भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः २२

गुरुण्डमौनराज्यवर्णनम्

सूत उवाच
इति श्रुत्वा बलिर्दैत्यो देवानां विजयं महत् ।
रोषणं नाम दैत्येन्द्रं समाहूय वचोऽब्रवीत् । । १
सुतस्तिमिरलिङ्गस्य सरुषो नाम विश्रुतः ।
त्वं हि तत्र समागम्य दैत्यकार्यं महत्कुरु । । २
इति श्रुत्वा स वै दैत्यो हृदि विप्राप्तरोषणः ।
ननाश वेदमार्गस्थान्देहलीदेशमास्थितः । । ३
पञ्चवर्षं कृतं राज्यं तत्सुतो बाबरोभवत् ।
विंशदब्दं कृत राज्यं होमायुस्तत्सुतोऽभवत् । । ४
होमायुषा मदान्धेन देवताश्च निराकृताः ।
ते सुराः कृष्णचैतन्यं नदीहोपवने स्थितम् । । ५
तुष्टुवुर्बहुधा तत्र श्रुत्वा क्रुद्धो हरिः स्वयम् ।
स्वतेजसा च तद्राज्यं विघ्नभूतं चकार ह । । ६
तत्सैन्यजनितैर्लोकैर्होमायुश्च निराकृतः ।
महाराष्ट्रैस्तदा तत्र शेषशाकः समास्थितः । । ७
देहलीनगरे रम्ये म्लेच्छो राज्यं चकार ह ।
धर्मकार्यं कृतं तेन तद्राज्यं पञ्चहायनम् । । ८
ब्रह्मचारी मुकुन्दश्च शङ्कराचार्यगोत्रजः ।
प्रयागे च तपः कुर्वन्विंशच्छिष्यैर्युतः स्थितः । । ९
बाबरेण च धूर्तेन म्लेच्छराजेन देवताः ।
भ्रंशिता स तदा ज्ञात्वा वह्नौ देहं जुहाव वै । । 3.4.22.१०
तस्य शिष्या गता वह्नौ म्लेच्छनाशनहेतुना ।
गोदुग्धे च स्थितं रोमं पीत्वा स पयसा मुनिः । । ११
मुकुन्दस्तस्य दोषेण म्लेच्छयोनौ बभूव ह ।
होमायुषश्च काश्मीरे संस्थितस्यैव पुत्रकः । । १२
जातमात्रे सुते तस्मिन्वागुवाचा शरीरिणी ।
अकस्माच्च वरो जातः पुत्रोऽयं सर्वभाग्यवान् । । १३
पैशाचे दारुणे मार्गे न भूतो न भविष्यति ।
अतः सोऽकबरो नाम होमायुस्तनयस्तव । । १४
श्रीधरः श्रीपतिः शम्भुर्वरेण्यश्च मधुव्रती ।
विमलो देववान्सोमो वर्द्धनो वर्तको रुचिः । । १५
मान्धाता मानकारी च केशवो माधवो मधुः ।
देवापिः सोमपाः शूरो मदनो यस्य शिष्यकाः । । १६
स मुकुन्दो द्विजः श्रीमान्दैवात्त्वद्गेहमागतः ।
इत्याकाशवचः श्रुत्वा होमायुश्च प्रसन्नधीः । । १७
ददौ दानं क्षुधार्तेभ्यः प्रेम्णा पुत्रमपालयत् ।
दशाब्दे तनये जाते देहलीदेशमागतः । । १८
शेषशाङ्कं पराजित्य स च राजा बभूव ह ।
अब्दं तेन कृतं राज्यं तत्पुत्रश्च नृपोऽभवत् । । १९
सम्प्राप्तेऽकबरे राज्यं सप्तशिष्याश्च तत्प्रियाः ।
पूर्वजन्मनि ये मुख्यास्ते प्राप्ता भूपतिं प्रति । । 3.4.22.२०
केशवो गानसेनश्च वैजवाक्स तु माधवः ।
म्लेच्छास्ते च स्मृतास्तत्र हरिदासो मधुस्तथा । । २१
मध्वाचार्यकुले जातो वैष्णवः सर्वरागवित् ।
पूर्वजन्मनि देवापिः स च वीरबलोऽभवत् । । २२
ब्राह्मणः पाश्चिमात्यो वै वाग्देवीवरदर्पितः ।
सोमपा मानसिंहश्च गौतमान्वयसम्भवः । । २३
सेनापतिश्च नृपतेरार्यभूपशिरोमणेः ।
