भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १५

।। सूत उवाच ।। ।।
इन्दुले स्वर्गसंप्राप्ते ते वीराः शोककातराः ।।
शारदां पूजयामासुः सर्वलोकनिवासिनीम् ।। १ ।।
जप्त्वा सप्तशती स्तोत्रं त्रिसन्ध्यं प्रेमभक्तितः ।।
ध्यानेनानन्दमापन्नास्तदा सप्तशतेहनि ।। २ ।।
सामन्तद्विजपुत्रश्च चामुण्डो नाम विश्रुतः ।।
सोऽष्टवर्षवया भूत्वा पूजयामास चण्डिकाम् ।। ३ ।।
द्वादशाब्दे ततो जाते त्रिचरित्रस्य पाठतः ।।
परीक्षार्थं तु भक्तानां साक्षान्मूर्तित्वमागता ।। ४ ।।
कुंडिकेयं च भो भक्ताः पूरयामि च तामहम् ।।
यूयं तु मनसोपायैः कुरुध्वं पूरणे मतिम् ।। ५ ।।
सुखखानिस्तु बलवान्मधुपुष्पैस्तथा फलैः ।।
कुण्डिकां पूरया मास न पूर्णत्वमुपागता ।।
बलखानिस्तथा मांसैर्मूलशर्मा तु रक्तकैः ।। ६ ।।
देवकी च तदा हव्यैश्चन्दनादिभिरर्चनैः ।।
कुण्डिकां पूरयामास न पूर्णत्वमुपागता ।। ७ ।।
आह्रादश्चैव सर्वांगैरुदयः शिरसा स्वयम् ।।
कुण्डिकां पूरयामास तदा पूर्णत्वमागता ।। ८ ।।
उवाच वचनं देवी स्वभक्तान्भक्तवत्सला ।।
सुखाखाने भवान्वीरो भविष्यति सुरप्रियः ।। ९ ।।
बलखानिर्महावीरो दीर्घे काले स मृत्युभाक् ।।
मूलशर्मा तु बलवान्रक्तबीजो भविष्यति ।। 3.3.15.१० ।।
देवकी च भवेद्देवी चिरकालं स्वलोकगा ।।
आह्लादश्चैव कृष्णांशस्तयोर्मध्ये द्वयं वरम् ।।
एकस्तु देववत्प्रोक्तो बलाधिक्यो द्वितीयकः ।। ११ ।।
निष्कामोऽयं देवसिंहो मृतो मोक्षत्वमाप्नुयात् ।।
इत्युक्त्वान्तर्दधे माता ते सर्वे तृप्तिमागताः ।। १२ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये पञ्चदशोऽध्यायः ।। १५ ।।