भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २९

।। ऋषय ऊचुः ।। ।।
किन्नरी नाम या कन्या त्वया प्रोक्ता महामुने ।।
कुत्र स्थाने कथं जाता तत्सर्वं कृपया वद ।। १ ।।
।। सूत उवाच ।। ।।
पुरा चैत्ररथे देशे नानाजननिषेविते ।।
वसंतसमये प्राप्ते क्रीडंत्यत्र दिवौकसः ।। २ ।।
मंजुघोषा च स्वर्वेश्या शुकस्थाने समागता ।।
दृष्ट्वा तं सुन्दरं बालं मोहनाय समुद्यता ।। ३ ।।
गीतनृत्यादिरागांश्च कृत्वा सा कामविह्वला ।।
प्रांजलिं प्रणता बद्ध्वा पुनस्तुष्टाव तं मुनिम् ।।४।।
तदा शुकस्तु भगवान्पद्यं स्तुति मयं शुभम् ।।
श्रुत्वा प्रसन्नहृदयो वरं ब्रूहीति सोऽब्रवीत् ।। ५ ।।
सा तु श्रुत्वा शुभं वाक्यं प्रोवाच श्लक्ष्णया गिरा ।।
पतिर्मे भव हे नाथ शरणागतवत्सल ।। ६ ।।
इति श्रुत्वा तु वचनं तथा कृत्वा तया सह ।।
स रेमे मुनिशार्दूलः शुको विज्ञानकोविदः ।। ७ ।।
तयोस्सकाशात्संजज्ञे मुनिर्नाम सुतोऽनयोः ।।
तपश्चकार बलवान्द्वादशाब्दं प्रयत्नतः ।। ८ ।।
तस्मै ददौ तदा पत्नीं स्वर्णदेवस्य वै सुताम् ।।
कुबेरो रुद्रसहितः स मुनिस्तु मुदान्वितः ।। ९ ।।
तया रेमे प्रसन्नात्मा तयोर्जाता सुतोत्तमा ।।
किन्नरी नाम विख्याता हिमतुंगे समुद्भवा ।।
तपश्चचार सा देवी रूपयौवन शालिनी ।। 3.3.29.१० ।।
तदा प्रसन्नो भगवाञ्छंकरो लोकशंकरः ।।
मकरंदाय धीराय ददौ तां रुचिराननाम् ।। ११ ।।
मुनिस्तु शंकरं प्राह देवदेव नमोऽस्तु ते ।।
मत्सुतायै वरं देहि राष्ट्रवर्धनमुत्तमम् ।। १२ ।।
इति श्रुत्वा शिवः प्राह गुरुंडान्ते च भूतले ।।
मध्यदेशे च ते राष्ट्रं भविष्यति सुखप्रदम् ।।
त्रिंशदब्दप्रमाणेन तत्पश्चात्क्षयमेष्यति ।। १३ ।।
इति श्रुत्वा तु स मुनिर्हिमतुंगनिवासकः ।।
मकरंदेन सहितस्तत्र वासमकारयत्।।१४।।
इति ते कथितं विप्र पुनः शृणु कथां शुभाम् ।।
ऊनत्रिंशाब्दकं प्राप्ते कृष्णांशे रणकारणम् ।। १५ ।।
नेत्रपालस्य नगरं नानाधातुविचित्रितम् ।।
मत्वा न्यूनपतिर्बौद्धो रुरोध नगरं शुभम् ।। १६ ।।
सप्तलक्षयुतो राजा बौद्धसिंहो महाबलः ।।
त्रिलक्षबलसंयुक्तैस्सार्द्धं युद्धमचीकरत् ।। १७ ।।
सप्ताहोरात्रमभवत्सेनायुद्धं भयानकम् ।।
योगसिंहो भोगसिंहो विजयश्च महाबलः ।। १८ ।।
जघान शात्रवीं सेनां बौद्धसिंहेन पालिताम् ।।
एतस्मिन्नंतरे प्राप्ताः श्यामजापकदेशगाः ।। १९ ।।
बौद्धा मायाविनस्सर्वे लोकमान्यप्रपूजकाः ।।
पुनर्जातं महद्युद्धं मासमेकं तयोस्तदा ।। 3.3.29.२० ।।