सूरश्चैव द्विजो जातो दक्षिणश्चैव पण्डितः । । २४
बिल्वमङ्गल एवापि नाम्ना तन्नृपतेः सखा ।
नायिकाभेदनिपुणो वेश्यानां स च पारगः । । २५
मदनो ब्राह्मणो जातः पौर्वात्यः स च नर्तकः ।
चन्दलो नाम विख्यातो रहः क्रीडाविशारदः । । २६
अन्यदेशे गताः शिष्यास्तेषां पूर्वास्त्रयोदश ।
अनपस्य सुतो जातः श्रीधरः शत्रुवेदितः । । २७
विख्यातस्तुलसीशर्मा पुराणनिपुणः कविः ।
नारीशिक्षां समादाय राघवानन्दमागतः । । २८
शिष्यो भूत्वा स्थितः काश्यां रामानन्दमते स्थितः ।
श्रीपतिः स बभूवान्धो मध्वाचार्यमते स्थितः । । २९
सूरदास इति ज्ञेयः कृष्णलीलाकरः कविः ।
शम्भुर्वै चन्द्रभट्टस्य कुले जातो हरिप्रियः । । 3.4.22.३०
रामानन्दमते संस्थो भक्तकीर्तिपरायणः ।
वरेण्यः सोग्रभुङ्नामा रामानन्दमते स्थितः । । ३१
ज्ञानध्यानपरो नित्यं भाषाछन्दकरः कविः ।
मधुव्रती स वै जातो कीलको नाम विश्रुतः । । ३२
रामलीलाकरो धीमान्रामानन्दमते स्थितः ।
विमलश्च स वै जातः स नाम्नैव दिवाकरः । । ३३
सीतालीलाकरो धीमान्रामानन्दमते स्थितः ।
देववान्केशवो जातो विष्णुस्वामिमते स्थितः । । ३४
कविप्रियादिरचनां कृत्वा प्रेतत्वमागतः ।
रामज्योत्स्नामयं ग्रन्थं कृत्वा स्वर्गमुपाययौ । । ३५
सोमो जातः स वै व्यासो निम्बादित्यमते स्थितः ।
रहः क्रीडामयं ग्रन्थं कृत्वा स्वर्गमुपाययौ । । ३६
वर्द्धनश्च स वै जातो नाम्ना चरणदासकः ।
ज्ञानमालामयं कृत्वा ग्रन्थं रैदासमार्गगः । । ३७
वर्तकः स च वै जातो रोपणस्य मते स्थितः ।
रत्नभानुरिति ज्ञेयो भाषाकर्ता च जैमिनेः । । ३८
रुचिश्च रोचनो जातो मध्वाचार्यमते स्थितः ।
नानागानमयीं लीलां कृत्वा स्वर्गमुपाययौ । । ३९
मान्धाता भूपतिर्नाम कायस्थः स बभूव ह ।
मध्वाचार्यो भागवतं चक्रे भाषामयं शुभम् । । 3.4.22.४०
मानकारो नारिभावान्नारीदेहमुपागतः ।
मीरानामेति विख्याता भूपतेस्तनया शुभा । । ४१
मा शोभा च तनौ यस्या गतिर्गजसमा किल ।
सा मीरा च बुधैः प्रोक्ता मध्वाचार्यमते स्थिता । । ४२
एवं ते कथितं विप्र भाषाग्रन्थप्रकारणम् ।
प्रबन्धं मङ्गलकरं कलिकाले भयङ्करे । । ४३
स भूपोऽकबरो नाम कृत्वा राज्यमकण्टकम् ।
शतार्द्धेन च शिष्यैश्च वैकुण्ठभवनं ययौ । । ४४
सलोमा तनयस्तस्य कृतं राज्यं पितुः समम् ।
खुर्दकस्तनयस्तस्य दशाब्दं च कृतं पदम् । । ४५
चत्वारस्तनयास्तस्य नवरङ्गो हि मध्यमः ।
पितरं च तथा भ्रातॄञ्जित्वा राज्यमचीकरत् । । ४६
पूर्वजन्मनि दैत्योऽयमन्धको नाम विश्रुतः ।
कर्मभूम्यां तदंशेन दैत्यराजाज्ञया ययौ । । ४७
तेनैव बहुधा मूर्तीर्भ्रंशिताश्च समन्ततः ।
दृष्ट्वा देवास्तदागत्य कृष्णचैतन्यमब्रुवन् । । ४८
भगवन्दैत्यराजांशः स जातश्च महीपतिः ।
भ्रंशयित्वा सुरान्वेदान्दैत्यपक्षं विवर्द्धते । । ४९
