भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २८
।। सूत उवाच ।। ।।
अष्टाविंशाब्दके प्राप्ते कृष्णांशे बलवत्तरे ।।
कार्तिक्यामिंदुवारे च कृत्तिकाव्यतिपातभे।।१।।
कृष्णांशोऽयुतसेनाढ्यः स्वर्णवत्या समन्वितः।।
विवाहमुकुटस्यैव संत्यागाय ययौ मुदा।।२।।
पवित्रमुत्पलारण्यं वाल्मीकिमुनिसेवितम्।।
गंगाकूले ब्रह्ममयं लोहकीलकमुत्तमम्।।३।।
तत्र गत्वा स शुद्धात्मा पुष्पवत्या समन्वितः।।
गोसहस्रं च विप्रेभ्यो ददौ स्नाने प्रसन्नधीः।। ।। ४ ।।
एतस्मिन्नंतरे प्राप्ता म्लेच्छजातिसमुद्भवा ।।
शोभा नाम महारम्या वेश्या परमसुन्दरी।। ५ ।।
सा ददर्श परं रम्यं कृष्णाशं पुरुषोत्तमम्।।
तद्दृष्टिमोहमापन्ना व्याकुला चाभवत्क्षणात् ।। ६ ।।
मूर्च्छितां तां समालोक्य कृष्णांशः सर्वमोहनः ।।
स्वनिवासमुपागम्य विप्रानाहूय पृष्टवान् ।। ७ ।।
अष्टादश पुराणानि केन प्रोक्तानि किं फलम् ।।
ब्रूत मे विदुषां श्रेष्ठा वेदशास्त्रपरायणाः ।। ८ ।।
इति श्रुत्वा वचो रम्यं विद्वांसः शास्त्रकोविदाः ।।
अब्रुवन्वचनं रम्यं कृष्णांशं सर्वधर्मगम् ।। ९ ।।
पराशरेण रचितं पुराणं विष्णुदैवतम् ।।
शिवेन रचितं स्कांदं पाद्मं ब्रह्ममुखोद्भवम् ।। 3.3.28.१० ।।
शुकप्रोक्तं भागवतं ब्राह्मं वै ब्रह्मणा कृतम् ।।
गारुडं हरिणा प्रोक्तं षड् वै सात्त्विकसंभवाः ।। ११ ।।
मत्स्यः कूर्मो नृसिंहश्च वामनः शिव एव च ।।
वायुरेतत्पुराणानि व्यासेन रचितानि वै ।। १२ ।।
राजसाः षट् स्मृता वीर कर्मकांडमया भुवि ।।
मार्कंण्डेयं च वाराहं मार्कण्डेयेन निर्मितम् ।। १३ ।।
आग्नेयमंगिराश्चैव जनयामास चोत्तमम् ।।
लिंगब्रह्मांडके चापि तंडिना रचिते शुभे ।।
महादेवेन लोकार्थे भविष्यं रचितं शुभम् ।। १४ ।।
तामसाः षट् स्मृताः प्राज्ञैः शक्तिधर्मपरायणाः ।।
सर्वेषां च पुराणानां श्रेष्ठं भागवतं स्मृतम् ।। १५ ।।
घोरे भुवि कलौ प्राप्ते विक्रमो नाम भूपतिः ।।
कैलासाद्भुवमागत्य मुनीन्सर्वान्समाह्वयत् ।। १६ ।।
तदा ते मुनयस्सर्वे नैमिषारण्यवासिनः ।।
सूतं सञ्चोदयामासुस्तेषां तच्छ्रवणाय च ।।
प्रोक्तान्युपपुराणानि सूतेनाष्टादशैव च ।। १७ ।।
इति श्रुत्वा तु वचनं कृष्णांशो धर्मतत्परः ।।
श्रुत्वा भागवतं शास्त्रं सप्तमेऽह्नि महोत्तमम् ।। १८ ।।
ददौ दानानि विप्रेभ्यो गोसुवर्णमयानि च ।।
ब्राह्मणान्भोजयामास सहस्रं वेदतत्परान् ।।१९।।
तदा तु भिक्षुकी भूत्वा शोभा नाम मदातुरा ।।
मायां कृतवती प्राप्य कृष्णांशो यत्र वै स्थितः ।। 3.3.28.२० ।।
