भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०८
।। सूत उवाच ।। ।।
जम्बुको नाम भूपालो महीराजो भयातुरः ।।
कालियेन युतः प्राप्तो नर्मदायास्तटे शुभे ।। १ ।।
पार्थिवैः पूजयामास देवदेवं पिनाकिनम् ।।
षण्मासान्ते महादेवो जम्बुकं प्राह भूपतिम् ।। २ ।।
वरं वरय तेऽभीष्टं भूप आह कृतांजलिः ।।
अजितत्वं नृपैः सर्वैर्देहि मे करुणानिधे ।। ३ ।।
तथेत्युक्त्वा महादेवस्तत्रैवान्तर्हितोभवत् ।।
कालियस्त त्सुतो लब्ध्वा वीरो माहेश्वरं वरम् ।। ४ ।।
मोहनं सर्वसैन्यानां पितुरंतिकमाययौ ।।
पितरं प्राह नम्रात्मा देह्याज्ञां तात मत्प्रियाम् ।। ५ ।
गमिष्यामि बलैः सार्द्धं गंगां शुद्धजलां शुभाम् ।।
तथेत्युक्त्वा पिता तस्मै ययौ तु स्वं निवेशनम् ।। ६ ।।
भगिनीं प्राह बलवान्विजयैषिणि शोभने ।।
किमिच्छसि शुभं वस्तु तदाज्ञां देहि मा चिरम् ।। ७ ।।
साह ग्रैवेयकं हारं मणिमुक्ताविभूषितम् ।।
मत्प्रियं देहि मे वीर तथेत्युक्त्वा ययौ गृहात् ।। ८ ।।
कालियो लक्षतुरगैः संयुतस्त्वरितोऽगमत् ।।
प्राप्य गंगां सागरगां कृत्वा स्नानं विधानतः ।। ९ ।।
दत्त्वा दानानि विप्रेभ्यो जयचन्द्रपुरीं ययौ ।।
निर्धनः समभूद्राजा बाहुशाली महाबलः ।। 3.3.8.१० ।।
कान्यकुब्जे महाहारौ न प्राप्तो बहुमूल्यकः ।।
तदोर्वीयाधिपेनैव महीशेन प्रबोधितः ।।११।।
ययौ महावतीं रम्यां शिवदत्तवरो बली ।।
रुरोध नगरीं सर्वां श्रुत्वा राजा भयातुरः ।।१२।।
रुद्रं कपर्दिनं शंभुं शरण्यं शरणं ययौ ।।
शिवाज्ञया नृपो धीमान्बलैः षष्टिसहस्रकैः ।। १३ ।।
सार्द्धं पुराद्बहिर्यातस्त्रिभिः शूरैः सुरक्षितः ।।
तस्य नागाः सहस्रं च देशराजश्च तत्पतिः ।। १४ ।।
हयाः षोडशसाहस्रा वत्सराजस्तु तत्पतिः ।।
शेषाः पदातयस्तस्य तालनेनैव रक्षिताः ।। १५ ।।
प्रनष्टो मुलं युद्धं तेषां वीरवरक्षयम् ।।७
अहोरात्रप्रमाणेन महद्घोरमवर्तत ।। १६ ।।
ते हत्वा शात्रवीं सेनां चक्रुर्जयरवान्मुहुः ।।
भयार्ता नार्मदेयाश्च माहिष्मतिनिवासिनः ।। १७ ।।
दुद्रुवुः सर्वतो विप्र दृष्ट्वा तान्कालियो नृपः ।।
आश्वास्य प्रययौ युद्धमर्द्धसैन्यसमन्वितः ।। १८ ।।
हृदि कृत्वा महादेवं मोहनं बाणमादधत् ।।
सिद्धमन्त्रप्रभावेण मोहितास्ते बभूविरे ।। १९ ।।
शेषास्ते शत्रवः सर्वे रिपुघाताय संययुः ।।
अलसांस्तान्कपालेषु जघ्नुस्ते भयवर्जिताः ।। 3.3.8.२० ।।
भीष्मसिंहस्तथा दृष्ट्वा बोधयामास सैनिकान् ।।
सूर्यदत्तेन बाणेन संज्ञाख्यानेन तत्र वै ।। ।। २१ ।।
भैरवाख्येन भल्लेन शत्रुदेहमताडयत् ।।
मूर्च्छितः सोऽपतद्वीरो गजपृष्ठे शरार्दितः ।। २२ ।।
तदा माहिष्मती सेना निर्ययौ सा दिशौ दश ।।
मुहूर्तं कश्मलं प्राप्य पुनरुत्थाय कालियः ।। २३ ।।
भल्लेन तच्छिरः कायादपाहरत भूमिपः ।।
हते तस्मिन्महावीर्ये तालनाद्या महा बलाः ।। २४ ।।
कालियं ते पराजित्य तं शत्रुं प्रत्यषेधयन् ।।
महाकष्टान्वितो भूपो ध्यात्वा मनसि शंकरम् ।। २५ ।।
मोहयित्वा रिपून्सर्वान् ययौ स्वं निवेशनम् ।।
अर्द्धसैन्येन सहिता हतशेषास्त्रयस्तथा ।। २६ ।।
तदा परिमलो राजा दृष्ट्वा शत्रुपराजयम् ।।
परिष्वज्य महावीरान्स्व गेहं पुनराययौ ।। २७ ।।
जयचन्द्रस्तु तच्छुत्वा परं विस्मयमागतः ।।
तालनं च समाहूय सेनाधीशमकरायत् ।। २८ ।।
भीष्मसिंहे गते लोके पंचमासान्तरे नृपे ।।
तत्पत्नी जनयामास पुत्ररत्नं शुभाननम् ।। २९ ।।
सा तु गुर्जरभूपस्य तनयाख्या मदालसा ।।
दिव्यं पुत्रं समालोक्य मुमुदे सगणा भृशम् ।। 3.3.8.३० ।।
श्रुत्वा तज्जन्म नृपतिर्विततार धनं बहु ।।
आहूय गणकान्प्राज्ञाञ्जातकर्म ह्यकारयत् ।। ३१ ।।
सहदेवांश एवासौ भुवि जातः शिवाज्ञया ।।
देवसिंहः कृतो नाम गणकैः शास्त्रचिंतकैः ।। ३२ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टमोऽध्यायः ।। ८ ।।