इति श्रुत्वा स यज्ञांशो नदीहोपवने स्थितः ।
शशाप तं दुराचारं यथा वंशक्षयो भवेत् । । 3.4.22.५०
राज्यमेकोनपञ्चाशत्कृतं तेन दुरात्मना ।
सेवाजयो नाम नृपो देवपक्षविवर्द्धनः । । ५१
महाराष्ट्रद्विजस्तस्य युद्धविद्याविशारदः ।
हत्वा तं च दुराचारं तत्पुत्राय च तत्पदम् । । ५२
दत्वा ययौ दाक्षिणात्ये देशे देवविवर्द्धनः ।
अलोमा नाम तनयः पञ्चाब्दं तत्पदं कृतम् । । ५३
तत्पश्चान्मरणं प्राप्तो विद्रधेन रुजा मुने ।
विक्रमस्य गते राज्ये सप्तत्युत्तरकं शतम् । । ५४
ज्ञेयं सप्त दशं विप्र यदालोमा मृतिं गतः ।
तालनस्य कुले जातो म्लेच्छः फलरुषो बली । । ५५
मुकुलस्य कुलं हत्वा स्वयं राज्यं चकार ह ।
दशाब्दं च कृतं राज्यं तेन भूपेन भूतले । । ५६
शत्रुभिर्मरणं प्राप्तो दैत्यलोकमुपागमत् ।
महामदस्तत्तनयो विंशत्यब्दं कृतं पदम् । । ५७
तद्राष्ट्रे नादरो नाम दैत्यो देश उपागमत् ।
हत्वार्यांश्च सुराञ्जित्वा देशं खुरजमाययौ । । ५८
महामत्स्यो हि मदस्य तनयस्तत्पितुः पदम् ।
 गृहीत्वा पञ्चवर्षान्तं स च राज्यं चकार ह । । ५९
महाराष्ट्रैर्हतो दुष्टस्तालनान्वयसम्भवः ।
देहलीनगरे राज्यं दशाब्दं माधवेन वै । । 3.4.22.६०
कृतं तत्र तदा म्लेच्छ आलोमा राज्यमाप्तवान् ।
तद्राष्ट्रे बहवो जाता राजानो निजदेशजाः । । ६१
ग्रामपा बहवो भूपा देशे देशे बभूविरे ।
मण्डलीकपदं तत्राक्षयं जातं महीतले । । ६२
त्रिंशदब्दमतो जातं ग्रामे ग्रामे नृपे नृपे ।
तदा तु सकला देवाः कृष्णचैतन्यमाययुः । । ६३
यज्ञांशश्च हरिः साक्षाज्ज्ञात्वा दुःखं महीतले ।
मुहूर्तं ध्यानमागम्य देवान्वचनमब्रवीत् । । ६४
पुरा तु राघवो धीमाञ्जित्वा रावणराक्षसम् ।
कपीनुज्जीवयामास सुधावर्षैस्समन्ततः । । ६५
विकटो वृजिलो जालो वरलीनो हि सिंहलः ।
जवस्सुमात्रश्च तथा नाम्ना ते क्षुद्रवानराः । । ६६
रामचन्द्रं वचः प्राहुर्देहि नो वाच्छितं प्रभो ।
रामो दाशरथिः श्रीमाञ्ज्ञात्वा तेषां मनोरथम् । । ६७
देवाङ्गनोद्भवाः कन्या रावणाल्लोकरावणात् ।
दत्त्वा तेभ्यो हरिस्साक्षाद्वचनं प्राह हर्षितः । । ६८
भवन्नाम्ना च ये द्वीपा जालन्धरविनिर्मिताः ।
तेषु राज्ञो भविष्यन्ति भवन्तो हितकारिणः । । ६९
नन्दिन्या गोश्च रुण्डाद्वै जाता म्लेच्छा भयानकाः ।
गुरुण्डा जातयस्तेषां तास्तु तेषु सदा स्थिताः । । 3.4.22.७०
जित्वा तांश्च गुरुण्डान्वै कुरुध्वं राज्यमुत्तमम् ।
इति श्रुत्वा हरिं नत्वा द्वीपेषु प्रययुर्मुदा । । ७१
विकटान्वयसम्भूता गुरुण्डा वानराननाः ।
वाणिज्यार्थमिहायाता गौरुण्डा बौद्धमार्गिणः । । ७२
ईशपुत्रमते संस्थास्तेषां हृदयमुत्तमम् ।
सत्यव्रतं कामजितमक्रोधं सूर्यतत्परम् । । ७३
यूयं तत्रोष्य कार्यं च नृणां कुरुत मा चिरम् ।