ध्यात्वा महामदं वीरं पैशाचं रुद्रकिंकरम् ।।
मायां सा जनयामास सर्वपाषाणकारिणीम् ।। २१ ।।
दृष्ट्वा स्वर्णवती देवी तां मायां शोभयोद्भवाम् ।।
छित्त्वा चाह्लाद्य वामांगीं स्वगेहं गंतुमुद्यता २२ ।।
सा वेश्या तु शुचाविष्टा तस्याः शृंगारमुत्तमम् ।।
स्वर्णयंत्रस्थितं रम्यं लक्षद्रव्योपमूल्यकम् ।।
संहृत्य मायया धूर्ता देशं वाह्लीकमाययौ ।। २३ ।।
कल्पक्षेत्रमुपागम्य नेत्रसिंहसमुद्भवा ।।
वेश्यया मम शृंगारं हृतं ज्ञात्वा सुदुःखिता ।। २४ ।।
कृष्णांशं वचनं प्राह गच्छगच्छ महाबल ।।
गृहीत्वा मम शृंगारं शीघ्रमागच्छ मां प्रति ।। २५ ।।
गुटिकेयं मया वीर रचिता तां मुखेन च ।।
धूर्तमायाविनाशाय तव मंगलहेतवे ।। २६ ।।
इति श्रुत्वा तथा कृत्वा कृष्णांशस्सर्वमोहनः ।।
शूकरक्षेत्रमागम्य तत्र वेश्यां ददर्श ह ।। २७ ।।
सा तु वेश्या च तं वीरं दृष्ट्वा कन्दर्पकारिणम् ।।
रचयित्वा पुनर्मायां तदंतिकमुपागता ।। २८ ।।
तदा सा निष्फलीभूय रुरोद करुणं बहु ।।
रुदतीं तां समालोक्य दयालुस्स प्रसन्नधीः ।। २९ ।।
गृहीत्वा सर्वशृंगारं वचनं प्राह निर्भयः ।।
किं रोदिषि महाभागे सत्यं कथय मा चिरम् ।। 3.3.28.३० ।।
साह मे सहरो नाम भ्राता प्राणसमप्रियः ।।
नाट्यैश्च पञ्चसाहस्रैः सहितो मरणं गतः ।।३१।।
अतो रौमि महाभाग संप्राप्ता शरणं त्वयि ।।
इत्युक्त्वा मायया धूर्ता कृत्वा शवमयान्त्यजान् ।। ३२ ।।
तस्मै प्रदर्शयामास निजकार्यपरायणा ।।
रुदित्वा च पुनस्तत्र प्राणांस्त्यक्तुं समुद्यता ।। ३३ ।।
दयालुस्स च कृष्णांशस्तामाह करुणं वचः ।।
कथं ते जीवयिष्यन्ति शोभने कथयाशु मे ।। ३४ ।।
साह वीर तवास्ये तु संस्थिता गुटिका शुभा ।।
देहि मे कृपया वीर जीवयिष्यन्ति ते तथा ।। ३५ ।।
इत्युक्तस्तु तया वीरो ददौ तस्यै च तद्वसु।।
तदा प्रसन्ना सा धूर्ता कृत्वा शुकमयं वपुः ।।
पंजरस्थमुपादाय कृष्णांशं कामविह्वला ।। ३६ ।।
बाह्लीकदेशमागम्य सारट्टनगरं शुभम् ।।
उवास च स्वयं गेहे कृत्वा दिव्यमयं वपुः ।। ३७ ।।
निशीथे समनुप्राप्ते कृत्वा तं नररूपिणम् ।।
आलिलिंग हि कामार्ता कृष्णांशं धर्मकोविदम् ।। ३८ ।।
दृष्ट्वा तां स तथाभूतां कृष्णांशो जगदंबिकाम् ।।
तुष्टाव मनसा धीरो रात्रिसूक्तेन नम्रधीः ।।३९।।
तदा सा स्वेडिनी भूत्वा त्यक्त्वा कृष्णांशमुत्तमम् ।।
पुनः शुकमयं कृत्वा चिंचिणीवृक्षमारुहत् ।। 3.3.28.४० ।।
तदा स्वर्णवती देवी बोधिता विष्णुमायया ।।
कृत्वा श्येनीमयं रूपं तत्र गत्वा मुदान्विता ।।
