भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ११
।। सूत उवाच ।। ।।
दशाब्दे च वयः प्राप्ते विष्णोः शक्त्यवतारके ।।
वसंतसमये रम्ये ययुस्ते प्रमदावनम् ।। ।। १ ।।
ऊषुस्तत्र व्रताचारे माधवे कृष्णवल्लभे ।।
स्नात्वा च सागरे प्रातः पूजयामासुरंबिकाम् ।। २ ।।
ऋतुकालोद्भवैः पुष्पैर्धूपैर्दीपैर्विधानतः ।।
जप्त्वा सप्तशतीस्तोत्रं दध्युः सर्वकरीं शिवाम् ।। ३ ।।
कंदमूलफलाहारा जीवहिंसाविवर्जिताः ।।
तेषां भक्तिं समालोक्य मासांते जगदंबिका ।।४ ।।
ददौ तेभ्यो वरं रम्यं तच्छृणुध्वं समाहिताः।।
आह्लादाय सुरत्वं च बलत्वं बलखानये ।। ५ ।।
कालज्ञत्वं च देवाय ब्रह्मज्ञत्वं नृपाय च।।।
कृष्णांशायैव योगत्वं दत्त्वा चांतर्दधे शिवा ।। ६ ।।
कृतकृत्यास्तदा ते वै स्वगेहं पुनराययुः ।।
तेषां प्राप्ते वरे रम्ये मलना पुत्रमूर्जितम् ।।७।।
श्यामांगं सात्यकेरंशं सुषुवे शुभलक्षणम् ।।
स ज्ञेयो रणजिच्छूरो राजन्यप्रियकारकः ।। ८ ।।
आषाढे मासि संप्राप्ते कृष्णांशो हयवाहनः ।।
उर्वीयां नगरीं प्राप्त एकाकी निर्भयो वली ।। ९ ।।
दृष्ट्वा स नगरीं रम्यां चतुर्वर्णनिषेविताम् ।।
द्विजशालां ययौ शूरो द्विजधेनुप्रपूजकः ।। 3.3.11.१० ।।
दत्त्वा स्वर्णं द्विजातिभ्यः संतर्प्य द्विजदेवताः ।।
महीपतिगृहं रम्यं जगाम बलवत्तरः ।। ११ ।।
नत्वा स मातुलं धीमांस्तथान्याँश्च सभासदः ।। १२ ।।
तदा नृपाज्ञया शूरा बंधनाय समुद्यताः ।।
खङ्गहस्ताः समाजग्मुर्यथा सिंहं गजाः शशाः ।। १३ ।।
मोहितं तं नृपं कृत्वा दुष्टबुद्धिर्महीपतिः ।।
कृत्वा लोहमयं जालं तस्योपरि समादधेः ।। १४ ।।
एतस्मिन्नंतरे वीरो बोधितो देवमायया ।।
आगस्कृतान्रिपूञ्ज्ञात्वा खङ्गहस्तः समावधीत् ।। १५ ।।
हत्वा पंचशतं शूरो हयारूढो महाबली ।।
उर्वीयां नगरीं प्राप्य जलपाने मनो दधौ १६ ।।
कूपे दृष्ट्वा शुभा नार्यो घटपूर्तिकरीस्तदा ।।
उवाच मधुरो वाक्यं देहि सुंदरि मे जलम् ।। १७ ।।
दृष्ट्वा ताः सुंदरं रूपं मोहनायोपचक्रिरे ।।
भित्त्वा तासां तु वै कुम्भान्पाययित्वा हयं जलम् ।। १८ ।।
वनं गत्वा रिपुं जित्वा बद्ध्वा तमुभयं बली ।।
चण्डिकापार्श्वमागम्य तद्वधाय मनो दधे ।। १९ ।।
श्रुत्वा स करुणं वाक्यं त्यक्त्वा स्वनगरं ययौ ।।
नृपांतिकमुपागम्य वर्णयामास कारणम् ।। 3.3.11.२० ।।
