भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः २६
।। सूत उवाच ।। ।।
राजासीद्धार्मिकः कश्चित्केदारमणिपूरके ।।
चन्द्रचूड इति ख्यातः प्रजापालनतत्परः ।।१।।
शांतो मधुरवाग्धीरो नारायणपरायणः।।
बभूवुः शत्रवस्तस्य म्लेच्छा विंध्यनिवासिनः ।।२।।
तस्य तैरवभवद्युद्धमतिप्रबलदारुणैः।।
भुशुंडीयुद्धनिपुणैः क्षेपणैः परिघायुधैः ।।३।।
चन्द्रचूडस्य महती सेना यमपुरे गता।।
शतं रथास्तथा नागासहस्रं तु हयास्तथा।।४।।
पत्तयः पंचसाहस्रा मृताः स्वर्गपुरं ययुः ।।
दस्यवः पंचसाहस्रा मृताः कैतवयोधिनः ।। ५ ।।
आक्रांतः स महाभागस्तैर्म्लेच्छैर्दंभयोधिभिः ।।
त्यक्त्वा राष्ट्रं च नगरं सैकाकी वनमाययौ ।। ६ ।।
तीर्थव्याजेन स नृपः पुरीं काशीं समागतः ।।
तत्र नारायणं देवं वंद्यं सर्वगृहेगृहे ।। ७ ।।
ददर्श नगरीं चैव धनधान्यसमन्विताम् ।।
यथा द्वारावती ज्ञेया तथा सा च पुरी शुभा ।। ८ ।।
विस्मितश्चंद्रचूडश्च दृष्ट्वाश्चर्यमनुत्तमम् ।।
सत्येन रोधितां लक्ष्मीं शीलधर्मसमन्विताम्।। ९ ।।
दृष्ट्वा श्रुत्वा सदानंदं सत्यदेवप्रपूजकम् ।।
पतित्वा तच्चरणयोः प्रणनाम मुदा युतः ।। 3.2.26.१० ।।
द्विजराज नमस्तुभ्यं सदानंद महामते ।।
भ्रष्टराज्यं च मां ज्ञात्वा कृपया मां समुद्धर ।। ११ ।।
यथा प्रसन्नो भगवाँल्लक्ष्मीकान्तो जनार्दनः ।।
तथा तद्वद यद्योग्यं व्रतं पापप्रणाशनम् ।। १२ ।।
।। सदानंद उवाच ।। ।।
दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ।।
सौभाग्यसंततिकरं सर्वत्र विजयप्रदम् ।। १३ ।।
सत्यनारायणव्रतं श्रीपतेस्तुष्टिकारकम् ।।
यस्मिन्कस्मिन्दिने भूप यजेच्चैव निशामुखे ।। १४ ।।
तोरणादि प्रकर्तव्यं कदलीस्तंभमंडितम् ।।
पंचभिः कलशैर्युक्तं ध्वजपंचसमन्वितम् ।।१५।।
तन्मध्ये वेदिकां रम्यां कारयेत्स व्रती द्विजैः ।।
तत्र स्थाप्य शिलारूपं कृष्णं स्वर्ण समन्वितम् ।।१६।।
कुर्याद्गंधादिभिः पूजां प्रेमभक्तिसमन्वितः।।
भूमिशायी हरिं ध्यायन्सप्तरात्रं व्यतीतयेत् ।।१७।।
इति श्रुत्वा स नृपतिः काश्यां देवमपूजयत् ।।
रात्रौ प्रसन्नो भगवान्ददौ राज्ञेऽसिमुत्तमम् ।। १८ ।।
शत्रुपक्षक्षयकरं प्राप्य खङ्गं नृपोत्तमः ।।
प्रणम्य च सदानन्दं केदारमणिमा ययौ ।। १९ ।।
हत्वा दस्यून्षष्टिशतांस्तेषां लब्ध्वा महद्धनम् ।।
हरिं प्रपूजयामास नर्मदायास्तटे शुभे ।।3.2.26.२०।।
पौर्णमास्यां विधानेन मासिमासि नृपोत्तमः।।
अपूजयत्सत्यदेवं प्रेमभक्तिसमन्वितः।।२१।।
तद्व्रतस्य प्रभावेन लक्षग्रामाधिपोऽभवत्।।
राज्यं कृत्वा स षष्ट्यब्दमन्ते विष्णुपुरं ययौ।।२२।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये चन्द्रचूडोद्धारोनाम षडूविंशोऽध्यायः ।। २६ ।।