ददर्श शुकभूतं च कृष्णांशं योगतत्परम् ४१ ।।
एतस्मिन्नंतरे वेश्या पुनः कृत्वा शुभं वपुः ।।
नरभूतं च कृष्णांशं वचनं प्राह नम्रधीः ।। ४२ ।।
अये प्राणप्रिय स्वामिन्भज मां कामविह्वलाम् ।।
पाहि मां रतिदानेन धर्मज्ञोसि भवान्सदा ।। ४३ ।।
इत्युक्तस्स तु तामाह वचनं शृणु शोभने ।।
ते आर्यवर्त्मस्थितोहं वै वेदमार्गपरायणः ।। ४४ ।।
विवाहितां शुभां नारीं यो भजेत ऋतौ न हि ।।
स पापी नरकं याति तिर्य्यग्योनिमयं स्मृतम् ।।
अतः परस्त्रिया भोगो ज्ञेयो वै निरयप्रदः ।। ४५ ।।
इति श्रुत्वा तु सा प्राह विश्वामित्रेण धीमता ।।
शृंगिणा च महाप्राज्ञ वेश्यासंगः कृतः पुरा ।।
न कोऽपि नरकं प्राप्तस्तस्मान्मां भज कामिनीम् ।। ४६ ।।
पुनश्चाह स कृष्णांशः कृत्तं पापं तपोबलात् ।।
ताभ्यां च मुनियुग्माभ्यामसमर्थो हि सांप्रतम् ।। ४७ ।।
अर्द्धांगं पुरुषस्य स्त्री मैथुने च विशेषतः ।।
अहमार्यश्च भवती वेश्या च बहुभोगिनी ।। ४८ ।।
ऋचि शब्दश्च पूर्वास्याज्जात ऋग्जस्सनातनः ।।
योगजश्चैव यः शब्दो दक्षिणास्याद्यजुर्भवः ।।४९।।
तद्धितान्तश्च यश्शब्दः पश्चिमास्याच्च सामजः ।।
छन्दोभूताश्च ये शब्दास् ते सर्वे ब्राह्मणप्रियाः ।।
केवलो वर्णमात्रश्च स शब्दोऽथर्वजः स्मृतः ।। 3.3.28.५० ।।
पञ्चमास्याच्च ये जाताः शब्दाः संसारकारिणः ।।
ते सर्वे प्राकृता ज्ञेयाश्चतुर्लक्षविभेदिनः ।। ५१ ।।
हित्वा तान्यो हि शुद्धात्मा चतुर्वेदपरायणः ।।
स वै भवाटवीं त्यक्त्वा पदं गच्छत्यनामयम् ।। ५२ ।।
न वदेद्यावनीं भाषां प्राणैः कंठगतैरपि ।।
गजैरापीडयमानोऽपि न गच्छेज्जैनमंदिरम् ।। ५३ ।।
इत्येवं स्मृतिवाक्यानि मुनिना पठितानि वै ।।
कथं त्याज्यो मया धर्मस्सर्वलोकसुखप्रदः ।। ५४ ।।
इति श्रुत्वा तु सा वेश्या म्लेच्छायाश्चांशसंभवा ।।
शोभना नाम रंभोरूर्महाक्रोधमुपाययौ ।। ५५ ।।
वेतसैस्ताडयित्वा तं पुनः कृत्वा शुकं स्वयम् ।।
न ददौ भोजनं तस्मै फलाहारं शुकाय वै ।। ५६ ।।
तदा स्वर्णवती देवी कृत्वा नारीमयं वपुः ।।
मशकीकृत्य तं वीरं तत्रैवान्तर्दधे तु सा ।। ५७ ।।
पुनः श्येनीवपुः कृत्वा तद्देशाद्यातुमुद्यता ।।
पृष्ठमारोप्य मशकं मयूरनगरं ययौ ।। ५८ ।
मकरंदस्तु तां दृष्ट्वा कृष्णांशेन समन्विताम् ।।
नेत्रपालस्य तनयां नाम्ना स्वर्णवती बली ।।
चरणावुपसंगृह्य स्वगेहे तामवासयत् ।। ५९ ।।
शोभनापि च संबुध्य पञ्जरान्तमुपस्थिता ।।
न ददर्श शुकं रम्यं मूर्छिता चापतद्भुवि ।। 3.3.28.६० ।।