श्रुत्वा परिमलो राजा द्विजातिभ्यो ददौ धनम् ।।
समाघ्राय स कृष्णांशं कृतकृत्योऽभवन्नृपः ।। २१ ।।
संप्राप्तैकादशदाब्दे तु कृष्णांशे युद्धदुर्मदे ।।
महीपतिर्निरुत्साहः प्रययौ देहलीं प्रति ।। २२ ।।
बलिं यथोचितं दत्त्वा भगिन्यै भयकातरः ।।
रुरोद वहुधा दुःखं देशराजात्मजप्रजम् ।। २३ ।।
अगमा भगिनी तस्य दृष्ट्वा भ्रातरमातुरम् ।।
स्वपतिं वर्णयामास श्रुत्वा राजाब्रवीदिदम् ।। २४ ।।
अद्याहं स्वबलैः सार्द्धं गत्वा तत्र महावतीम् ।।
हनिष्यामि महादुष्टं देशराजसुतं रिपुम् ।। २५ ।।
इत्युक्त्वा धुंधुकारं च समाहूय महाबलम् ।।
सैन्यमाज्ञापयामास सप्तलक्षं तनुत्यजम् ।। २६ ।।
केचिच्छूरा हयारूढा उष्ट्रारूढा महाबलाः ।।
गजारूढा रथारूढाः संययुश्च पदातयः ।। २७ ।।
देवसिंहस्तु कालज्ञः श्रुत्वा चागमनं रिपोः ।।
नृपपार्श्वं समागम्य सर्वं राज्ञे न्यवेदयत् ।। २८ ।।
श्रुत्वा परिमलो राजा विह्वलोऽभूद्भयातुरः ।।
बलखानिस्तमुत्थाय हर्षयुक्त इवाह च ।। ।। २९ ।।
अद्याहं च महीराजं धुंधुकारं ससैन्यकम् ।।
जित्वा दंड्यं च भवतः करिष्यामि तवाज्ञया ।। 3.3.11.३० ।।
इत्युक्त्वा तं नमस्कृत्य सेनापतिरभून्मुने ।।
तदा तु निर्भया वीरा दृष्ट्वा राजानमातुरम् ।। ३१ ।।
चतुर्लक्षबलैः सार्द्धं ते युद्धाय समाययुः ।।
शिंशपाख्यं वनं घोरं छेदयित्वा रिपोस्तदा ।। ३२ ।।
ऊषुस्तत्र रणे मत्ताः सर्वशत्रुभयंकराः ।।
एतस्मिन्नन्तरे तत्र धुंधुकारादयो बला ।। ३३ ।।
कृत्वा कोलाहलं शब्दं युद्धाय समुपाययुः ।।
पूर्वाह्णे तु भृगुश्रेष्ठ सन्नद्धास्ते शतघ्निपाः ।। ३४ ।।
शतघ्नीभिस्त्रिसाहस्रैः पञ्चसाहस्रका ययुः ।।
द्विसहस्रशतघ्नीभिः सहिता श्चन्द्रवंशिनः ।। ३५ ।।
सैन्यं षष्टिसहस्रं च स्वगर्लोकमुपाययौ ।।
तदर्द्धं च तथा सैन्यं महीराजस्य संक्षितम् ।। ३६ ।।
दुद्रुवुर्भीरुकाः शूरा वलखानेर्दिशो दश ।।
रथा रथै रणे हन्युर्गजाश्चैव गजैस्तथा ।। ३७ ।।
हया हयैस्तथा उष्ट्रा उष्ट्रपैश्च समाहनन् ।।
एवं सुतुमुले जाते दारुणे रोम हर्षणे ।। ३८ ।।
हाहाभूतान्स्वकीयांश्च सैन्यान्दृष्ट्वा महाबलान् ।।
अपराह्णे भृगुश्रेष्ठ पञ्च शूराः समाययुः ।। ३९ ।।
ब्रह्मानंदः शरैः शत्रूननयद्यमसादनम् ।।
देवसिंहस्तथा भल्लैराह्रादस्तत्र तोमरैः ।। 3.3.11.४० ।।
बलखानिः स्वखड्गेन कृष्णांशस्तु तथैव च ।।