नेत्रपालाज्ञया सर्वे कृष्णांशाद्याः समागताः ।।
कृष्णांशो बिंदुलारूढो देवः स्वहयसंस्थितः ।।२१।।
इंदुलश्च करालाश्वे मंडलीको गजे स्थितः ।।
गौतमश्च समायातो हरिनागरसंस्थितः ।।२२।।
तालनश्च समायातः सिंहिन्युपरि संस्थितः ।।
धान्यपालस्तैल्यकारो युयुत्सोरंशसंभवः ।।२३।।
लल्लसिंहश्च बलवान्कुंतिभोजांशसंभवः ।।
ताम्बूलीयकजातीयो लक्षणानुज्ञया ययौ ।। २४ ।।
तदा तु नेत्रसिंहश्च सप्तलक्षबलैर्वृतः ।।
पालितश्चाष्टभिर्वीरैस्तेषां नाशाय चाययौ ।। २५ ।।
भयभीताश्च ते बौद्धास्त्यक्त्वा देशं समन्ततः ।।
चीनदेशमुपागम्य युद्धभूमिमकारयन् ।। २६ ।।
तदनुप्रययुस्ते वै हूहानदमुपस्थिताः ।।
माघमासे तु संप्राप्ते पुनर्युद्धमवर्तत ।। २७ ।।
श्यामदेशोद्भवा लक्षं तथा लक्षं च जापकाः ।।
दश लक्षाश्चीनदेश्या युद्धाय समुपस्थिताः ।। २८ ।।
कृष्णांशो लक्षसेनाढ्यो देवो लक्षसमन्वितः ।।
नेत्रपालश्च लक्षाढयो योगभोगसमन्वितः ।। २९ ।।
मंडलीकश्चेन्दुलेन लक्षसैन्यसमन्वितः ।।
ध्यानपालो लल्लसिंहो लक्षसैन्यान्वितः स्थितः ।। 3.3.29.३० ।।
जननायक एवापि लक्षसैन्ययुतः स्थितः ।।
तालनो लक्षसेनाढ्यो युद्धाय समुपागतः ।। ३१ ।।
तत्र युद्धमभूद्घोरं बौद्धानामार्यकैस्सह ।।
पक्षमात्रं मुनिश्रेष्ठ यमलोकविवर्द्धनम् ।। ३२ ।।
सप्त लक्षं हता बौद्धा द्विलक्षं चार्यदेशजाः ।।
ततस्ते भयभीताश्च त्यक्त्वा युद्धं गृहं ययुः ।। ३३ ।।
कृत्वा दारुमयीं सेनां कलयंत्रप्रभावतः ।।
गजाश्च दशसाहस्रा सशूराः काष्ठनिर्मिताः ।। ३४ ।।
एकलक्षं हयारूढा दारुपाश्च रणोन्मुखाः ।।
सहस्रं महिषारूढास्सहस्रं कोलपृष्ठगाः।। ३५ ।।
सिंहारूढास्सहस्रं च सहस्रं हंसवाहनाः।।
कंकगोमायुगृध्राणां श्यामारूढाः पृथक्तथा ।। ३६ ।।
उष्ट्राः सप्तसहस्राणि सशूराश्च रणोन्मुखाः ।।
एवं सपादलक्षैश्च काष्ठसैन्यैश्च मानुषाः ।। ३७ ।।
द्विलक्षाणि क्षयं जग्मुः कृष्णांशाद्यैः सुरक्षिताः ।।
ततो हाहाकृतं सैन्यं चार्य्याणां च ननाश तत् ।। ।। ३८ ।।
दृष्ट्वा तत्कौतुकं रम्यं जयन्तो युद्धकोविदः ।।
आग्नेयं शरमादाय काष्ठसैन्येषु चाक्षिपत् ।। ३९ ।।
भस्मीभूताश्च ते सर्वे तत्रैव विलयं गताः ।।
त्रिलक्षं क्षत्रियाः शेषा जयंतं रणकोविदम् ।।
चक्रुर्जयरवं तत्र तुष्टुवुश्च पुनः पुनः ।। 3.3.29.४० ।।
तदा तु चीनजा बौद्धाः कृत्वा विंशत्सहस्रकान्।। हयारूढाँल्लोहमयान्प्रेषयामासुरूर्जितान् ।। ४१ ।।
योगसिंहो गजारूढो धनुर्बाणधरो वली ।।
