतम् ।।
अर्कन्सदस्तस्य सुतश्चतुस्त्रिंशच्च राज्यकम् ।। १४ ।।
चतुश्शतं पुनर्ज्ञेयं सिंहस्तत्तनयोऽभवत् ।।
राज्यं तस्य स्मृतं तत्र षष्ट्युत्तर चतुः शतम् ।। १५ ।।
इव्रतस्य सुतो ज्ञेयः पितुस्तुल्यं कृतं पदम् ।।
फलजस्तस्य तनयश्चत्वारिंशद्द्वयं शतम् ।। १६ ।।
राज्यं कृतं तु तस्माच्च रऊ नाम सुतः स्मृतः ।।
सप्तत्रिंशच्च द्विशतं तस्य राज्यं प्रकीर्तितम् ।। १७ ।।
तस्माच्च जूज उत्पन्नः पितुस्तुल्यं कृतं पदम् ।।
नहूरस्तस्य तनयो वयः षष्ट्युत्तरं शतम् ।।
राज्यं चकार नृपतिर्बहुशत्रून्विहिंसयन् ।। १८ ।।
ताहरस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।।
तस्मात्पुत्रोऽविरामश्च नहूरो हारनस्त्रयः ।। १९।।
एवं तेषां स्मृता वंशा नाममात्रेण कीर्तिताः ।।
सरस्वत्याश्च शापेन म्लेच्छभाषा महाधमाः ।। 3.1.5.२० ।।
तेषां वृद्धिः कलौ चासीत्संक्षेपेण प्रकीर्तिता ।।
संस्कृतस्यैव वाणी तु भारतं वर्षमूह्यताम् ।। २१ ।।
अन्यखंडे गता सैव म्लेच्छा ह्यानंदिनोऽभवन् ।।
एवं ते विप्र कथितं विष्णुभक्तद्विजैस्सह ।। २२ ।। ।।
।। व्यास उवाच ।। ।।
तच्छ्रुत्वा मुनयस्सर्वे विशालायां निवासिनः ।।
नरं नारायणं देवं संपूज्य विनयान्विताः ।।२३।।
ध्यानं चक्रुर्मुदा युक्ता द्विशतं परिवत्सरान् ।।
तत्पश्चाद्बोधितास्सर्वे शौनकाद्या मुनीश्वराः ।। २४ ।।
संध्यातर्पणदेवार्चाः कृत्वा ध्यात्वा जनार्द्दनम् ।।
लोमहर्षणमासीनं पप्रच्छुर्विनयान्विताः ।। २५ ।।
व्यासशिष्य महाभाग चिरं जीव महामते ।।
सांप्रतं वर्तते यो वै राजा तन्मे वद प्रभो ।। २६ ।।
।।सूत उवाच ।। ।।
त्रिसहस्राब्दसंप्राप्ते कलौ भार्गवनंदन ।।
आवन्ते शंखनामाऽसौ सांप्रतं वर्तते नृपः ।।२७।।
म्लेच्छदेशे शकपतिरथ राज्यं करोति वै ।।
शृणु तत्कारणं सर्वे यथा यस्य विवर्धनम् ।। २८ ।।
द्विसहस्रे कलौ प्राप्ते म्लेच्छवंशविवर्द्धिता ।।
भूमिर्म्लेच्छमयी सर्वा नानापथविवर्द्धिता।।२९।।
ब्रह्मावर्तमृते तत्र सरस्वत्यास्तटं शुभम् ।।
म्लेच्छाचार्यश्च मूशाख्यस्तन्मतैः पूरितं जगत् ।। 3.1.5.३० ।।
देवार्चनं वेदभाषा नष्टा प्राप्ते कलौ युगे ।।
तल्लक्षणं शृणु मुने म्लेच्छभाषाश्चतुर्विधाः ।। ३१।।
व्रजभाषा महाराष्ट्री यावनी च गुरुंडिका ।।
तासां चतुर्लक्षविधा भाषाश्चान्यास्तथैव च ।। ।।३२।।
पानीयं च स्मृतं पानी बुभुक्षा भूख उच्यते ।।
पानीयं पापडी भाषा भोजनं कक्कनं स्मृतम् ।।३३।।
इष्टिशुद्धरवः प्रोक्त इस्तिनी मसपावनी
आहुतिर्वै आजु इति ददाति च दधाति च ।। ३४ ।।
पितृपैतरभ्राता च बादरः पतिरेव च ।।
सेति सा यावनी भाषा ह्यश्वश्चास्पस्तथा पुनः।।३५।।
जानुस्थाने जैनुशब्दः सप्तसिंधुस्तथैव च ।।
सप्तहिन्दुर्यावनी च पुनर्ज्ञेया गुरुंडिका ।। ३६ ।।
रविवारे च संडे च फाल्गुने चैव फर्वरी ।।
षष्टिश्च सिक्सटी ज्ञेया तदुदाहारमीदृशम् ।। ३७ ।।
या पवित्रा सप्तपुरी तासु हिंसा प्रवर्तते ।।
दस्यवः शबरा भिल्ला मूर्खा आर्ये स्थिता नराः।। ३८ ।।
म्लेच्छदेशे बुद्धिमतो नरा वै म्लेच्छधर्मिणः ।।
म्लेच्छाधीना गुणाः सर्वेऽवगुणा आर्यदेशके ।। ३९ ।।
म्लेच्छराज्यं भारते च तद्द्वीपेषु स्मृतं तथा ।।
एवं ज्ञात्वा मुनिश्रेष्ठ हरिं भज महामते ।। 3.1.5.४० ।।
तच्छ्रुत्वा मुनयः सर्वे रोदनं चक्रिरे बहु ।। ४१ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गं पर्वणि चतुर्युगखंडापरपर्याये कलियुगभूपवर्णनंनाम पंचमोऽध्यायः ।। ५ ।।