भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः २३
।। व्यास उवाच ।। ।।
इति श्रुत्वा तु मुनयो विशालानगरीस्थिताः ।।
स्नात्वा केदारकुण्डे ते मनसा पूजयञ्छिवम् ।। १ ।।
समाधिनिष्ठास्ते सर्वे वर्षमेकं व्यतीतयन् ।। २ ।।
एतस्मिन्नंतरे राजा विक्रमादित्यभूपतिः ।।
नत्वा मुनीन्समाधिस्थांस्तुष्टाव परया गिरा ।। ३ ।।
उषित्वा ते तु मुनयः सूतं गत्वाऽब्रुवन्निदम् ।।
सोऽयं राजा समायातो यस्यैवं वर्णिता कथा ।। ४ ।।
वाजिमेधं च नृपतेः कारयामस्त्वदाज्ञया ।।
भवान्हि चक्रतीर्थे च स्थित्वा ध्यानपरो भवेत् ।। ५ ।।
तथेत्युक्त्वा तु सूतस्तैः सार्धं च पुनरागमत् ।।
विधिना कारयामास हयमेधं महामखम् ।।६।।
पूर्वे तु कपिलस्थानं दक्षिणे सेतुबन्धनम् ।।
पश्चिमे सिंधुनद्यन्तं चोत्तरे बदरीवनम् ।। ७ ।।
हयो जगाम तरसा ततः क्षिप्रां नदीं गतः ।।
त्यक्त्वा कलेवरं वह्नौ स्वर्गलोकमतो ययौ ।। ८ ।।
नृपयज्ञे सुराः सर्वे सपत्नीकाः समागताः ।।
चंद्रमास्तत्र नायातो भूपतिर्विमना अभूत् ।।९।।
यज्ञांते विविधं दानं दत्त्वा वैतालसंयुतः ।।
चंद्रलोकं गतो राजा चंद्रमाः सुखितोऽभवत् ।।3.2.23.१ ०।।
भोभो राजन्महाभाग कलौ प्राप्ते भयंकरे ।।
मद्गतिर्भूतले नास्ति तस्मान्नायामि तेऽन्तिकम् ।। ११ ।।
दत्त्वा सुधामयं तोयं चंद्रश्चान्तर्दधे पुनः ।।
ज्ञात्वेन्द्रस्तत्र संप्राप्य द्विजरूपी ह्ययाचयत् ।।१२।।
दत्तं राज्ञा तदमृतं शक्रः स्वर्गमुमुपागतः ।।
तेन तस्य फलं जातमायुर्लक्ष समं ह्यभूत्।।१३।।
तस्मिन्काले द्विजः कश्चिज्जयन्तो नाम विश्रुतः ।।
तत्फलं तपसा प्राप्तः शक्रतः स्वर्गृहं ययौ ।।१४।।
जयन्तो भर्तृहरये लक्षस्वर्णेन वर्णयन् ।।
भुक्त्वा भर्तृहरिस्तत्र योगारूढो वनं ययौ ।।१५।।
विक्रमादित्य एवास्य राज्यमकंटकम्।।
शतवर्षं मुदायुक्तो जगाम मरणे दिवम् ।। ।।१६।।
शौनकाद्यास्तु ऋषयो ज्ञात्वा भूपस्य स्वर्गतिम् ।।
गत्वा सूतं प्रणम्योचुर्धर्मं मुख्यं वदाधुना ।। १७ ।।
तेभ्यः सूतः पुराणानि श्रावयामास वै पुनः ।।
शतवर्षं पञ्चलक्षश्लोकमध्यापयन्मुदा ।।
ते श्रुत्वा मुनयः सर्वे जग्मुर्हृष्टाः स्वमालयम् ।। १८ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गं पर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रयोविंशोऽध्यायः ।। २३ ।।