किं करोमि क्व गच्छामि विना तं रमणं परम् ।।
इत्येव बहुधालप्य मदहीनपुरं ययौ ।। ६१ ।।
तत्र स्थितं च पैशाचं मायामदविशारदम् ।।
महामदं च संपूज्य स्वदेहं त्यक्तुमुद्यता ।। ६२ ।।
महामदस्तु संतुष्टो गत्वा वै शिवमंदिरम् ।।
मरुस्थलेश्वरं लिंगं तुष्टावार्षभभाषया ।। ६३ ।।
तदा प्रसन्नो भगवान्वचनं प्राह सेवकम् ।।
स्वर्णवत्या हृतो वीरः कृष्णांशश्चार्यधर्मगः ।।
मया सह समागच्छ मयूरनगरं प्रति ।। ६४ ।।
इत्युक्तस्तेन पैशाचो नटैः पंचसहस्रकैः ।।
तया सह ययौ तूर्णं सहुरेणं समन्वितः ।। ६५ ।।
इन्दुलश्च तथाह्लादो बोधितो विष्णुमायया ।।
त्रिलक्षबलसंयुक्तो देवसिंहेन संयुतः ।।
मयूरनगरं प्राप्य मकरंदमुपाययौ ।।६६।।
तदा तु शोभना वेश्या सहुरेण बलैस्सह ।।
चकार भैरवीं मायां सर्वशत्रुभयंकरीम् ।।६७।।
सर्वतश्चोत्थितो वातो महामेघसमन्वितः।।
पतंति बहुधा चोल्काः शर्करावर्षणे रताः ।। ६८
दृष्ट्वा तां भैरवीं मायां तमोभूतां समन्ततः ।।
मकरन्दश्च बलवान्रथस्थः स्वयमाययौ ।। ६९ ।।
शनिभल्लेन तां मायां भस्म कृत्वा महाबलः ।।
गृहीत्वा सहुरं धूर्तं सबलं गेहमाप्तवान् ।। 3.3.28.७० ।।
तदा तु शोभना नारी काममायां चकार ह ।।
बहुलास्संस्थिता वेश्या गीतनृत्यविशारदाः ।। ७१ ।।
मोहिताः क्षत्रियाः सर्वे मुमुहुर्लास्यदर्शनात् ।।
देवसिंहाच्च कृष्णांशादृते ते जडतां गताः ।। ।।७२।।
तदा स्वर्णवती देवी कामाक्षी ध्यानतत्परा ।।
पुनरुत्थाप्य तान्सर्वान्गृहीत्वा शोभनां पुनः ।।
मयूरध्वजमागम्य निगडैस्तान्बबंध ह।।७३।।
महामदस्तु तज्ज्ञात्वा रुद्रध्यानपरायणः ।।
चकार शाम्बरीं मायां नानासत्त्वविधायिनीम् ।।७४।।
व्याघ्राः सिंहा वराहाश्च वानरा दंशका नराः ।।
सर्पा गृध्रास्तथा काका भक्षयंति समंततः ।। ७५ ।।
तदा स्वर्णवती देवी कामाक्षीध्यानतत्परा ।।
ससर्ज स्मरजां मायां तन्मायाध्वंसिनीं रणे ।। ।।७६।।
तया तार्क्ष्यास्समुत्पन्नाः शरभाश्च महाबलाः ।।
सिंहादीन्भक्षयामासुर्जघ्नुश्चैव सहस्रशः ।।७७।।
हाहाभूते च तत्सैन्ये दिक्षु विद्राविते सति ।।
शोभना चाभवद्दासी स्वर्णवत्याश्च मायिनी ।। ७८।।
सहुरस्तैर्नटैस्सार्द्धं चाह्लादेनैव चूर्णितः ।।
तेषां रुधिरकभाश्च? भूमिमध्ये समारुहन् ।। ७९ ।।
एवं च मुनिशार्दूल चतुर्मास्स्वभवद्रणः ।।
वैशाखे मासि संप्राप्ते ते वीरा गेहमाययुः ।।
इति ते कथितं विप्र चान्यत्किं श्रोतुमिच्छसि ।। 3.3.28.८० ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टाविंशोऽध्यायः ।। २८ ।।