भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः १/विषयानुक्रमणिका

१ २५१ मंगलाचरणपूर्वकं मुनीनां प्रश्रे सूतेन कृतयुगीयभूपवृत्तान्तवर्णने वैवस्वतमनुमारभ्य सुदर्शनान्तनरपतिराज्यकालवृत्तांतवर्णनम् श्लो- ६१

२ २५२ त्रेतायुगीयभूपवृत्तान्तवर्णने सुदर्शननृपमारभ्य संवरणनरपालान्तभूपतिराज्यकाल वृत्तान्तवर्णनम् श्लो. ७२

३ २५३ द्वापरयुगीयभूपवृत्तान्तवर्णने संवरणमारभ्य म्लेच्छयज्ञकरप्रद्योतभूपान्तनरपति- वृत्तान्तवर्णनम् श्लो. ९७

४ २५५ म्लेच्छयज्ञवृत्तान्तवर्णनम्, कलिकृतविष्णुस्तुतिः, विष्णुना कलये वरप्रदानम, सूतशौनकादीनामार्यदेशक्षीणतामवेक्ष्य हिमवन्तं प्रति गमनम् व्यासमहर्षिणा स्वमनः प्रतिश्रोतृ विधाय भविष्यकथाकथनारम्भः, म्लेच्छभूम्युत्कर्षवर्णने आदम-श्वेत-अनुह-कीनाश-महल्लल्ल-विरद-हनूक-मताच्छिल-होमक न्यूह-सीम-शम-भाववृत्तान्तवर्णनम्, न्यूहस्य मुनिभिः सह नौकारोहणे भारतवर्षस्य वृष्टिजले निमज्जनम्, मुनिकृतदेवीस्तुतिः न्यूहस्य भूविवासव- र्णनम् श्लो, ६०

५ २५६ न्यूहवंशवर्णनम्, म्लेच्छभाषाविधानम्, सिम हाम-याकूत जुम्रमाजूज-मादी-यूनान-इलीश-तरलीश-कित्तींहूदादिप्रभृतिराज्यकरम्लेच्छवंशवर्णनम्, सूतस्य योगनिद्रोत्तरमुत्थानात्पश्चात् सिमम्लेच्छवंशवर्णनम्, संस्कृतभाषातोऽ पभ्रष्टभाषास्वरूपवर्णनम्, व्रजभाषा महाराष्ट्री-यावनी गुरुण्डभाषाणां भेदवर्णनं, यावन्यादिभाषास्थकतिपयशब्दापभ्रंशविवरणम् श्लो. ४१

६ २५७ आर्यावर्ते म्लेच्छानागमनकारणवर्णने काश्यपब्राह्मणवृत्तान्तवर्णनम्, काश्यप- ब्राह्मणकृतकाश्मीरमण्डलान्तर्गतसरस्वतीस्तुतिवर्णनम्, सरस्वतीलब्धवरेण काश्यपेन ब्रह्मावर्ते म्लेच्छाञ्छिष्यीकृत्यावस्थितिकरणम्, मागधराजवंशवर्णनम, गौतमोत्पत्तिपूर्वकं पट्टणे बौद्धधर्मसंस्कारवर्णनम्, अर्बुदाचले कान्य कुब्जद्विजेन ब्रह्महोमकरणात् प्रमर सामवेदी-चपहानि यजुर्विद् इत्येषां चतुर्णां क्षत्रियाणामुत्पत्तिवर्णनम् श्लो. ४९

७ २९८ कलिंजर-अजमेरपुर-द्वारकानगरीषु प्रमरचपहानि-शुक्लानां स्थितिवर्णनम्, अग्निवंशविस्तारवर्णने प्रमरवंशवृत्तान्तवर्णनम्, प्रमरवंशे विक्रमादित्यावतारः, विक्रमादित्यसभायां वेतालस्य विप्ररूपेणागमनम्, वेतालविक्रमसंवादः श्लो २६

इति प्रथमः खण्डः ।। १ ।।