इति श्रुत्वा तु ते देवाः कुर्युरार्चिकमादरात् । । ७४
नगर्य्या कलिकातायां स्थापयामासुरुद्यताः ।
विकटे पश्चिमे द्वीपे तत्पत्नी विकटावती । । ७५
अष्टकौशलमार्गेण राजमन्त्रं चकार ह ।
तत्पतिस्तु पुलोमार्चिः कलिकातां पुरीं स्थितः । । ७६
विक्रमस्य गते राज्ये शतमष्टादशं कलौ ।
चत्वारिंशं तथाब्दं च तदा राजा बभूव ह । । ७७
तदन्वये सप्तनृपा गुरुण्डाश्च बभूविरे ।
चतुष्षष्टिमितं वर्षं राज्यं कृत्वा लयं गताः । । ७८
गुरुण्डे चाष्टमे भूपे प्राप्ते न्यायेन शासति ।
कलिपक्षो बलिर्दैत्यो मुरं नाम महासुरम् । । ७९
आरुह्य प्रेषयामास देवदेशे महोत्तमे ।

स मुरो वार्डिलं भूपं वशीकृत्य हृदि स्थितः । । 3.4.22.८०
आर्यधर्मविनाशाय तस्य बुद्धिं चकार ह ।
मूर्तिसंस्थास्तदा देवा गत्वा यज्ञांशयोगिनम् । । ८१
नमस्कृत्याब्रुवन्सर्वे यथा प्राप्तो मुरोऽसुरः ।
ज्ञात्वा शशाप कृष्णांशो गुरुण्डान्बौद्धमार्गिणः । । ८२
क्षयं यास्यन्ति ते सर्वे ये मुरस्य वशं गताः ।
इत्युक्ते वचने तस्मिन्गुरुण्डा कालनोदिताः । । ८३
स्वसैन्यैश्च क्षयं जग्मुर्वर्षमात्रान्तरे खलाः ।
सर्वे त्रिंशत्सहस्राश्च प्रययुर्यममन्दिरे । । ८४
वाग्दण्डैस्स च भूपालो वार्डिलो नाशमाप्तवान् ।
गुरुण्डो नवमः प्राप्तो भेकलो नाम वीर्यवान् । । ८५
 न्यायेन कृतवान्राज्य द्वादशाब्दं प्रयत्नतः ।
आर्यदेशे च तद्राज्यं बभूव न्यायशासति । । ८६
लडिलो नाम विख्यातो गुरुण्डो दशमोहितः ।
द्वात्रिंशाब्दं च तद्राज्यं कृतं तेनैव धर्मिणा । । ८७
लडिले स्वर्गते प्राप्ते मकरन्दकुलोद्भवाः ।
आर्याः प्राप्तास्तदा मौना हिमतुङ्गनिवासिनः । । ८८
बभ्रुवर्णाः सूक्ष्मनसो वर्तुला दीर्घमस्तकाः ।
एवं लक्षाश्च सम्प्राप्ता देहल्यां बौद्धमागिणः । । ८९
आर्जिको नाम वै राजा तेषां तत्र बभूव ह ।
तस्य पुत्रो देवकणो गङ्गोत्रगिरिमूर्द्धनि । । 3.4.22.९०
द्वादशाब्दं तपो घोरं तेपे राज्यविवृद्धये ।
तदा भगवती गङ्गा तपसा तस्य धीमतः । । ९१
स्वरूपं स्वेच्छया प्राप्य ब्रह्मलोकं जगाम ह ।
कुबेरश्च तदागत्य दत्त्वा तस्मै महत्पदम् । । ९२
आर्याणां मण्डलीकं च तत्रैवान्तरधीयत ।
मण्डलीको देवकर्णो बभूव जनपालकः । । ९३
षष्ट्यब्दं च कृतं राज्यं तेन राज्ञा महीतले ।
तदन्वयेऽष्टभूपाश्च बभूवुर्देवपूजकाः । । ९४
द्विशताब्दं पदं कृत्वा स्वर्गलोकमुपाययुः ।
एकादशश्च यो मौनः पन्नगारिरिति श्रुतः । । ९५
चत्वारिंशच्च वर्षाणि राज्यं कृत्वा प्रयत्नतः ।
स्वर्गलोकं गतो राजा पन्नगैर्मरणं गतः । । ९६
एवं च मौर्यजातीयैः कृतं राज्यं महीतले । । ९७

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये गुरुण्डमौनराज्यवर्णनं नाम द्वाविंशोऽध्यायः । २२