कंठेषु लोहजान्वीरांस्ताडयामास वै तदा ।। ।। ४२ ।।
मृतास्ते पंचसाहस्रा योगसिंहशरार्दिताः ।।
बौद्धसिंहस्तदा शूरो दृष्ट्वा तस्य पराक्रमम् ।।
कृत्वा लोहमयं सिंहं योगसिंहमपेषयत् ।।४३।।
पातेन तस्य सिंहस्य स वीरो मरणं गतः ।।
तदा तु भोगसिंहश्च हयारूढो जगाम ह ।।
स्वभल्लेन च तं सिंहं हत्वा तत्र जगर्ज वै ।। ४४ ।।
तदा तु बौद्धसिंहेन शार्दूलस्तत्र चोदितः ।।
सहयो भोगसिंहश्च तेनैव मरणं गतः ।। ४५ ।।
मातुलौ मृत्युवशगौ दृष्ट्वा स्वर्णवतीसुतः ।।
करालं हयमा रुह्य बौद्धसिंहमुपाययौ ।। ४६ ।।
शरमादाय वै शीघ्रं नाम्ना संमोहनं शुभम् ।।
मोहयित्वा रिपुबलं बौद्धसिंहसमन्वितम् ।। ४७ ।।
बद्ध्वा तान्बौद्धसिंहादीन्नृपान्दशसहस्रकम् ।।
कलयंत्रं च संचूर्ण्य कृष्णां शांतिकमाययौ ।। ४८ ।।
तदा ते हर्षितास्सर्वे प्रपेष्य नगरं ययुः ।।
तद्वेश्म योजनायामं सर्वसंपत्समन्वितम् ।।
लुण्ठयित्वा बलात्सर्वे नृपदुर्गमुपाययुः ।। ४९ ।।
बौद्धसिंहस्तदागत्य जयन्तेन विमोचितः ।।
सुतां स्वां पद्मजां नाम्ना जयन्ताय ददौ मुदा ।। 3.3.29.५० ।।
दशकोटीः सुवर्णस्य चाह्लादाय तदा धनम्।।
सर्वैश्च बौद्धवृन्दैश्च तत्रैव शपथः कृतः ।। ५१ ।।
आर्यदेशं न यास्यामः कदाचिद्राष्ट्रहेतवे ।।
इत्युक्त्वा तान्प्रणम्याशु संप्रस्थानमकारयन् ।।
त्रिलक्षैश्च युतास्ते वै नेत्रपालगृहं गताः ।। ५२ ।।
।। ऋषयः ऊचुः ।। ।।
इन्दुलेन कथं सूत तत्र प्राणीकृता न हि ।।
सुप्रिया योगसिंहाद्यास्तन्नो वद विचक्षण ।। ५३ ।।
।। सूत उवाच ।। ।।
आगता यमलोकाद्वै कतिचित्प्राणिनो भुवि ।।
तदा तु दुःखितो देवो महेंद्रान्तमुपाययौ ।। ५४ ।।
देवराज नमस्तुभ्यं सर्वदेवप्रियंकर ।।
जयंतो जगतीं प्राप्य मृताञ्जीवयति स्वयम् ।।
अतो वै लोकमर्यादा विरुद्धा दृश्यते भुवि ।। ५५ ।।
इति श्रुत्वा तु वचनं महेन्द्रो देवमायया ।।
वडवामृतमाहृत्य तथा वै स्वर्गगां गतिम् ।।
जयंतस्य स्वपुत्रस्य मुमोद स सुरैः सह ।। ५६ ।।
इन्दुलश्च तदा दुःखी शारदां सर्वमंगलाम् ।।
पूजयित्वा विधानेन योगध्यान परोऽभवत् ।। ५७ ।।
इति ते कथितं विप्र पुनः शृणु कथां शुभाम् ।।
नेत्रपालश्च बलवान्बहुपुत्रः शुचान्वितः ।।
दशकोटिमितं स्वर्णं तेभ्यो दत्त्वा समं समम् ।। ५८ ।।
प्रस्थानं कारयामास चाष्टानां बलशालिनाम् ।।
ते वै द्विलक्षसैन्याढ्याः स्वगेहाय ययुर्मुदा ।। ५९ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये एकोनत्रिंशोऽध्यायः ।। २९ ।।