द्विलक्षान्क्षत्रियाञ्जघ्नुः सर्वसैन्यैः समं ततः ।। ४१ ।।
दृष्ट्वा पराजितं सैन्यं धुंधुकारो महाबलः ।।
आह्लादं च स्वभल्लेन गजारूढः समावधीत् ।। ४२ ।।
आह्लादे मूर्च्छिते तत्र देवसिंहो महाबलः ।।
भल्लेन भ्रातरं तस्य दंशयामास वेगतः ।। ४३ ।।
स तीक्ष्णव्रणमासाद्य गजस्थः संमुमोह वै ।।
आगताः शतराजानो नानादेश्या महाबलाः ।। ४४ ।।
शस्त्राण्यस्त्राणि तेषां तु छित्त्वा खङ्गेन वत्सजः ।।
स्वखड्गेन शिरांस्येषां पातयामास भूतले ।। ४५ ।।
हते शत्रुसमूहे तु तच्छेषास्तु प्रदुद्रुवुः ।।
महीराजस्तु बलवान्दृष्ट्वा भग्नं स्वसैन्यकम् ।। ४६ ।।
आजगाम गजारूढः शिवदत्तवरो बली ।।
रौद्रेणास्त्रेण हृदये चावधीद्वत्सजं रिपुम् ।। ४७ ।।
आह्लादं च तथा वीरं देवं परिमलात्मजम् ।।
मूर्च्छयित्वा महावीराञ्छत्रुसैन्यमुपागमत् ।। ४८ ।।
पूजयित्वा शतघ्नीश्च महावधमकारयत् ।।
रोपणस्त्वरितो गत्वा राज्ञे सर्वमवर्णयत् ।। ४९ ।।
एतस्मिन्नंतरे वीरः सुखखानिर्महाबलः ।
कपोतं हयमारुह्य नभोमार्गेण चागमत् ।। 3.3.11.५० ।।
मूर्च्छयित्वा महीराजं स्वबंधूंश्च सवाहनान् ।।
कृत्वा नृपांतमागम्य बंधनाय समुद्यतः ।। ५१ ।।
तदोत्थाय महीराजो महादेवेन बोधितः ।।
पुनस्तान्स्वशरै रौद्रैर्मूर्च्छयामास कोपवान् ।। ५२ ।।
सुखखान्यादिकाञ्छूरान्संबध्य निगडैर्दृढैः ।।
नृपं परिमलं प्राप्य पुनर्युद्धमचीकरत् ।। ५३ ।।
हाहाभूतं स्वसैन्यं च दृष्ट्वा स उदयो हरिः ।।
नभोमार्गे हयं कृत्वा ताः शतध्नीरनाशयत् ।। ५४ ।।
महीराजगजं प्राप्य बद्ध्वा तं निगडैर्बलो ।।
आह्लादपार्श्वमागम्य भ्रात्रे भूपं समर्पयत् ।। ५५ ।।
तदा तु पृथिवीराजो लज्जितस्तेन निर्जितः ।।
पञ्चकोटिधनं दत्त्वा स्वगेहं पुनराययौ ।। ५६ ।।
देवसिंहाज्ञया शूरो बलखानिर्हि वत्सजः ।।
तैर्द्रव्यैर्नगरीं रम्यां कारयामास सुन्दरीम् ।। ५७ ।।
शिरीषाख्यं पुरं नाम तेन वीरेण वै कृतम् ।।
सर्ववर्णसमायुक्तं द्विक्रोशायामसंमितम् ।। ५८ ।।
तत्रैव न्यवसद्वीरो वत्सजः स्वकुलैः सह ।।
त्रिंशत्कोशे कृतं राष्ट्रं तत्रैव बलखानिना ।। ५९ ।।
श्रुत्वा परिमलो राजा तत्रागत्य मुदान्वितः ।।
आघ्राय वत्सजं शूरं देशराजसुतं तथा ।। 3.3.11.६० ।।
ब्रह्मानंदेन सहितः स्वगेहं पुनराययौ ।। ६१ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये एकादशो ऽध्यायः ।। ११ ।।